व्यपदेशिवदेकस्मिन्
नन्वेवम् 'अस्यापत्यमिः' इत्यादौ अदन्तप्रातिपदिकाभावादिञ् न स्यादत आह -
व्यपदेशिवदेकस्मिन्॥३०॥
निमित्तसद्भावाद्विशिष्टोऽपदेशो मुख्यो व्यवहारो यस्यास्ति स व्यपदेशी। यस्तु व्यपदेशहेत्वभावादविद्यमानव्यपदेशोऽसहायः स तेन तुल्यं वर्तते कार्यं प्रतीत्येकस्मिन्नसहायेऽपि तत्कार्यं कर्तव्यमित्यर्थः। तेनाकारस्याप्यपदन्तत्वान्न क्षतिः। एकस्मिन्नित्युक्तेः सभासन्नयनेन आकारस्य नादित्वम्, दरिद्राधाताविकारस्य नान्तत्वम्। अन्यथा 'सभासन्नयने भव' इत्यर्थे 'वृद्धाच्छः' दरिद्रातेरिवर्णान्तलक्षणोऽच्च स्यात्। अत एव हरिष्वित्यादौ सोः पदत्वं न। लोकेऽपि बहुपुत्रसत्त्वे नैकस्मिन् ज्येष्ठत्वकनिष्ठत्वादिव्यवहारोऽयं मे ज्येष्ठः, कनिष्ठो, मध्यम इति किन्त्वेकपुत्रसत्त्व एव। अनेन चाशास्त्रीयस्याप्यतिदेशः। अत एव 'इयाय' इत्यादावेकाच्त्वनिबन्धनद्वित्वसिद्धिः। अत एव 'भवती'त्यादौ 'भू' इत्यस्याङ्गत्वम्, 'इयान्' इत्यादौ कार्यकालपक्षे तद्धितान्तत्वनिबन्धनप्रातिपदिकत्वं च सिद्ध्यति। अन्यथा यस्माद्विहितस्तदादित्वाभावान्न स्यात्। यत्तु योऽर्थवांस्तत्रार्थस्य त्यागोपादानाभ्यामेकाज्व्यवपदेशः, यथा 'ईयाय' इत्यादावर्थवतो धातोरयं वर्णरूपः एकोऽजिति कैयटः। तन्न, तस्य 'एकपदा ऋगि'त्यत्र भाष्योक्तरीत्या मुख्यव्यवहारसत्त्वात्। 'एकपदा ऋगि'त्यत्र 'अर्थेन युक्तो व्यपदेश' इति भाष्ये उक्तम्। ऋक्त्वादेरर्थशब्दोभयवृत्तित्वेन तस्याः शब्दमात्ररूपं पदमेकोऽवयव इत्यर्थ इति तदाशयः। तस्मादेकस्मिंस्तत्तद्धर्मारोपेण युगपद्यथा ज्येष्ठत्वादिव्यवहारः, यथा वा 'शिलापुत्रकस्य शरीरम्' इत्यादावेकस्मिन्नरोपितानेकावस्थाभिः समुदायरूपत्वाद्यारोपेण 'एतस्य शरीरमि'त्यादिव्यवहारः, तथाऽत्रैकाच्त्वादिव्यवहारोपपत्तिरिति लोकन्यायसिद्धेयम्। न चासहाय एवैतत्प्रवृत्तौ भवतीत्यत्र 'भू' इत्यस्याङ्गत्वानापत्तिः, ससहायत्वादिति वाच्यम्, शपमादायाङ्गत्वे कार्ये यस्माद्विहितस्तदादित्वे तस्य ससहायत्वाभावाल्लोके विजातीयकन्यादिसत्त्वेऽप्येकपुत्रस्य तस्मिन्नेव 'अयमेव ज्येष्ठः' इत्यादिव्यवहारवत्। न चैवम् 'निजौ चत्वार एकाचः' इति भाष्यासङ्गतिः, इकारस्यासहायत्वाभावेन तत्रैकाच्त्वानुपपादनादिति वाच्यम्, 'एकस्मिन्' इत्यस्यापर्यालोचनया तत्प्रवृत्तेः। 'अर्थवता व्यपदेशिवद्भावः' इत्यत्रार्थवत्पदेनाप्यसहायत्वमुपलक्ष्यते। अर्थबोधकेन शब्देन व्यपदेशिसदृशो भावः कार्यं लभ्यत इति तदर्थः। प्रायोऽसहाय एवार्थवत्त्वात्। 'कुरुते' इत्यादौ 'तशब्दाकारोऽचामन्त्यः' इति व्यवहारे, 'स आदिर्यस्ये'ति व्यवहारे चासहाय एवेति तत्र व्यपदेशिवद्भावेन टिसंज्ञासिद्धिरित्यन्यत्र विस्तरः॥३०॥
