Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

स्त्रीप्रत्यये चानुपसर्जने न

नन्वेवं 'परमकारीषगन्धीपुत्र' इत्यत्रेव 'अतिकारीषगन्ध्यापुत्र' इत्यत्र 'ष्यङः सम्प्रसारणं पुत्रपत्योरि'ति स्यादत आह -

स्त्रीप्रत्यये चानुपसर्जने न।२६।

विषयसप्तमीयम्। यः स्त्रीप्रत्ययः स्त्रियं प्राधान्येनाऽऽह तत्र तदादिनियमो न, यस्त्वप्राधान्येनाऽऽह तत्र तदादिनियमोऽस्त्येवेत्यर्थः। प्रत्यासत्त्या यस्य समुदायस्य स्त्रीप्रत्ययान्तत्वमानेयं तदर्थं प्रत्यनुपसर्जनत्वमेवैतत्परिभाषाप्रवृत्तौ निमित्तम्। तेन 'अतिराजकुमारिः' इत्यादौ राजकुमारीशब्दार्थस्यातिशब्दार्थं प्रत्युपसर्जनत्वेऽपि तदर्थं प्रत्यनुपसर्जनत्वात् तदादानियमाभावेन ह्रस्वसिद्धिः। अत एवात्र परिभाषायां न शास्त्रीयमुपसर्जनत्वम् असम्भवात्। अस्याः 'प्रत्ययग्रहणे' इत्यस्यापवादत्वात् तदेकवाक्यतापन्नत्वाच्चात्रापि ग्रहणपदसम्बन्धेन स्त्रीप्रत्ययसामान्यग्रहणे तद्विशेषग्रहणे च प्रवृत्तिः, न तु स्त्रीप्रत्ययास्त्रीप्रत्ययग्रहणे। ध्वनितञ्चेदम् 'अर्थवत्' सूत्रे भाष्ये। इयं च वाचनिक्येव। 'ष्यङः' इति सूत्रे भाष्ये स्पष्टा॥२६॥

 

