Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति

ननु गर्गादिभ्यो विहितो यञ् तदन्तविधिना परमगर्गादिभ्योऽपि स्यात्, अत आह -

ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति॥३१॥

इयं च 'समासप्रत्ययविधौ प्रतिषेध उगिद्वर्णग्रहणवर्जम्' इति वार्तिकस्थप्रत्ययांशानुवादः। अत एवायं प्रत्ययविधिविषय एव। अत एव  'येन विधिरि'ति सूत्रभाष्ये प्रत्ययविधिभिन्ने  'अप्तृन्तृजि'त्यादौ गृह्यमाणप्रातिपदिकेनापि तदन्तविधिप्रतिपादनं 'स्वसा, परमस्वसे'त्याद्युदाहरणं च सङ्गच्छते। अत एव च तदन्तविधिसूत्रे भाष्ये समासेत्यादिनिषेधस्य कथनवदस्य न कथनम्। सोऽपि निषेधो विशिष्य तत्तद्रूपेण गृहीतप्रातिपदिकसूत्र एव। ध्वनितं चेदम् 'असमासे निष्कादिभ्यः' इति सूत्रे भाष्ये। अत्र च ज्ञापकं 'सपूर्वाच्च' इति सूत्रम्, अन्यथा 'पूर्वादिनिरि'त्यत्र तदन्तविधिनैव सिद्धे किं तेन॥३१॥

 

कामाख्या

तदन्तविधिनिषेधिकां परिभाषामाहग्रहणवतेति। गृह्यमाणप्रातिपदिकेन तदन्तविधिर्न्नेति परिभाषार्थः। गृह्यमाणप्रातिपदिकत्वं च प्रत्ययभिन्नत्वे सति उगिद्भिन्नत्वे सति वर्णभिन्नत्वम्। अत्र प्रथमनिवेशात् 'यञश्चे'त्यादौ निषेधो न , द्वितीयनिषेधादुगितश्चेत्यत्र निषेधो न। वर्णभिन्नत्वमित्यस्य वर्णत्वव्याप्यधर्मावच्छिन्नविषयताप्रयोजकभिन्नत्वमित्यर्थस्तेन 'अत इञि'त्यत्र निषेधो न। केचित्तु आनुपूर्व्यवच्छिन्नविषयताप्रयोजकत्वन्तत्त्वमिति वदन्ति। तदसत्, 'वृद्धाच्छ' इत्यत्र वृद्धपदस्य 'नौ द्वयच' इत्यत्र द्वयच्पदस्य तथात्वाभावेन निषेधाप्रवृत्तेः। यत्तु प्रातिपदिकत्वव्याप्यधर्मावच्छिन्नविषयताप्रयोजकत्वन्तदिति। तत्र उक्तदोषस्य तादवस्थ्यात्। यदपि प्रातिपदिकत्वव्याप्यविषयताप्रयोजकत्वन्तत्। प्रकृते द्वयच्त्ववृद्धत्वयोः प्रातिपदिकाधिकारेण प्रातिपदिकत्वव्याप्यत्वान्न दोष इति तदप्यसत्। 'अत इञि'त्यत्रापि अत्वावच्छिन्नविषयताया उक्तरीत्या प्रातिपदिकत्वव्याप्यत्वेन निषेधापत्तेः एवमुगितश्चेत्यत्रापि बोध्यम्। वृद्धास्तु सामानाधिकरण्येन इतरान्वयाप्रयोज्यप्रातिपदिकमात्रवृत्तिविषयताप्रयोजकत्वन्तत्त्वम्। 'यञश्चे'त्यादि यञादिपदानां सामानाधिकरण्येनैव इतरान्वयात् निषेधो न। न चैवं द्व्यच्पदस्यापि तथात्वेन निषेधानापत्तिरिति वाच्यम्। तावज्वत इत्येव कर्तव्ये द्व्यच्ग्रहणेन द्व्यच एव प्रातिपदिकादिति ज्ञापनेन द्व्यजन्ताप्राप्तेरिति। श्रीमद्गुरुचरणास्तु - धर्मितानवच्छेदकवर्णत्वव्याप्यधर्मावच्छिन्नविषयत्वाप्रयोजकत्वे सति प्रत्ययत्वव्याप्यधर्मावच्छिन्नविषयताप्रयोजकत्वे सति प्रातिपदिकवृत्तिविषयताप्रयोजकत्वन्तत्त्वम्। अत्र धर्मितानवच्छेदकेति निवेशान् 'नौ द्व्यच' इत्यत्र निषेधः सिद्धः। प्रत्ययत्वव्याप्येति निवेशाद्यञश्चेत्यादौ निषेधो न। 'अस्माया मेधे'त्यत्र असः प्रत्ययस्यापि सत्वेन अस्त्वस्य प्रत्ययव्याप्यत्वाभावेन निषेधः स्यादेतदर्थं असमासे निष्कादिभ्य इति सूत्रे असमासग्रहणेन अस्या अनित्यत्वकल्पनेनादोषात्। अनिनस्मिन्निति परिभाषयाऽस्त्वादौ वर्णत्वातिदेशेन निषेधश्चाप्रवृत्तेश्चेति अनित्यत्वादेव 'रोणी'ति सूत्रे तदन्तविधिना आजकरौण इति सिद्धम्। 'मेघर्तिभयेषु कृञ' इत्यत्र भयशब्देन तदन्तग्रहणादभयंकर इति सिद्धम्। 'अनुदात्तादेरञि'त्यत्र अनुदात्तादिपदस्य वर्णत्वव्याप्यत्वाभावेन निषेधः सिद्ध इत्याहुरिति दिक्॥३१॥

परिभाषार्थमञ्जरी

किन्तेनेति। वस्तुतस्तु अस्माज्ज्ञापकात् समासप्रत्ययविधावित्येतद्घटक प्रत्ययांशो नापूर्व्वः। किन्तु ज्ञापकसिद्ध इतिबोध्यते। स्पष्टश्चायमर्थोऽन्यत्र॥३१॥