श्रीमत्कौण्डभट्टविरचितः वैयाकरणभूषणसारः
१
श्रीलक्ष्मीरमणं नौमि गौरीरमणरूपिणम्।स्फोटरूपं यतः सर्वं जगदेतद्विवर्तते।।
२
अशेषफलदातारं भवाब्धितरणे तरिम्। शेषाशेषार्थलाभार्थं प्रार्थये शेषभूषणम्।।
३
वाग्देवी यस्य जिह्वाग्रे नरीनर्ति सदा मुदा। भट्टोजिदीक्षितमहं पितृव्यं नौमि सिद्धये।।
४
पाणिन्यादिमुनीन् प्रणम्य पितरं रङ्गोजिभट्टाभिधम्, द्वैतध्वान्तनिवारणादिफलिकां पुंभाववाग्देवताम्। ढुण्ढिं गौतमजैमिनीयवचनव्याख्यातृभिर्दूषितान्, सिद्धान्तानुपपत्तिभिः प्रकटये तेषां वचो दूषये।।
५
नत्वा गणेशपादाब्जं गुरूनथ सरस्वतीम्। श्रीकौण्डभट्टः कुर्वेऽहं वैयाकरणभूषणम्।।
६
फणिभाषितभाष्याब्धेः शब्दकौस्तुभ उद्धृतः । तत्र निर्णीत एवाऽर्थः सङ्क्षेपेणेह कथ्यते ॥
७
फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः । फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम् ॥