श्रुतानुमितयोः श्रुतसम्बन्धो बलवान्
ननु 'अस्थि' इत्यनङ् 'प्रियसक्थ्ना ब्राह्मणेने'त्यत्र न स्याद्, अङ्गस्य नपुंसकत्वाभावादत आह –
श्रुतानुमितयोः श्रुतसम्बन्धो बलवान् ।११३।
श्रुतेनैव सम्बन्धो नानुमितेन प्रकरणादिप्राप्तेनेत्यर्थः। प्रकरणादितः श्रुतेर्बलवत्त्वादिति भावः। एवं च तत्र लिङ्गमस्थ्यादीनामेव विशेषणं नाङ्गस्य। शिशीलुङ्नुम्विधिषु तु गृह्यमाणस्याभावात् प्रकरणप्राप्ताङ्गस्यैव विशेषणम्। अत एव 'वा नपुंसकस्य' इति सूत्रे वा शाविति न कृतम्। तत्र नपुंसकग्रहणं हि गृह्यमाणस्य शत्रन्तस्यैव नपुंसकत्वे यथा स्यात्। 'बहवो ददतो येषु तानि कुलानि बहुददती'त्यत्र मा भूद्, 'बहूनि ददन्ति येषु ते बहुददन्त' इत्यत्र यथा स्यादित्येवमर्थम्। स्पष्टं चेदं 'स्वमोर्नपुंसकात्' इत्यत्र भाष्ये। केचित्तु 'अचो रहाभ्यां द्वे' इत्यत्र श्रुतेन रेफस्य निमित्तत्वेन यरन्तर्भावादनुमितेन कार्यित्वं बाध्यत इत्येतदुदाहरणमाहुः, तन्न। तक्रकौण्डिन्यन्यायेन सिद्धेरित्यन्यत्र विस्तरः॥११३॥
कामाख्या
अस्थिदधीतिसूत्रे।नह्युपाधेरुपाधिर्भवतीति न्यायेन प्रधानाप्रधानन्यायेन च नपुंसकत्वस्याङ्गविशेषणत्वौचित्येन प्रियसक्था ब्राह्मणेनेत्यत्राङ्गस्य तथात्वाभावेनासिद्धिरिति भावः। श्रुतेनैवेति। प्रकरणप्राप्ताङ्गापेक्षया श्रुतानामस्थ्यादीनां शीघ्रोपस्थितिकतया तेष्वेवान्वयो युक्तः। पूर्वोक्तन्यायद्वयन्तु उभयोः श्रुतत्वविषयमिति भावः। प्रकरणादितइति। श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां पारदौर्बल्यमर्थविप्रकर्षादिति जैमिनिन्यायसिद्धोऽयमर्थः। न्यायसिद्धेऽर्थे ज्ञापकमप्याह। अतएवेति। परिभाषायाः सत्वादेव। वानपुंसकस्येति। यथाश्रुतन्यासे नपुंसकस्येत्यस्य समीपस्थत्वेन शीघ्रोपस्थिते शत्रन्ते एवान्वयो न त्वङ्गे दूरस्थत्वेन विलम्बोपस्थिते तेनाङ्गस्य पुंस्त्वेऽपि प्रवृत्तिर्भवति। वाशाविति। न्यासे तु आङ्गस्य नपुंसकत्वे एव स्यादिति फलभेदः स्यादिति सर्वं मूले स्पष्टम्। परिभाषाया अभावे तु प्राधान्यादङ्गे एव लिङ्गान्वयो यथास्थितन्यासेऽपि स्यादिति फलैक्याज्ज्ञापकत्वं सुलभम्। प्राचीनोक्तं खण्डयितुमुपन्यस्यति। केचित्विति। साक्षात्श्रुतेन। साक्षाच्छब्दबोधितेन। अनुमितमिति। अत्रानुमितत्वं न प्रकरणप्राप्तत्वं किन्तु सामान्यधर्मप्रकारकप्रतीतिविषयत्वम्। तक्रकौण्डिन्यन्यायेनेति। न चास्य न्यायस्य निरूपणावसरेऽयन्न्यायोऽनवकाशविषयो विधेयविषयश्चेत्युक्तम्। अत्र निमित्तत्वस्याविधेयत्वात् पूर्वोक्तिविरूद्धमिति वाच्यम्। तक्रन्यायस्थलीयो यो यो न्यायो युक्तिरनवकाशत्वरूपा तया सिद्धेरित्यर्थात्। यत्र यत्र रेफस्य निमित्तत्वन्तत्र तत्र सर्वत्र वाक्यान्तरेण कार्यित्वस्य प्रसक्त्या निमित्तत्वमनवकाशमिति। तेन न्यायेन तद्रीत्या सिद्धमित्यर्थात्॥११३॥