कामाख्या
अदन्तप्रातिदिकाभावादिति। न च 'येन विधि'रिति सूत्रेण स्वस्यापि ग्रहणात्कथमिञोऽभाव इति वाच्यम्। 'स्वं रूप'मिति सूत्रप्रत्याख्यान्न स्वमित्यस्यानुवृत्तेरसंभवात्। न चैवं रौण इत्यत्राण् न स्यात् व्यपदेशिवदेकस्मिन्नित्यस्य व्यपदेशिवद्भावोऽप्रातिपदिकेनेति निषेधादिति चेन्न। यत्र सूत्रे अद्यन्तपदोपादानन्तत्रैवैतन्निषेधप्रवृत्तेः। न चाद्यन्तवदेकस्मिन्निति सूत्रेणैव सिद्धे वृथेयं परिभाषेति वाच्यम्। धुगित्याद्यर्थमवश्यं करणीयपरिभाषयैव सिद्धे सूत्रप्रत्याखान एव भाष्यतात्पर्यात्। अनया च परिभाषया अन्तत्व-आदित्व-घटकत्व-घटितत्वानामेवातिदेशः। तत्रान्तत्वम् - स्वघटकत्व स्वघटकवर्णप्रागभावाधिकरणक्षणावृत्तित्वोभयसम्बन्धेन यत्किञ्चित्समुदायविशिष्टत्वम्। आदित्वञ्च - स्वघटकत्व स्वघटकवर्णध्वंसाधिकरणक्षणावृत्तित्वोभयसम्बन्धेन यत्किञ्चित्समुदायविशिष्टत्वम्। मध्यत्वञ्च - स्वघटकत्व स्वघटकवर्णप्रागभावाधिकरणक्षणवृत्तित्व स्वघटकवर्णध्वंसाधिकरणक्षणवृत्तित्वैतत्त्रितयसम्बन्धेन यत्किञ्चित्समुदायविशिष्टत्वम्। घटकत्वञ्च - स्वव्यापकत्व स्वव्याप्यत्वाभाववत्वोभयसम्बन्धेन यत्किञ्चित्समुदायविशिष्टत्वम्। रामशब्दघटकत्वं ककारे वारणाय स्वव्यापकत्वमिति। स्वस्मिन् स्वघटकत्ववारणाय स्वव्याप्यत्वाभाव इति। घटितत्वञ्च - स्वव्याप्यत्व स्वव्यापकत्वाभाववत्वोभयसम्बन्धेन समुदायविशिष्टत्वम्। व्यापकत्वञ्च - स्वाधिकरणवृत्त्यभावाप्रतियोगित्वम्। व्याप्यत्वञ्च - स्वाभाववदवृत्तित्वम्। ज्ञानरूपाधिकरणमादाय लक्षणसमन्वयः। प्रकृतेऽकारेऽदन्तत्वन्नास्ति। द्वितीयसम्बन्धसत्वेऽपि प्रथमसम्बन्धाभावादतः परिभाषा कर्तव्या। केचित्तु आदित्वान्तत्वलक्षणे घटकत्वनिवेशेन अपूर्वानुत्तरलक्षणत्वादाद्यन्तयोरिति सूत्रप्रत्याख्यानपरेण वार्तिकेन च सिद्धे वृथेयं परिभाषेति वदन्ति तदसत्। धुगित्यादौ धातौ धात्ववयवत्वस्य कथमप्यानयनासंभवेन परिभाषाया आवश्यकत्वात्। सति त्वन्यस्मिन्नित्यादिना भाष्येणोक्तवार्तिकस्यावहेलनाच्च। असहायत्वञ्च - मुख्यधर्मवदघटकत्वे सति मुख्यधर्मवदघटितत्वे सति मुख्यधर्मवदसमभिव्याहृतत्वम्। सभासन्नयनघटक भासन्नयनशब्दे प्रातिपदिकत्वव्यपदेशवारणाय प्रथमसत्यन्तोपादानम्। भासन्नयनवृत्तिवृद्धसंज्ञकत्वव्यवहारस्य सभासन्नयने वारणाय