गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः
नन्वेवमपि 'महद्भूतश्चन्द्रमाः' इत्यत्र 'आन्महतः' इत्यात्त्वापत्तिरत आह -
गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः।१५।
गुणादागतो गौणः। यथा गोशब्दस्य जाड्यादिगुणनिमित्तोऽर्थो वाहीकः। अप्रसिद्धश्च संज्ञादिरपि तद्गुणारोपादेव बुद्ध्यते। मुखमिव प्रधानत्वाद् मुख्यः = प्रथम इत्यर्थः। गौणे ह्यर्थे शब्दः प्रयुज्यमानो मुखार्थारोपेण प्रवर्तते। एवं चाप्रसिद्धत्वं गौणलाक्षणिकत्वं चात्र गौणत्वम्। तेन 'प्रियत्रयाणा'मित्यादौ त्रयादेशो भवत्येव। तत्र त्रिशब्दार्थस्येतरविशेषणत्वेऽप्युक्तरूपगौणत्वाभावात्। किञ्चायं न्यायो न प्रातिपदिककार्ये, किन्तूपात्तं विशिष्यार्थोपस्थापकं विशिष्टरूपं यत्र तादृशपदकार्य एव। परिनिष्ठितस्य पदान्तरसम्बन्धे हि 'गौर्वाहीकः' इत्यादौ गौणत्वप्रतीतिर्न तु प्रातिपदिकसंस्कारवेलायामित्यन्तरङ्गत्वाज्जातसंस्कारबाधायोगः प्रातिपदिककार्ये प्रवृत्यभावे बीजम्। श्वशुरसदृशस्यापत्यमित्यर्थके 'श्वाशुरिः' इत्यादावत इञः सिद्धये उपात्तमित्यादि। न च प्रातिपतिकपदं तादृशमिति वाच्यम्, तेन हि प्रातिपदिकपदवत्त्वेनोपस्थितिरिति तस्य विशिष्यार्थोपस्थापकत्वाभावात्। निपातपदं तु चादित्वेनैव चादीनामुपस्थापकमिति तदुद्देश्यककार्यविधायके 'ओदि'त्यादावेतत्प्रवृत्त्या 'गोऽभवदि'त्यादौ दोषो न। अग्नीषोमौ माणवकावित्यत्र प्रसिद्धदेवताद्वन्द्ववाच्यग्नीषोमपदस्य तत्सदृशपरत्वेऽप्यन्तरङ्गत्वाद् ईत्वषत्वे भवत एव। सदृशलाक्षणिकाग्निसोमपदयोर्द्वन्द्वे तन्नामकावित्यर्थके च नेत्वषत्वे। आद्ये गौणलाक्षणिकत्वाद् अन्त्येऽप्रसिद्धत्वात्। अत एवाग्निसोमौ माणवकावित्यत्र गौणमुख्यन्यायेन षत्ववारणपरम् 'अग्नेः स्तुत्स्तोमसोमा' इति सूत्रस्थं भाष्यं सङ्गच्छते। 'गां पाठय' इत्यादौ मुख्यगोपदार्थस्य पाठनकर्मत्वासम्भवेन विभक्त्युत्पत्तिवेलायां प्रयोक्तृभिर्गौणार्थत्वस्य प्रतीतावप्यपदस्याप्रयोगेण बोद्धृभिः सर्वत्र पदस्यैव गौणार्थकत्वस्य ग्रहेण 'अत्वं त्वं सम्पद्यते, 'अमहान् महान्भूतः, 'त्वद्भवती'त्यादिभाष्यप्रयोगे त्वाद्यादेशदीर्घादीनां करणेन चास्य न्यायस्य पदकार्यविषयत्वमेवोचितम्। अन्यथा वाक्यसंस्कारपक्षे तेषु तदनापत्तिः। किञ्च 'शुक्लामित्युक्ते कर्म निर्दिष्टं कर्ता क्रिया चानिर्दिष्टे' इत्याद्युक्त्वा 'इहेदानीं गामभ्याज कृष्णां देवदत्तेत्यादौ सर्वं निर्दिष्टं गामेव कर्म देवदत्त एव कर्ता अभ्याजैव क्रिये'त्यर्थकेन 'अर्थवत्'सूत्रस्थभाष्येण कारकादिमात्रप्रयोगे योग्यसर्वक्रियाध्याहारे प्रसक्ते नियमार्थः क्रियावाचकादिप्रयोग इत्येतत्तात्पर्यकेण सामान्यतः. क्रियाजन्यफलाश्रयत्वमात्रविवक्षायां द्वितीयादीनां साधुत्वान्वाख्यानमित्यर्थलाभेन पाठनक्रियाऽन्वयकाले पदस्यैव गौणर्थत्वप्रतीतिः प्रयोक्तुरपि। एवमेतन्मूलकः 'अभिव्यक्तपदार्थाये' इति श्लोकोऽपि पदकार्यविषयकः। ध्वनितं चेदं 'सर्वादीनी'ति सूत्रे संज्ञाभूतानां प्रतिषेधमारभता वार्तिककृता 'पूर्वपरे'ति सूत्रेऽसंज्ञायामिति वदता सूत्रकृतान्वर्थसंज्ञया तत्प्रत्याख्यानं कुर्वता भाष्यकृता च। अर्थाश्रय एतदेवं भवति, शब्दाश्रये च वृद्ध्यात्त्वे इति 'ओत्'सूत्रस्थभाष्यस्य लौकिकार्थवत्त्वयोग्यपदाश्रय एष न्यायः, तद्रहितशब्दाश्रये च ते इत्यर्थः। 'गोतः' इति यथाश्रुतसूत्रे विशिष्टरूपोपादानसत्त्वेन उक्तरीत्यैवैतस्य भाष्यस्य व्याख्येयत्वादित्यलम्॥१५॥