कामाख्या

ननु विशेष्यान्तरसत्वे तदादिविशेष्यकतदन्तविधेरभावात् ष्यङन्तदाद्यभिन्नपूर्वपदावयवस्य संप्रसारणमित्यर्थे परमकारीषगन्ध्येत्यत्र परमकारीषगन्ध्येत्यस्य ष्यङन्ततदादित्वाभावात् कारिषगन्ध्येत्यस्य पूर्वपदत्वाभावाच्च संप्रसारणाप्राप्त्या दृष्टान्तासङ्गतिरिति चेन्न। भाष्ये स्त्रीप्रत्यये तदादिविधिर्न्नेत्यर्थकस्त्रीप्रत्ययेन इत्येव प्रथमं पठिता, तया तदादिविधिनिषेधे परमकारीषगन्धीपुत्र इत्यत्र यथा भवति, तथाऽतिकारीषगन्ध्यापुत्र इत्यत्रापि स्यादित्याशयात्। यद्वा नन्वित्यत्र न शब्दो निषेधार्थकः। नुशब्दो निश्चये वाक्यालङ्कारे वा। तथा चातिकारीषगन्ध्यापुत्र इत्यत्रेव परमकारीषगन्ध्यापुत्र इत्यत्रापि न स्यादित्यशयात्। यद्वा 'नित्यं समासे'ति सूत्रेऽनुत्तरपदग्रहणे न क्वचिद्विशेष्यान्तरसत्वेऽपि तदादिविशेष्यकतदन्तविधिरिति ज्ञापनेन ष्यङन्ततदाद्यन्तपूर्वपदस्येत्यर्थेऽवतरणसंगतेः। यद्वा मरुवदुशीनरेषु जलमितिवत्, पितृवदयं, डित इति वच्च। अतिकारीषगन्ध्यापुत्र इतिवदत्रापि स्यादित्याशयात् । अनुपसर्जने स्त्रीप्रत्यये तदादिनियमो नेति परिभाषार्थः। नन्वियं परिभाषा तदादिनियमभञ्जिका तदादिविधिप्रसक्तिः सूत्रे तत्र तदादिनियमनिषेधेऽनुपसर्जनपदवैयर्थ्यं शास्त्रे सर्वत्रैवानुपसर्जनत्वात् एवं च परिभाषाया वैयर्थ्यमिति चेन्न 'ष्यङः संप्रसारणमि'ति सूत्रमावर्तते। तत्रैकञ्चानुपसर्जनविषयकं द्वितीयं चोपसर्जनविषयकम्। तत्रानुपसर्जनत्वावच्छिन्नस्त्रीप्रत्ययवृत्तिविषयताप्रयोजकपदघटितशास्त्रे तदादिनियमो नेति परिभाषार्थेन परमकारीषगन्धीपुत्र इत्यस्य सिद्धिः उपसर्जनविषयकवाक्ये तदादिनियमसत्वेऽपि कारीषगन्ध्या इव मनुष्य इत्यर्थे कनो लुपि पुत्रेण समासे कारीषगन्धीपुत्र इत्यत्र संप्रसारणसिद्धिरित्यदोषात्। अत्रोपसर्जनत्वं च स्वान्तसमुदायपर्याप्तशक्तिनिरूपकार्थनिष्ठविशेष्यतानिरूपितप्रकारतावच्छेदकताप्रयोजकत्वम्। यस्य प्रत्ययस्योपसर्जनत्वमिष्टन्तत्स्वम्। तथा च कनलुबन्तष्यङन्तसमुदायपर्याप्तशक्तिनिरूपकार्थकारीषगन्ध्या सदृशः तन्निष्ठविशेष्यतानिरूपितप्रकारता कारीषगन्ध्यासदृशगन्धविशिष्टसम्बन्धिस्त्रीत्वविशिष्टापत्यरूपा तदवच्छेदकता स्त्रीत्वे तत्प्रयोजकत्वं ष्यङः सत्त्वेनोपसर्जनत्वम्। अतिकारीषगन्ध्येत्यत्र तादृशशक्तिनिरूपकार्थः कारीषगन्ध्याकर्मकातिक्रमणकर्ता रूपस्तन्निष्ठविशेष्यतानिरूपितप्रकारता कारीषगन्ध्यापदार्थे तदवच्छेदकतास्त्रीत्वे तत्प्रयोजकत्वं ष्यङः। परमकारीषगन्धीत्यत्र परमाभिन्नकारीषगन्धसदृशगन्धवत्सम्बन्धिस्त्रीत्वविशिष्टापत्यरूपार्थनिष्ठविशेष्यतानिरूपितप्रकारतापरमपदार्थे तदवच्छेदकता टाबर्थस्त्रीत्वे, तत्प्रयोजकत्वं टापो न तु ष्यङ इति बोध्यम्।

