Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

वर्णाश्रये नास्ति प्रत्ययलक्षणम्

ननु 'गवे हितं गोहितम्' इत्यादौ प्रत्ययलक्षणेन अवाद्यादेशापत्तिरत आह -

वर्णाश्रये नास्ति प्रत्ययलक्षणम्।२१।

वर्णप्राधान्यविषयमेतत्। तत्त्वं च 'प्रत्ययलोपे' इति सूत्रे 'स्थानिवत्' इत्यनुवृत्त्यैव सिद्धे प्रत्ययलक्षणग्रहणं प्रत्ययस्येतराविशेषणत्वरूपं यत्र प्राधान्यं तत्रैव प्रवृत्त्यर्थमित्येतत्सिद्धम्। वर्णप्राधान्यं च वर्णस्येतराविशेषणत्वरूपं प्रत्ययनिरूपितविशेष्यतारूपं च। तेन 'गोहितमि'त्यादौ अवादि न, 'चित्रायां जाता चित्रा' इत्यादौ अण्योऽकारस्तदन्तान् ङीबिति ङीप् च न। इयमल्विधौ स्थानिवत्त्वाप्राप्तावपि प्राप्तप्रत्ययलक्षणविधेर्निषेधिकेति स्पष्टं भाष्ये॥२१॥

 

