Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

प्रधानाप्रधानयोः प्रधाने कार्यसम्प्रत्ययः


ननु 'ब्राह्मणवत्सा च ब्राह्मणीवत्सश्चे'त्यादौ 'पुमान् स्त्रिया' इत्येकशेषापत्तिः स्त्रीत्वपुंस्त्वातिरिक्तकृतविशेषाभावादत आह -

प्रधानाप्रधानयोः प्रधाने कार्यसम्प्रत्ययः।१०६।

 तेन प्रधानस्त्रीत्वपुंस्त्वातिरिक्ताऽप्रधानस्त्रीत्वपुंस्त्वकृतविशेषस्यापि सत्त्वेन न दोषः। स्पष्टा चेयं 'पुमान् स्त्रिया' 'नपुंसकमनपुंसकेन' इत्यनयोर्भाष्ये। अन्तरङ्गोपजीव्यादपि प्रधानं प्रबलमिति 'हेतुमति च' इत्यत्र भाष्यकैयटयोः॥१०६॥

 


कामाख्या

प्रधानाप्रधानेति। स्त्रीत्वावच्छिन्नमुख्यविशेष्यकबोधतात्पर्येणोच्चरितेन सहोक्तौ पुंस्त्वावच्छिन्नमुख्यविशेष्यकबोधतात्पर्येणोच्चरितं शिष्यते मुख्यविशेष्यतावच्छेदकस्त्रीत्वपुंस्त्वमात्रकृतस्तयोः कृत्स्नो विशेषश्चेदिति 'पुमानस्त्रिये'त्यस्यार्थादिति तत्त्वम्। एवं पुंस्त्वावच्छिन्नमुख्यविशेष्यकतात्पर्येणोच्चारिताच्छसः सस्य नो भवतीति 'तस्माच्छसो न' इत्यस्यार्थस्तेन राजकुमारीः पश्येत्यत्र न दोषः।अन्तरङ्गोपजीव्यादिति। तेन शत्रूनगमयत् स्वर्गमित्यादौ प्रयोज्यक्रियानिरूपितकर्तृत्वेऽन्तरङ्गत्वोपजीव्यत्वयोः सत्त्वेऽपि तद्बाधित्वा प्रधानक्रियानिमित्तत्वेन प्राधान्यात् कर्मत्वसिद्धौ 'गतिबुद्धि'सूत्रस्य नियमार्थत्वं 'हेतुमति चे'ति सूत्रभाष्योक्तं संगच्छते॥१०६॥

नास्ति।