केचित्तु आवृत्तिगौरवभिया स्त्रीप्रत्ययबोधकपदघटितशास्त्रेऽनुपसर्जनस्येत्युपतिष्ठते तदादिविधिश्च नेति परिभाषार्थं मत्वा परमकारीषगन्धीपुत्र इत्यत्र संप्रसारणमतिकारीषगन्ध्यापुत्र इत्यत्र तदभावं च संसाध्य कनलुबन्ते संप्रसारणाय स्वान्त तदाद्यव्यवहितपूर्वपदप्रयोज्यविशेष्यतानिरूपितप्रकारतावच्छेदकता-प्रयोजकत्वमुपसर्जनत्वम्। प्रकृते स्वान्ततदाद्यव्यवहितपूर्वपदस्याभावेन परमकारीषगन्धीत्यत्र परमरूपपूर्वपदप्रयोज्यप्रकारताया एव सत्वेन चोपसर्जनत्वाभावात् संप्रसारणसिद्धिरित्याहुः। श्रीमत्पूज्यपादास्तु - यत्रलक्ष्येऽनुपसर्जनस्त्रीप्रत्ययस्तत्र तदादिनियमो न। तदादिनाऽतदादेर्व्यावृत्तिर्न्न।अतदादौ तदादित्वमारोप्यत इति यावत्। एवञ्च यः स्त्रीप्रत्ययः स्त्रियं प्राधान्येनाहेत्यादिमूलग्रन्थोऽपि संगच्छते। प्रत्ययग्रहणपरिभाषानिषेधकत्वन्त्वार्थिकमिति प्राहुः। ननु अतिराजकुमारिरित्यत्र स्वान्तसमुदायोऽतिराजकुमारीशब्दस्तत्पर्याप्तशक्तिनिरूपकार्थराजकुमारीकर्मकातिक्रमणकर्तारूपस्तन्निष्ठविशेष्यतानिरूपितप्रकारता कुमारीनिष्ठा तदवच्छेदकताप्रयोजकत्वं ङीपः सत्त्वेन तदन्ततदादिः कुमारीशब्दस्तस्य च नोपसर्जनत्वम्। यदुपसर्जनं राजकुमारीशब्दो न स उपसर्जनस्त्रीप्रत्ययान्ततदादिरिति कथं ह्रस्व इत्यत आह प्रत्यासत्येति।अयं भावः - यस्य स्त्रीप्रत्ययान्तत्वमानेतव्यं स एव स्वान्तसमुदायेन गृह्यते। स च राजकुमारीशब्दस्तन्निष्ठशक्तिनिरूपकार्थो राजसन्बन्धिकुमारीरूपस्तन्निष्ठविशेष्यतानिरूपितप्रकारतावच्छेदकताप्रयोजकत्वं न ङीप इत्यनुपसर्जनत्वेन तदादिनियमाभावाद्ध्रस्वसिद्धिरिति। अत एवेति। प्रत्ययमात्रस्योपसर्जनत्वविवक्षणादेवेत्यर्थः। एतल्लक्ष्यसिद्ध्यर्थं प्रत्यासत्तेरवश्याश्रयणादेवेत्यर्थ इति वा। असंभवात्। प्रत्यासत्तेर्दुरुपपादत्वात् प्रत्ययमात्रस्यासम्भवाद्वा। अत्रेदं तत्त्वम् - शास्त्रीयोपसर्जनमेवास्यां ग्राह्यम्। अत एवार्धं नपुंसकमिति सूत्रप्रत्याख्यानपरभाष्येण न विरोधः। अन्यथाऽनेन समासेऽर्धपदार्थस्य विशेष्यत्वेन ष्यङ उपसर्जनत्वादर्धकारीषगन्ध्यापुत्र इति रूपं कर्मधारयेण प्रयाख्यानपक्षे तु कारीषगन्ध्यापदार्थस्यैव विशेष्यत्वादनुपसर्जनत्वेन संप्रसारणे फलभेदापत्तेः। मम तु कर्मधारयसमासे कारीषगन्ध्याया अनुपसर्जनत्वम्, आरम्भपक्षे च एकविभक्तावषष्ठ्यन्तवचनमित्यनेन एकविभक्तीत्यस्य प्रथमानिर्दिष्टत्वाभावेन पूर्वसूत्रस्य चाप्राप्त्या ष्यङन्तस्यानुपसर्जनत्वमिति फलभेदो न। यद्यपि ष्यङादेः स्त्रीप्रत्ययमात्रस्य उपसर्जनत्वासम्भवस्तथापि परिभाषायां स्त्रीप्रत्ययग्रहणेन स्त्रीप्रत्ययान्तस्य ग्रहणं बोध्यम्। किञ्च शास्त्रीयोपसर्जनत्वं स्त्रीप्रत्ययेऽसम्भव इति तु न युक्तम् । अस्य स्त्री ई । या निष्क्रान्ता निरिरित्यादौ स्त्रीप्रत्ययमात्रेऽपि तत्संभवात्। तेन निरेरपत्यर्थे स्त्रीप्रत्ययान्ततदादेरित्यर्थकस्त्रीभ्यो ढगिति ढग्न उपसर्जनं तदादिनियमान्निरीत्यस्य स्त्रीप्रत्ययान्ततदादित्वाभावादिति केचित्। सिद्धान्ते स्त्रीबोधकाढ्ढगित्यर्थस्य सत्वेन फलाभावादिति तत्त्वम् । अतिकारीषगन्ध्या पुत्र इत्यत्र प्रत्ययमात्रे तदसंभव इति ग्रन्थाशय इति दिक्। अर्थवत्सूत्रे इति अत्रत्यप्रत्ययपदस्यापि स्त्रीप्रत्ययवृत्तिविषयताप्रयोजकत्वेनानयाऽनुपसर्जने तदादिनियमाभावेन राजकुमारीति समासस्य प्रत्ययान्तत्वेनाप्राप्तप्रातिपदिकत्वविधानाय समासग्रहणस्य चारितार्थ्येन नियमत्वोक्तिरसंगता स्यात्। वाचनिक्येवेति। भाष्ये ज्ञापकन्नोपन्यस्तम्। यस्मात्प्रत्ययविधिरिति विभक्तयोगे नेयङुवङित्यतोऽस्त्रीत्यस्य सम्बन्धेन प्रधानाप्रधानन्यायेन अनुपसर्जनस्त्रीबोधकभिन्नप्रत्यये तदादिरित्युपतिष्ठत इत्यर्थादियं लभ्यत इति केचित्॥२६॥