कामाख्या
नन्वर्थवद्ग्रहणपरिभाषास्वीकारेऽपि महद्भूतश्चन्द्रमा इत्यत्रारोपितमहत्त्वविशिष्टार्थकस्य महच्छब्दस्यात्वापत्तिरतः परिभाषामवतारयति। नन्वेवमिति। गौणार्थमुख्यार्थबोधकयोरमुख्यार्थबोधके एव शास्त्रप्रवृत्तिरित्यर्थः। अत्र मानं च स्वं रूपसूत्रे स्वशब्देन आत्मीयवाचिनाऽर्थो गृह्यते इत्युक्तम्। तत्रात्मीयार्थो मुख्यार्थ एव अनारोपविषयत्वात्। एवं च मुख्यार्थविशिष्टे एव शास्त्रप्रवृत्तिस्तेनेदं सिद्धम्। मुख्यत्वं च तद्विशिष्टविषयतावत्वम्। वै. स्वसामानाधिकरण्य स्वनिष्ठप्रकारताप्रयोज्यत्वोभयसम्बन्धेन। गुणादागतइति। गौणत्वं च स्वशक्यतावच्छेदकसमानाधिकरणगुणसजातीयगुणदर्शनाधीनं स्वशक्यतावच्छेदकप्रकारकारोपीयविशेष्यताश्रयत्वम्। गौर्वाहीक इत्यत्र वाहीके गोवृत्तिजाड्यमान्द्यादिदर्शनेन गोत्वारोपाद् गोपदस्य वाहीकार्थो गौणः। एवं कलङ्किन्यपि चन्द्रे महत्वारोपान्महच्छहब्दस्य चन्द्रार्थो गौण इति बोध्यम्। संज्ञादिरपीति सम्यग्ज्ञायते बोध्यत इति व्युत्पत्त्या संज्ञाशब्दस्यार्थपरत्वम्। संज्ञारूपार्थोऽपि गौण इति यावत्। आदिनाऽनुकरणसंग्रहः। अमहाब्राह्मण इत्यत्र नञ आरोपार्थकत्वेन आरोपितमहत्त्ववानिति बोधेऽपि आरोपस्य गुणहेतुकत्वाभावेनोक्तगौणत्वाभावादात्वसिद्धिः। महाँश्चासौ ब्राह्मणो महाब्राह्मणो न महाब्राह्मणोऽमहाब्राह्मण इति रीत्या वा सिद्धमात्वम्। उक्तरूपगौणत्वं प्रपञ्चयति एवंचेति। गौणलाक्षणिकत्वं च गुणप्रयोज्यशक्यतावच्छेदकारोपरूपलक्षणविषयत्वम्। एतेन अन्यपदार्थनिष्ठविशेष्यतानिरूपितप्रकारताप्रयोजकत्वं गौणत्वमिति प्राचीनमतमपास्तम्। तदेवोपपादयति तेनप्रियत्रयाणामित्यादिना। तुष्यद्दुर्जनन्यायेन समाधानान्तरमाह किञ्चेति। उपात्तमित्यनेन सूत्रे उच्चार्यमाणम्, विशिष्यार्थोपस्थापकमित्यनेन स्ववृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकधर्मावच्छिन्नबोधकम्। विशिष्टरूपमित्यनेन स्ववृत्यानुपूर्व्यवच्छिन्नविषयताप्रयोजकपदोपादानं च गृह्यते। एतत्कृत्यं मूले स्पष्टीकृतम्। पदकार्यत्वं च स्त्रीत्वानिमित्तकत्वे सति सुब्विभक्त्यनिमित्तकत्वम्। सत्यन्तविशेषणदानेन जानपदकुण्डेति सूत्रेऽस्याप्रवृत्तिः। तस्य स्त्रीत्वनिमित्तकत्वात् विशेष्यदानेन 'त्रेस्त्रय' इत्यादेः सुब्विभक्तिनिमित्तकत्वेन तत्राप्रवृत्तिः।