द्वितीयोपादानम्। अत्रैव भाशब्दाकारे आदित्ववारणाय तृतीयोपादानम् आकारस्य आदित्वधर्मवत्सशब्दसमभिव्याहृतत्वात्। एवं दरिद्राशब्दघटकदरिशब्दे धातुत्वस्य, दरिद्राशब्दे इवर्णान्तत्वस्य, इकारेऽन्तत्वस्य च नातिदेश इति त्रितयस्य फलं बोध्यम्। मुख्यधर्मस्तु आन्तव्यरूपः मुख्यप्रविष्टरूपश्च अर्थादानेतव्यधर्मस्य मुख्यप्रविष्टो यो धर्मस्तद्वत एवासहाये कार्यम्। तेन घटादिशब्दे जराशब्दान्तत्वातिदेशो नअनेतव्यस्य जराशब्दान्तत्वस्य मुख्यप्रविष्टो जरात्वरूपस्तद्वत्ताविरहात्। केवलाकारे आनेतव्यस्य अदन्तत्वस्य मुख्यप्रविष्टमत्वन्तद्वत्वस्य सत्वेनादोषात्। धातौ धातुभिन्नत्वस्य तु नातिदेशः आनेतव्यस्य धातुभिन्नत्वस्य तिङन्तादिसमुदाये सत्वेन धातोस्तदघटकत्वाभावेन असहायत्वाभावात् दधिशब्देऽकारेऽजव्यवहितपूर्वत्वातिदेशेन यणापत्तिस्तु न एकपदप्रतिपाद्यस्यैव धर्मस्य मुखप्रविष्टधर्मत्वात् पूर्वत्वाद्यटितस्यैव धर्मस्यातिदेशाच्च। न चैवमपि धुकित्यादौ मुख्यधर्मस्य धात्ववयवस्य दकारादौ सत्वेन तदघटितत्वाभावेनासहायत्वविरह इति वाच्यम्। मुख्यधर्मवदघटितत्वे सतीत्यस्यानिवेशेनादोषात्। श्रीमच्चरणास्तु - स्वस्मिन् स्वघटकत्व स्वघटितत्वयोरेवानयातिदेशः। तथा च एकस्मिन् घटकत्वघटकव्यापकत्वसम्बन्धे घटितत्वघटकव्याप्यत्वसमाबन्धे सति व्यपदेशिवत् घटितत्व-घटकत्व घटकपूर्वोक्तसम्बन्धद्वयविशिष्टवत् कार्यम्भवतीति परिभाषार्थः। एतावतैव अन्तत्वादित्वधात्ववयवत्वैकाच्त्वादेर्व्यवहारोपपत्तिः। इयानित्यादावनया तदादित्वालाभेऽपि यथोद्देशपक्षे जातप्रातिपदिकत्वस्यानुमानिकस्थानिवद्भावेन निर्वाह इति वदन्ति। व्यपदेशिवदेकस्मिन्निति वचनंलौकिकमिति ध्वनयितुमसहाय एव तथाव्यवहार इति ध्वनयितुञ्चाह लोकेऽपीति। ज्येष्ठत्वं च पितृविशिष्टत्वम्। वै. स्वजन्यत्व स्वजन्योत्पत्त्युत्तरकालावृत्त्युत्पत्तिकालिकत्व स्वजन्योत्पत्तिप्राक्कालिकोत्पत्तिकत्वैतत्त्रितयसम्बन्धेन। पुत्रत्रयसत्वे कनिष्ठे न ज्येष्ठत्वं सम्बन्धद्वयाघटनात्। एवं मध्यमेऽपि कनिष्ठापेक्षया प्राक्कालिकत्वेऽपि ज्येष्ठापेक्षया उत्तरकालवृत्त्युत्पत्तिकत्वात्। मध्यमत्वं च स्वजन्यत्व स्वजन्योत्पत्युत्तरकालवृत्त्युत्पत्तिकालिकत्व स्वजन्योत्पत्तिप्राक्कालिकोत्पत्तिकत्वैतत्त्रितयेन। कनिष्ठत्वं च स्वजन्यत्व स्वजन्योत्पत्युत्तरकालवृत्त्युत्पत्तिकालिकत्व स्वजन्योत्पत्तिप्राक्कालिकानुत्पत्तिकत्वैतत्त्रितयेन च पितृविशिष्टत्वमिति बोध्यम्। एकपुत्रसत्वे तुव्यपदेशिवद्भावादेवोपपत्तिः। अनेन चेति। यद्यपि शास्त्रीयत्वं च शास्त्रकारीयसंकेतविषयतावच्छेदकधर्मघटितधर्मवत्वरूपन्तच्चैकाच्त्वेऽप्यस्ति। तथापि शास्त्रस्यैकपदशक्यत्वरूपस्य ग्रन्थकृत्सम्मतस्य शास्त्रीयत्वस्याभावेनाशास्त्रीयत्वादपि व्यपदेशिवद्भावेन द्वित्वसिद्धिः। कैयटोक्तं खण्डयति यत्त्विति।