परिभाषार्थमञ्जरी

पुत्र इत्यत्रेवेति। ननु प्रत्ययग्रहणपरिभाषासत्वे परमकारीषगन्धी पुत्र इत्यत्र सम्प्रसारणस्यैव वक्तुमशक्यत्वेन तस्य दृष्टान्तत्वेनोल्लेखोऽनुचित इति चेन्न। दृष्टान्तदार्ष्टान्तिकयोर्वैपरीत्येनादोषात्। तथा हि इव शब्दो भिन्न क्रमः। पत्योरित्यस्यान्तरं[1] बोध्यः। एवञ्चातिकारीषगन्ध्या पुत्र इत्यत्र 'ष्यङः सम्प्रसारणं पुत्रपत्यो'रितीव परमकारीषगन्धी पुत्र इत्यत्र स्यादिति योजना। तथा च यथा तत्र प्रत्ययग्रहणनियमेन सम्प्रसारणं [2]तथापि स्यादिति भाव:। यथा तत्र न, तथाऽत्रापि नेति फलितम्। नन्वतिराज कुमारीत्यादावत्यर्थं [3]राजकुमारीति स्त्रीप्रत्ययस्योपसर्जनत्वेन अनुपसर्जन इति निषेधादस्या अप्रवृत्तावुत्सर्गप्रवृत्त्या राजकुमारीत्यस्य स्त्रीप्रत्ययान्तत्वाभावे अतिराजकुमारीत्यस्य स्त्रीप्रत्ययान्तत्वाभावेनोपसर्ज्जनस्त्रीप्रत्ययान्ते विधीयमानो ह᳙स्वो न स्यादत आह प्रत्यासत्येति। सा चेत्थं राजकुमारीत्यस्य स्त्रीप्रत्ययान्तत्वमानेयं तत्रानुपसर्ज्जन इति प्रतिषेधो[4] वक्तव्यः स चान्यनिरूपितमु[5]पसर्जनत्वं विहाय स्त्रीप्रत्ययान्त[6]निरूपितोपसर्ज्जनत्वे एव प्रवर्तत इति। यस्य समुदायस्येति। राजकुमारिरित्यादेः। तदर्थं प्रतीति[7]राजकुमारीशब्दार्थं प्रति इत्यर्थः। अनुपसर्ज्जनत्वमिति। स्त्रीप्रत्ययान्तस्येति[8] शेषः। तदेवोपपादयति। तेनेत्यादिना। अतिकारीषगन्ध्या पुत्र इत्यत्र तु विशिष्टस्यैव तदन्तत्वमानेयम्। तत्र च तदर्थं प्रति कारिषगन्ध्या इति स्त्रीप्रत्ययान्तस्योपसर्ज्जनत्वेन[9] निषेधः प्रवर्तत[10] एवेति हृदयम्। नन्वेवमपि राजकुमारीत्यस्यैकविभक्तीत्युपसर्ज्जनत्वस्य सत्वेन दोषस्तदवस्थ एवेत्यत आह अत एवेति। प्रत्यासत्तेराश्रयणादेवेत्यर्थः। असंभवादिति। एकविभक्तीत्यनेनोपसर्ज्जनत्वं विशिष्टस्य परिभाषायान्तु स्त्रीप्रत्ययनिष्ठं तदित्येकत्र द्वयोरभावादिति भावः॥२६॥

[1]अनन्तरम् इति खे,गे

[2]तथात्रापि स्यादिति खे

[3]प्रतिराजकुमारी इति के,खे

[4]निषेध इति के,खे

[5]निरूपितोपसर्जनत्वम् इति गे

[6]निरूपित इति नास्ति के

[7]कुमारीत्यादिशब्दार्थ इति के,खे,गे

[8]स्त्रीप्रत्ययस्य इति शेषः इति के,खे,

[9]स्त्रीप्रत्ययस्योपसर्ज्जनत्वेन के,खे

[10]प्रवर्तित एव इति खे