Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

पदाङ्गाधिकारे तस्य च तदन्तस्य च


पदाङ्गाधिकारे तस्य च तदन्तस्य च॥२९॥

पदमङ्गं विशेष्यम्, विशेषणेन च तदन्तविधिः। 'येन विधिरि'त्यस्यायं प्रपञ्चः। तेन 'इष्टकचितम्, पक्वेष्टकचितम्' इत्यादौ 'इष्टकेषीकामालानां चिते'ति ह्रस्वः, महान्, परममहान्, परमातिमहानित्यादौ 'सान्तमहतः' इति दीर्घश्च सिद्धः। अत एव तदुत्तरपदस्येति पाठोऽयुक्त इति भाष्ये स्पष्टम्। अत्र पदशब्देनोत्तरपदाधिकारः केवलपदाधिकारश्च। 'पादस्य पदाज्याती'त्यत्र न तदन्तग्रहणं लक्ष्यानुरोधादिति सर्वं 'येन विधिरि'त्यत्र भाष्ये स्पष्टम्॥२९॥

 

कामाख्या

पदङ्गाधिकारे। अत्र सर्वं सुगमम्॥२९॥

परिभाषार्थमञ्जरी

पादस्य पदाज्यातीति। विशेषणविशेष्ययोः कामचारादुत्तरपदेत्यस्यैव सूत्रोपात्तविशेषणत्वस्वीकारादिति भावः॥२९॥