ननूक्तरीत्या निपातपदस्यानुपूर्व्यवच्छिन्नविषयताप्रयोजकत्वाभावेन परिभाषाप्रवृत्त्या गोऽभवदित्यत्रत्य भाष्यविरोधोऽत आह निपातपदन्त्विति। चादित्वेनचादीनामिति। एवं चोक्तभाष्यप्रामाण्येन चादिपदस्यानुपूर्व्यवच्छिन्नविषयताप्रयोजकत्वेनानुगततया परिभाषाप्रवृत्तिः सुलभेति बोध्यम्। गौणमुख्यन्यायप्रवृत्तिप्रयोजकं बौद्धसमवेतगौणत्वमेवेति बोधनाय गां पाठयेत्याद्युक्तिः। न च 'औतोऽम् शसो'रित्यत्र विशिष्टरूपोपादानाभावेन कथमुक्तन्यायप्रवृत्तिसंभव इति वाच्यम् । आगोत इति वक्तव्यमिति वार्तिकरीत्या तत्सत्त्वात्। पदकार्यविषयत्वमेवोचितमिति। ननूक्तपदकार्यत्वस्य 'प्रत्ययोत्तरपदयोश्चे'ति सूत्रे सत्त्वेन परिभाषाप्रवृत्तिरस्त्येवेति चेन्न। तत्रापि सुपीत्यस्यानुवृत्तेः। न च त्वदीय इत्यादौ अन्तरङ्गानपीतिन्यायेन पूर्वं लुकि कथमादेश इति वाच्यम्। प्रत्ययलक्षणात् 'न लुमते'ति निषेधस्तु न सूत्रारम्भसामर्थ्यादिति केचित् । वस्तुतस्तु सुपोऽनुवृत्तौ युष्मदादिभ्य आचारक्विप् तु न संपूर्णसूत्रस्य ज्ञापकतापरभाष्यप्रामाण्यादित्यग्रिमग्रन्थविरोधः। एवं च त्वद्भवतीति प्रयोग एकदेशिन इति। गां पाठयेत्यादौ वक्तुरपि पदे एव गौणत्वप्रतीतिर्न्नतु पूर्वमिति सप्रमाणमुपपादयति। किञ्चेति। संस्कृत्य संस्कृत्य पदान्युत्सृज्यन्ते तेषां यथेष्टमभिसम्बन्धो भवतीति भाष्येण शुक्लामित्युक्ते कर्मनिर्दिष्टमित्यादिभाष्येण च सामान्यतः क्रियाजन्यफलाश्रयत्वादिविवक्षया द्वितीयादेः साधुत्वं भवतीत्यस्यार्थस्य लाभेन गौणस्थलेऽपि तथासंभवेन प्रयोक्तुरपि पूर्वमेव गौणत्वग्रह इति भावः। अभिव्यक्तपदार्थायेइति।
अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः।
शास्त्रार्थस्तेषु कर्तव्यः शब्देषु न तदुक्तिषु॥
इति श्लोक इत्यन्यत्सुगममिति दिक्॥१५॥
परिभाषार्थमञ्जरी
मुख्यार्थारोपेणेति। एवञ्च प्रथमप्रतीतार्थमादाय कृतार्थं शास्त्रं गौणार्थमादाय न प्रवर्तत इति भावः। अत एव भट्टैस्तृतीयाध्याये द्वितीयपादे प्रथमाधिकरणे ‘बर्हिर्देवसदनं दामी’ति विलवनप्रकाशको मन्त्रः तत्र लवितव्यं च बर्हिर्द्विविधं गौणं मुख्यञ्च। मुख्यं कुशकाशादिदशविधं दर्भरूपम्। गौणं तु तत्सदृशम्। तस्मिन् बर्हिः शब्दस्य माणावके अग्निशब्दवत्प्रवृत्तेः। एवञ्चोभयोरपि बर्हिश्शब्दार्थत्वेन गौणस्यापि लवने मन्त्रो विनियुज्यतेति संदिग्धमुख्यस्य शीघ्रमुपस्थितत्वेन मंत्रस्य चरितार्थतया गौणेऽपेक्षां[1] न करोतीति समाहितम्। ननु पूर्व्वोक्तरीत्या लोके गौणार्थबोधजनकत्वरूपस्य गौणत्वस्य परिभाषायां ग्रहणे सामान्यतो गौणत्वग्रहणप्रतिपादकवक्ष्यमाणभाष्यविरोध इत्याशङ्क्याह अर्थाश्रयेत्यादीति। तद्रहितशब्दाश्रये चेति। पूर्व्वोक्तार्थरहितशब्दाश्रये चेत्यर्थः। ननु शब्दाश्रये चेत्यस्यार्थरहिततन्मात्राश्रय इत्येव [2]तथाश्रुतः कुतो नार्थ इत्यत आहगोत इति यथेति।एवञ्च सूत्रेऽर्थवत उपादानेन तथा वक्तुमशक्यमिति भावः। यद्वा। ननु गोत इत्यस्य स्थाने ओत इत्युक्ते विशिष्टरूपोपादानाभावादेव परिभाषाया अप्रवृत्ताविष्टसिद्धेर्भाष्यस्थशङ्कादिकमसंगतमित्यत[3] आह गोत इति यथेति। एवञ्चौत इति पाठोऽसङ्गत इति भाव:॥१५॥
[1]गौणापेक्षाम् इति खे, गे
[2]यथाश्रुत इति के,खे
[3]भाष्यस्थशङ्कादिकप्रसङ्गमित्याह इति क, ख, ग चेति पुस्तकेषु पाठः।