शब्दार्थसमुदायस्यान्यपदार्थत्वम्। शब्दमात्रस्य तदवयवत्वमित्येकाच्त्वव्यपदेशो युक्त एवेति भावः। त्यागोपादानाभ्यां। वर्तिपदार्थविवक्षायामर्थस्य त्यागः शब्दमात्रस्य ग्रहणम्। अन्यपदार्थविवक्षायामर्थस्योपादानमित्यन्यपदार्थेऽज्घटितत्वमुपपन्नमिति। तन्नेति। एवं रीत्यैकाच्त्वोपपादने एकापदा ऋगित्यत्रत्य भाष्यरीत्या मुख्यव्यवहार एवेति व्यपदेशिवदेकस्मिन्नित्येतदुदाहरणत्वासंगत्या कैयटोक्तं न युक्तमिति नागेशाशयः। अर्थमाश्रित्य यो व्यवहारः समुख्यः इत्यत्र भाष्यसम्मतिमाह एकपदेति। यथा व्यपदेशिवद्भावस्य प्रयोजनमुक्तन्तथा नेत्याह तस्मादिति। वयःकृतावस्थानां प्राणिधर्मत्वादाह आरोपितेति। अनेकावस्थाविशिष्टः शिलापुत्रकपदव्यवहार्यः एकावस्थाविशिष्टः शरीरपदव्यवहारविषयः। विजातीयेति। शास्त्रे वैजात्यन्तु तत्तत्कार्यविधायकशास्त्रीयोद्देश्यतावच्छेदकाक्रान्तसमुदायघटकत्वाभाववत्वेन। न चैवमिति। असहाय एवैतत्परिभाषाप्रवृत्तिस्वीकारे। नन्वर्थवता व्यपदेशिवद्भाव इति भाष्येणार्थस्य त्यागोपादानाभ्यामेव व्यपदेशिवद्भावयोजनं कैयटोक्तरीत्येवोचितमित्यत आह अर्थवतेति।यत्फलितन्तदाह अर्थबोधकेनेति। अन्यत्सर्वं सुगममिति दिक्॥३०॥
परिभाषार्थमञ्जरी
यत्तु योऽर्थवानिति। अयं कैयट आद्यन्तवत्सूत्रस्थः। एकपदा ऋगितीति। तत्र ह्याद्यन्तवदतिदेशे कृतेऽपि पपाचे[1]त्यादिसिद्धये व्यपदेशिवद्वचनं कर्त्तव्यम् इत्युक्त्वा तस्य लोकन्यायसिद्धत्वबोधनाय यथा तर्हि वर्णसमुदाय: पदम्। पदसमुदाय: ऋक्। ऋक् समुदाय: सूक्तमित्युच्यते। भवति चैतदेकस्मिन् एकवर्णं पदम्, एकपदा ऋक्, एकर्चसूक्तमिति। अत्राप्यर्थेन युक्तो व्यपदेश: पदं नामार्थ:, ऋङ्नामार्थः, सूक्तं नामार्थ इत्युक्त्वा पुत्रदृष्टान्तेनेयं साधिता। तत्राप्यर्थेनेति समाधानभाष्यमादाय पदादीनां [2]योऽर्थः [3]सोऽन्यपदार्थः, अभेदोपचाराच्च अर्थ एव पदादिभिरभिधीयत इति कैयटेन व्याख्यातः। तत्तु तदुक्तार्थो न लोके प्रतीयत इति स्वयं भाष्यार्थमाह ऋक्त्वादेरित्यादिना॥३०॥
[1]पपाठेति छपुस्तके पाठः।
[2]पदादीनामन्यदीयोऽर्थः इति छपुस्तके पाठः।
[3][3]सोऽन्यपदार्थः इति गे नास्ति।