Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

नानुबन्धकृतमसारूप्यम्


नन्वेवमपि 'वाऽसरूपः' इति सूत्रेण कविषयेऽणोऽप्यापत्तिरित्यत आह - 

नानुबन्धकृतमसारूप्यम्॥८॥

'ददातिदधात्योर्विभाषाइति णबाधकशस्य विकल्पविधायकमस्यां ज्ञापकम्। तेन 'गोद' इत्यादौ नाणिति 'वाऽसरूप'सूत्रे भाष्ये स्पष्टम्॥८॥

 

कामाख्या

एकान्तपक्षे अनुबन्धसहिते बोधकतायाः स्वीकारेण काणोरसारूपत्वमिति तत्प्रवृत्तिः। ननु वासरूपसूत्रे औपदेशिकस्यासारूप्यस्य ग्रहणेऽसरूपग्रहणं व्यर्थम्। तत्र सर्वस्यैवासारूप्येण व्यावर्त्यालाभात् प्रायोगिकस्य चासारूप्यस्य लक्षणप्रवृत्तिम्विना निश्चितप्रयोगज्ञानाभावेनाज्ञानादिति चेन्न, 'मूर्तौ घन' इति घनादेशसन्नियोगशिष्टेनापा 'हलश्च वध' इति वधादेशसन्नियोगशिष्टस्यापो विकल्पेन बाधाभावायासरूपग्रहणस्य चारितार्थ्यात् । यदि च तावन्मात्रप्रयोजनकत्वे हनश्चवधोऽमूर्ताविति न्यासेन बाध्यबाधकभावाभावकल्पनान्न दोष इत्युच्यते तर्हि 'तुन्दशोकयो: परिमृजापनुदो'रितिविहितकेन इगुपधलक्षणकस्य वैकल्पिकवैकल्पिकबाधाभावाय तत्। वैकल्पिकबाधे हि विकल्पेन समासापत्तिरिति तत्त्वम्। परिभाषातः पूर्वं स्वविशिष्टत्वम् स्वसरूपत्वम्। वै. स्वघटक यावद्वृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकधर्मवद्घटितत्व स्वटकवृत्तिश्रावणप्रत्यक्षविषयतावच्छेदक-धर्मवदघटितत्वोभयसम्बन्धेन। परिभाषाबलेन तु धर्मेऽनुबन्धावृत्तित्वन्देयमित्यन्यत् सुगममिति दिक्॥८॥

परिभाषार्थमञ्जरी

विकल्पविधायकमिति।विकल्पार्थकविभाषाघटितं सूत्रमित्यर्थः। एवञ्च विभाषाग्रहणं ज्ञापकमिति भावः। वासरूप सूत्रे इति। अत्र यद्यपि शिद्ग्रहण-माङनिर्देश विभाषाग्रहणैरनेकान्त[1]पक्षोऽपि ज्ञापयितुं शक्यस्तथापि अनेकत्रानेकलक्षणादिप्रयुक्तगौरवेणभाष्यविरोधेन चोक्त[2]ज्ञापकतैव साध्विति ध्येयम्॥८॥

[1]अनेकान्तत्वपक्ष इति के खे गे

[2]उक्तार्थज्ञापकता इति के खे गे