कामाख्या

गवे हितमिति। न चात्रान्तरङ्गानपीति न्यायेनानुबन्धसहितस्यैव लुकि ततः प्रत्ययलक्षणेऽपि अच् परत्वाभावादेवावादेशाप्राप्तौ अवतरणासंगतिरिति वाच्यम्। ज्ञापकसाजात्यादन्तरङ्गविनाशकलुक एव तेन प्राबल्यबोधनात्। अत एवार्णुहीत्यादावुतश्चेति हेर्लुग्न। न च प्रत्ययलोपसूत्रे लक्षणग्रहणेन प्रत्ययनिमित्तकमेवकार्यन्न तु प्रत्ययोद्देश्यकमिति नियमादित्संज्ञायाः प्रत्ययनिमित्तकत्वाभावेन प्रत्ययलक्षणाप्रवृत्तौ लुकोऽन्तरङ्गनिमित्तविनाशकत्वस्य सत्त्वेनोक्तन्यायप्रवृत्तौ बाधकाभाव इति वाच्यम्। ञित्स्वरे प्रत्ययलक्षणप्रतिषेध इति वार्तिकेन इत्संज्ञालोपे उक्तन्यायाप्रवृत्तिरिति सामान्यापेक्षज्ञापनात्। अन्यथा गर्गा इत्यादौ इत्संज्ञातः पूर्वमेव 'यञिञोश्चे'ति लुकि ञित्वाभावादेव स्वराप्राप्त्या वार्तिकस्य वैयर्थ्यं स्पष्टमेव। अत एव 'न पदान्त'सूत्रे लुकि न स्थानिवदित्यस्य पञ्चेन्द्र इति फलं भाष्ये दत्तम्। अन्यथाऽत्रापि ङीष एव लुकि तस्याज्मात्रस्थानिकादेशाभावेन स्थानिवत्वाप्राप्तावसंगत्यापत्तिः। केचित्तु इत्संज्ञाविषयेऽप्रवृत्तावपि लोपविषयेऽप्रवृत्तौ बाधकाभाव इति मत्वा लुकि न स्थानिवदिति वार्तिकमप्यकृत्वा गवे हितमित्यत्रेव गावौ हिते यस्येति गोहितमित्यत्रावादेशापत्तिः। चन्द्रमाः शास्तीत्यत्र प्रत्ययलक्षणेनखर्परत्वाच्छर्परे विसर्जनीय इत्यस्यापत्तिश्चेत्याशयं वर्णयन्ति। न च आङ्गमनाङ्गं वेति भाष्येण न लुमताङ्गस्येत्यस्याङ्गाधिकारीयकार्यातिरिक्तेऽपि प्रवृत्तिसत्त्वेन प्रकृतेऽपि निषेधापत्त्याऽवतरणासंगतिरिति वाच्यम्। शब्दानित्यत्ववारणाय अच् परकाव्यवहितपूर्वत्वविशिष्टो य एज्घटितस्तद्बुद्धिप्रसङ्गेऽयादिघटितः साधुरित्यर्थे गोधनावित्यत्राप्यवादेशःस्यात्। किं च अर्थवत्येवानुमानिकस्थान्यादेशभाव इति सिद्धान्तात्। दिवधातोर्णिचि, गुणे, क्विपि, णिलोपे, वकारस्योठि, देऊ इत्यवस्थायामयादेशो न स्यात् । एज् घटितस्य देऊ इत्यस्यार्थवत्वाभावात् । एवं चाच्परकाव्यवहितपूर्वो य एचं तद्घटितबुद्धिप्रसंगे इत्याद्यर्थ आवश्यकः। तथा च उत्क्रामेत्यत्र निषेधाभावाय 'न लुमताङ्गस्ये'त्यस्य लुप्तप्रत्ययाव्यवहितपूर्वत्वेन साक्षादवच्छिन्नाङ्गपर्याप्तोद्देशयतानिरूपितविधेयताके कार्ये निषेध इत्यर्थे गोहितमित्यत्रावादेशे कर्तव्ये निषेधाप्राप्त्याऽवतरणं सम्यगेवेत्याशयात् । न चैवमपि 'जराया' इति सूत्रस्य आजादिप्रत्ययाव्यवहितपूर्वस्य जराशब्दान्तं यदङ्गन्तदवयवस्यनिर्दिश्यमानस्य जरसित्यर्थे परमजरायाः पुत्रः परमजरापुत्र इत्यादौ अङ्गपर्याप्तोद्देश्यताया लुप्तन्यायाव्यवहितपूर्वत्वेन साक्षादवच्छिन्नत्वाभावान्निषेधाप्राप्त्या जरसादेशापत्तिरिति वाच्यम्। लुप्तप्रत्ययाव्यवहितपूर्वत्वेन साक्षादवच्छिन्ना अङ्गपर्याप्तधर्मेण साक्षात्परम्परया वा अवच्छिन्ना या उद्देश्यता तन्निरूपककार्यन्नेत्यर्थे साक्षाल्लुप्तप्रत्ययाव्यवहितपूर्वत्वेन परंपरयाङ्गपर्याप्तधर्मेण निर्दिश्यमानत्वावच्छिन्नोद्देश्यताया अवच्छिन्नत्वेन निषेधप्रवृत्तेः सुलभत्वादिति दिक्। परिभाषार्थस्तु लुप्तप्रत्ययवृत्तिवर्णत्वव्याप्य-धर्मावच्छिन्नविषयतानिरूपककार्ये प्रत्ययलक्षणन्नेति। तत्त्वंचेति। परिभाषायां सारांशस्त्वित्यर्थः। यथाऽन्यज्ञापकस्य स्वांशे चारितार्थ्यं तथाऽस्य नेति। इयन्तु प्रत्ययलोपसूत्रीयानेकनियमलब्धेति भावः। नियमकृत्यन्तु शिशुतोषिणीतो[1] द्रष्टव्यम्। प्रत्ययप्राधान्यं च वर्णत्वव्याप्यधर्मावच्छिन्नविशेष्यतानिरूपित-प्रकारतानाश्रयत्वम्। गोहितं चित्रायां जाता चित्रेत्यत्रास्या घटनान्न प्रत्ययलक्षणम्। अथवा अवयवत्वसम्बन्धावच्छिन्नप्रकारताभिन्नप्रत्ययत्वव्याप्यधर्मावच्छिन्नविषताश्रयत्वम्। अणो योऽकार इत्यर्थे तादृशप्रकारताभिन्नत्वाभावेन गोहितमित्यत्र प्रत्ययत्वव्याप्यत्वाभावेन च न प्रत्ययलक्षणम्। वर्णप्राधान्यं च स्वावयविनिष्ठविशेष्यतानिरूपि-प्रकारतानाश्रयत्वम्। तेन गोहितमित्यत्र वर्णप्राधान्यसत्त्वेन न दोषः। प्रययनिरूपितेत्यस्य। प्रत्ययनिष्ठप्रकारतानिरूपितवर्णनिष्ठविशेष्यताश्रयत्वम्। इदन्तु पूर्वस्यैवानुवादकम्। अनुपयोगात्। वस्तुतस्तु प्रत्ययप्राधान्यभिन्नत्वमिति लक्षणस्य स्वरूपपरिचायकमुभयमिति श्रीमद्गुरुचरणाः।इयमल्विधावित्यादि। वार्तिकमते मित्रशीः अतृणोऽत्याद्यर्थं प्रत्ययलोपसूत्रस्यावश्यकत्वेन गोहितमित्यादावपि प्रत्ययलक्षणप्राप्त्या परिभाषाया आवश्यकत्वम्। भाष्यमते तु 'प्रत्ययलोप'सूत्रस्य नियमार्थत्वादेव दोषाभावे परिभाषाकरणे प्रयोजनाभाव इति दिक्॥२१॥

