उपपदविभक्तेः कारकविभक्तिर्बलीयसी
ननु 'नमस्करोति देवान्, नमस्यति देवान्' इत्यादौ 'नमः स्वस्ति' इति चतुर्थी दुर्वारेत्यत आह –
उपपदविभक्तेः कारकविभक्तिर्बलीयसी।१०३।
कारकविभक्तित्वञ्च क्रियाजनकार्थकविभक्तित्वम्, तच्च प्रथमाया अप्यस्तीति सापि कारकविभक्तिरिति 'सहयुक्ते' इत्यादिसूत्रेषु भाष्ये ध्वनितम्। इयं च वाचनिक्येव। अत एव 'यस्य च भावेन' इति सप्तम्यपेक्षयाधिकरणसप्तम्या बलवत्त्वमनेन न्यायेन 'तत्र च दीयते' इति सूत्रे भाष्ये ध्वनितं कैयटेन च स्पष्टमुक्तम्। एतेन क्रियान्वयित्वं कारकत्वमित्यपास्तम्। 'यस्य च भावेन' इति सप्तम्या अपि क्रियान्वयित्वात्। ये तु प्रधानीभूतक्रियासम्बन्धनिमित्तकार्यत्वेन कारकविभक्तीनां बलवत्त्वं वदन्ति तेषामुभयोरपि क्रियासम्बन्धनिमित्तकत्वेन तदसङ्गतिः स्पष्टैव, 'नमोवरिवः' इति सूत्रे नमस्यति देवानित्यादौ चतुर्थीवारणाय भाष्ये उपन्यासस्यासङ्गतेश्च। एतेन क्रियाकारकसम्बन्धोऽन्तरङ्ग इति तन्निमित्ता विभक्तिरन्तरङ्गा, उपपदार्थेन तु यत्किञ्चित्क्रियाकारकभावमूलकः सम्बन्ध इति तन्निमित्ता विभक्तिर्बहिरङ्गेत्यपास्तम्। नमस्यतीत्यत्र नमःपदार्थेऽपि क्रियाकारकभावेनैवान्वयात्। अत्र च नमःपदार्थस्यापि क्रियात्वं मुण्डयतौ मुण्डस्येव। 'सहयुक्ते' इत्यादौ च प्रधाने प्रथमासाधनार्थमियं भाष्य उपन्यस्तेत्यन्यत्र विस्तरः॥१०३॥
कामाख्या
नमस्करोतीति। न चात्र कृधात्वर्थफलेऽन्वयविवक्षायां द्वितीयायाः, नमः पदार्थेऽन्वविवक्षायां चतुर्थ्याश्च प्राप्तेर्व्यवस्थितत्वात् कथं द्वितीयाप्रवृत्तिकाले चतुर्थ्याः प्राप्तिरिति वाच्यम्। नमः पदस्य कृधात्वर्थनमस्कारार्थद्योतकतया स्वनिष्ठापकृष्टत्वप्रकारकबोधानुकूलव्यापाररूपनमस्कारघटकबोधान्वयमात्रेणैवोभाभ्यामन्वयलाभादेकदैव विभक्तिद्वयप्राप्तेः सत्त्वात्। नमस्यति देवानित्यत्र तु नमः पदस्यैव नमस्कारार्थवाचकत्वाद्धातुत्वाच्चोभयोर्युगपत्प्राप्तिः सुलभेति बोध्यम्। क्रियाजनकेति। क्रियानिष्ठविशेष्यतानिरूपितक्रियाकारकभावसम्बन्धावच्छिन्नप्रकारताप्रयोजकविभक्तित्वमित्यर्थः। तेन चतुर्थ्यर्थोद्देश्यत्वस्य उद्देश्यत्वं जानामीति प्रतीत्या क्रियाजनकार्थत्वेऽपि उक्तप्रकारकाप्रयोजकत्वाभावेन न दोषः। मातुः स्मरतीत्यादौ मातृविषयकस्मरणप्रतीत्या षष्ठ्यास्तादृशप्रकारताप्रयोजकत्वविरहः। किञ्च कारकत्वव्याप्यकर्तृत्वादिबोधकविभक्तित्वन्तत्त्वमिति न कोऽपि दोषः।प्रथमायाअपीति। अभिहिते प्रथमेति वार्तिकस्वारस्येन प्रथमाया अपि कारकार्थत्वादिति भावः। भाष्येध्वनितमिति। तत्र हि अप्रधानग्रहणाभावे पुत्रेण सहागतः पितेत्यादौ पितृशब्दादपि तृतीयामाशङ्क्य अनेन न्यायेन प्रथमया तृतीयाबाधनं कृत्वा तत्प्रत्याख्यातम्। उपपदविभक्त्यपेक्षया कारकविभक्तेरन्तरङ्गत्वमिति न्यायमूलिकेयमिति प्राचीनमतं दूषयितुमाह इयञ्चेति। अतएवेति। अस्या वाचनिकत्वादेव। 