उत्तरपदाधिकारे प्रत्ययग्रहणे न तदन्तग्रहणम्
नन्वेवं कुमारी ब्राम्हणीरूपे'त्यादौ 'घरूपे'ति ह्रस्वापत्तिरत आह -'
उत्तरपदाधिकारे प्रत्ययग्रहणे न तदन्तग्रहणम्।२५।
'हृदयस्य हृल्लेखयदण्लासेषु' इत्यत्र लेखग्रहणात्। तत्र लेखेति न घञन्तमनभिधानात्। इयं च 'हृदयस्य' इति सूत्र एव भाष्ये स्पष्टा॥२५॥
कामाख्या
ननूक्तपरिभाषया तदादिविशेष्यकतदन्तविधेर्निषेधेऽपि रात्रेः कृतीत्यादाविव 'घरूपे'तिसूत्रे उत्तरपदविशेष्यकतदन्तविधौ कुमारीब्राह्मणिरूपेत्यादावव्याप्त्यति-व्याप्तिदोषापत्तिरत आह उत्तरपदाधिकार इति। न चात्र कर्मधारये बहुव्रीहौ वा पुम्वद्भावस्य दुर्वारतया उक्तप्रयोगासंभवः षष्ठीतत्पुरुषे तु नदीतरे प्रतिषेधो वक्तव्यो न वक्तव्यः समानाधिकरण इति वर्तते इति भाष्यस्वारस्येन समानाधिकरणे एव ह्रस्वप्रवृत्याऽवतरणासंगतिश्चेति वाच्यम्। कुमारी ब्रह्मणिरूपेति वाक्ये ह्रस्वापत्तिरिति ग्रन्थाशयात्। वयोवाचिनामपि वैकल्पिकजातिकार्यस्य बहुशो भाष्ये दृष्टतया जातेश्चेति पुंवद्भावनिषेधे बहुव्रीहावपि दोषानुदयाच्च। परे तु कुमारीब्राह्मणितरेत्यादौ ब्राह्मणीशब्दस्य ह्रस्वानापत्तिरित्यत्रैव ग्रन्थतात्पर्यमिति वदन्ति। लेखग्रहणमिति। न च हृत्परमलेख इत्यत्र अण्णन्ततदादिरूपोत्तरपदपरत्वाभावेन हृदादेशानापत्त्या कथमस्य ज्ञापकत्वमिति वाच्यम्। ज्ञापकतापरभाष्यप्रामाण्येनोक्तप्रयोगस्यानभिधानत्वकल्पनात्। गिलेऽगिलस्येत्यत्र तदन्तविधिनैव ग्तिमिं गिलगिल इत्यस्य सिद्धौ गिवगिले चेत्येतत्सामर्थ्यादुत्तरपदाधिकारे प्रातिपदिकग्रहणे न तदन्तविधिरिति परिभाषान्तस्यापि ज्ञापनेन लेखशब्दे तदन्तविध्यभावे उक्तप्रयोगस्यासंभवादुक्तिकत्वात्। 'वनो र चे'त्यादाविव विशेष्यान्तरसत्वेऽपि अण्णन्ततदाद्यन्तोत्तरपदे इत्यर्थे दोषाभावाच्च। न च परिभाषास्वीकारे रात्रेः कृतीत्यत्र तदन्तविधिनिषेधाद्रात्रिञ्चर इति न स्यादिति वाच्यम्। सूत्रारम्भसामर्थ्यात्परिभाषाऽप्रवृत्तेः। अत एव उपसर्गस्य घञीत्यत्र तदन्तविधिः। किं च उत्तरपदाधिकारे प्रत्ययवृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकधर्मावच्छिन्नविषयताप्रयोजकं यत्तत्तदन्तवृत्तिविषयताप्रयोजकन्न भवतीत्यर्थे दोषाभावः। न च घञ्पदस्य नहि वतीत्यत्र क्विपश्चोक्तविषयताप्रयोजकत्वेन निषेधः स्यादिति वाच्यम्। उत्तरपदविशेष्यकतदन्तविधिनिषेधेऽपि अमनुष्यरूपं धातुरूपं च विशेष्यमादाय तदन्तविधिसिद्धेः सूत्रवैयर्थ्याच्च। एक हलादौ पूरयितव्येत्यत्र उत्तरपदाधिकारे प्रातिपदिकग्रहणे इत्युक्तपरिभाषया निषेधो बोध्यः। परे तु पदघटितविशेष्यमादाय तदन्तविधिर्न्नेत्येव लेखग्रहणेन ज्ञाप्यते। एवं चोक्तपरिभाषान्तरमपि नारम्भणीयम्। पदघटितपदेन पूर्वपदोत्तरपदोपपदानि गृह्यन्ते अत एव तुन्दशोकयोः द्विषत्परयोरित्यादावुपपदविशेष्यको न तदन्तविधिः। 'पदस्य पदाज्याती'त्यादौ पूर्वपदविशेष्यकतदन्तविध्यभावः तेन दग्धपादोपहत इत्यादौ न पदादेशः। इष्टकेषीकामालेत्यत्र लक्ष्यानुरोधात्पूर्वपदविशेष्यकतदन्तविधिरित्याहुः। श्रीमद्गुरुचरणास्तु कृदितरवृत्तिविषयताप्रयोजकं तदन्तवृत्तिविषयताप्रयोजकन्न भवतीति परिभाषार्थः। परिभाषान्तरं च न कर्त्तव्यम्। सुपिस्थ इत्यादौ दोषवारणाय उत्तरपदत्वावच्छिन्नविशेष्यतानिरूपिताभेदसम्बन्धावच्छिन्नकृत्वव्याप्यत्वावच्छिन्नप्रकारता-भिन्नविषयताप्रयोजकं यदौपश्लेषिकाधिकरणबोधकसप्तम्यन्तपदं तत्तदन्तवृत्तिविषयताप्रयोजकन्न भवतीत्यर्थेन सकलदोषपरिहार इत्याहुरिति दिक्॥२५॥
नास्ति