[1]पं. हरिशङ्करझाविरचितः।

परिभाषार्थमञ्जरी

वर्णप्राधान्येति। वार्तिककारमते विशेषणतया अलाश्रयणेऽनल्विधाविति निषेधे प्राप्ते तत्रापि प्रत्ययलक्षणेन कार्य्यविधानार्थं प्रत्ययलक्षणसूत्रं विधायकम्। अत एव अतृणेडित्यादिसिद्धिः। एवञ्च गवे हितमित्यत्रापि प्राप्ते प्रत्ययलक्षणे, तन्मते परिभाषया वार्यते। यदीयमपि वर्णस्याप्राधान्ये चेत् प्रवर्तेत तर्हि प्रत्ययलक्षणसूत्रं व्यर्थमेव स्यादिति न्यायेन[1] सिद्धमेतत्। परिभाषासिद्ध्युपायमाह तत्त्वञ्चेति[2]अप्रत्ययलक्षणञ्चेत्यर्थः। अस्येत्येतावदित्यत्रान्वयः। तस्य चेत्येतेनेत्यर्थः। क्वचित्तु इत्येतत्सिद्धमिति पाठो दृश्यते। तत्राप्ययमेवार्थः। यत्तु अत्र कैयटानुयायिनः प्रसङ्गादनल्विधावित्यस्य स्थान्यल्वृत्तिस्थान्यवयवाल्वृत्तिधर्माश्रये न स्थानिवत्त्वमिति नवीनोक्तार्थमनूद्य वृक्षः प्लक्ष इत्यादौ सो रुत्वे रेफस्य [3]स्थानिवत्त्वात्सुप्त्वात्तदन्ते पदत्त्वात्तन्निबन्धनो विसर्गो न स्यात्। साम्नीत्यादौ प्रथमाद्विवचनस्य श्यादेशे कृते तस्य स्थानिवद्भावादौ वृत्तिस्वादित्वप्रत्ययत्वमाश्रित्य भत्वाज्जायमानो 'विभाषा ङिश्यो'रित्यल्लोपो न स्यात्। 'आरतुरित्यादौ उरतः स्थानिवद्भावेन अभ्यासत्वात् 'अत आदे'रिति जायमानोऽभ्यासस्य दीर्घो न स्यादित्याद्यनेकदूषणमभिदधुः। 'सर्व्वे सर्व्वपदादेशा' इति न्यायेनादेशे स्थानिवद्भावेन यथोद्देशे भसंज्ञया पुनरभ्याससंज्ञया च तदुक्तदोषदुर्भिक्षे तन्मतमनालोच्य वृथैव दूषयन्तः कथं महत्पदवीं प्रापिताः [4]पण्डितैरिति महदाश्चर्य्यम्। स्पष्टश्चायमर्थः स्थानिवत्सूत्रे भोभगो इत्यादि सूत्रेषु विवरणशेखरादाविति स्थाप्यतामयमिति प्रसङ्ग इति दिक्॥२१॥

[1]न्यायसिद्धम् इति के

[2]लक्षणत्वञ्च इति के,खे,गे

[3]स्थानिवद्भावात् इति के,खे,गे

[4]पण्डितैरपि इति गे