'तत्र च दीयत' इत्यस्य कार्यमित्यस्य च प्रोजननिरूपणावसरे मास इति न भावलक्षणसप्तमी। किन्तर्हि औपश्लेषिकेऽधिकरणे इत्युक्तम्। एतेन कारकविभक्तेर्बलवत्वं ध्वनितम्। कैयटेन च उपपदविभक्तेरिति न्यायेनौपश्लेषिकाधिकरणे सप्तमीति स्पष्टमेवोक्तम्। प्राचामुक्तिं खण्डयतिएतेनेति। वक्ष्यमाणप्रकारेण। तन्दर्शयति यस्यचेति। प्राचीनान्तरोक्तमनूद्य दूषयति येत्विति। उभयोरपीति। सत्सप्तम्यधिकरणसप्तम्योः। तदसंगतिः। 'तत्र च दीयत' इति सूत्रोक्तभाष्यासंगतिः। एतेन। 'नमो वरिव' इति सूत्रस्थभाष्यविरोधेन। यत्किञ्चिदिति।' नमः स्वस्ती'त्यादौ स्वरूपसूत्रेण स्वरूपस्यैव नमः शब्दार्थत्वेन तत्सम्बन्धो देवस्य स्वद्योत्यक्रियाकर्मत्वं क्रियया सह तु कर्मत्वमेवेत्यन्तरङ्गबहिरङ्गभावःस्पष्ट एव। वस्तुतस्तु प्रधाननिमित्तकत्वेन कारकविभक्तीनां बलवत्वं तन्मूलकोऽयं न्याय इत्यन्यत्र विस्तरः। ननु नमः पदस्य नामत्वेन तदर्थस्याक्रियात्वात् तत्र क्रियाकारकभावसम्बन्धेनान्वयः कथमित्यत आह अत्रचेति। अन्यत्सुगमम्॥१०३॥
परिभाषार्थमञ्जरी
नमस्यति देवानित्यादाविति। आदिना मुनित्रयं नमस्कृत्य इत्यस्य संग्रहः। केचित्तु मुनित्रयमिति प्रतीकस्थकारकविभक्तेर्ब्बलवत्वात् द्वितीयेति शेखरादयः। न च नमश्शब्दस्य साक्षात्प्रभृतिगणे पाठात् 'साक्षात्प्रभृतीनि चे'ति कृञो योगे गतिसंज्ञायां तस्योपसर्गवत् द्योतकतया कृञ एव प्रणत्यर्थकत्वेनानार्थकोऽयं नमः शब्द इति। तस्य स्वरादिगणपठित सत्वार्थकस्वस्त्यादिसाहचर्य्याभावेन सूत्रेऽग्रहणात्तद्योगे द्वितीयैव। स्वरादिगणपठित नमश्शब्दयोगे चतुर्थीति माधवोक्तं समाधानमपि सम्यगेवेति वाच्यम्। रावणाय नमस्कुर्य्यात् इति भट्टिप्रयोगे द्वितीयाप्रसङ्गात्। न च स्वरादिपठितस्यायं प्रयोगः। 'नमस्पुरसो'रिति सत्त्वानापत्तेः। तत्र 'नमः स्वस्ती'ति चतुर्थीति जयमङ्गलानुरोधात् सविसर्गपाठकल्पनेऽपि स्वयं भुवे नमस्कृत्येत्यादौ [1]समासानापत्तिः दुःपरिहारेत्यादिदूषणमभिदधुः। तत्तु 'क्रियार्थोपपदस्ये'ति सूत्रास्फूर्त्तिविलसितम्। किञ्चेमं विषयविभागमनादृत्य मुनित्रयमित्यादौ उपपदविभक्तेरिति न्यायेनैव समाधानं कुर्वता त्वयापि 'रावणाय नमस्कुर्य्याः स्यात्सीते स्वास्ति ते। ध्रुवं स्वयं भुवे नमस्कृत्येत्यादौ द्वितीयावारणाय माधवाचार्य हृद्याशयानुसरण्यनुसरणस्यैव कर्त्तव्यत्वात्। एतेन नारायणं नमस्कृत्येत्यादयोऽप्यनुगृहीताः। न च रावणाय नमस्कुर्य्या इत्यत्र 'नमः स्वस्ती'ति चतुर्थीति तद्व्याख्या जयमङ्गला स्यात्। सीते स्वस्ति ते ध्रुवमिति मूले सूत्रक्रमोदाहरणे स्वरसदिक् दंतिशुण्डापात इति वाच्यम्। एतादृशविषयविभागज्ञानखड्गेन तस्य विच्छिन्नत्वात्। किञ्च तन्मतेऽपि द्वितीयापत्तेः दुर्व्वारत्वेन त्वदुक्तेरेवावलम्यत्वात्। न च 'क्रियार्थे'ति चतुर्थीति दोषनिस्तारः। रावणस्य प्रतिकूलत्वेन तादृशार्थस्यासंभवात्[2]। अपि चात्र माधवग्रन्थं दूषयता त्वयापि परिभाषाप्रदीपार्चिषि रावणाय नमस्कुर्य्या इत्यादौ 'क्रियार्थोपपदस्ये'ति चतुर्थी स्वीकृतैवेति त्वदुक्तेः पूर्वापरविरोधं कथं न पर्य्यालोचनयेरिति यत्किञ्चित् प्रलपितमेतदिति दिक्॥१०३॥
[1]समाधानापत्तिः इति छपुस्तके पाठः।
[2]न च 'क्रियार्थे'ति चतुर्थीति दोषनिस्तारः। रावणस्य प्रतिकूलत्वेन तादृशार्थस्यासंभवात्। इति पाठ झ-गपुस्तके नोपलभ्यते।