Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

व्यपदेशिवद्भावोऽप्रातिपदिकेन

नन्वेवं 'सूत्रान्ताट्ठक्', 'दशान्ताड्डः', 'एकयोगपूर्वादि'त्यादेः केवलसूत्रशब्ददशन् शब्दैकशब्दादिष्वपि प्रवृत्तिर्व्यपदेशिवद्भावात् स्यादत आह -  

व्यपदेशिवद्भावोऽप्रातिपदिकेन॥३२॥

'पूर्वात्सपूर्वादिनि'रित्येकयोग एव कर्तव्ये पृथग्योगकरणमस्या ज्ञापकम्। न च 'इष्टकादिभ्यः' इति सूत्रेऽनुवृत्त्यर्थं तथा पाठः, अत एव 'अनिष्टी'त्यादिसिद्धिरिति वाच्यम्, ज्ञापकपरभाष्यप्रामाण्येन 'अनिष्टी'त्यादिप्रयोगाणामनिष्टत्वात्, एकयोगेऽपि तावद् उत्तरत्रानुवृत्तौ बाधकाभावाच्च। अत एव 'नान्तादसङ्ख्यादेरि'ति चरितार्थम्। अन्यथा 'पञ्चमः' इत्यादावपि व्यपदेशिवद्भावेन सङ्ख्यादित्वात्तद्वैयर्थ्यं स्पष्टमेव। इयं च प्रातिपदिकग्रहणे एव, न तु प्रातिपदिकाऽप्रातिपदिकग्रहणे। तेन 'उगितश्चे'त्यत्र न दोष इति तत्रैव भाष्ये स्पष्टम्। इयं 'ग्रहणवता' इति च परिभाषा प्रत्ययविधिविषयैवेति 'असमासे निष्कादिभ्यः' इति सूत्रे भाष्यकैयटयोः। तेन 'अहन्' इत्यादेः परमाहन्शब्दे केवलाहन्शब्दे च प्रवृत्तिरित्यन्यत्र विस्तरः॥३२॥

 

कामाख्या

तदन्तविधिप्रसङ्गात् तद्धितप्रकरणाच्च तद्धितविषयकपरिभाषामवतारयति नन्वेवंसूत्रान्तादिति। एकगोपूर्वादित्यादि इदमयुक्तम्। वर्णान्तरसन्निधानसापेक्षस्य पूर्वत्वस्य अतिदेशसहस्रेणाप्यतिदेष्टुमशक्यत्वात्। अत एव दधीत्यादाविकारस्य इकारपूर्वत्वातिदेशेन सवर्णदीर्घो न। अन्तादिपदघटितं प्रातिपदिकत्वव्याप्यधर्मावच्छिन्नविषयताप्रयोजकपदघटितं यत्पदं तत्प्रयोज्योद्देश्यतानिरूपितविधेयताश्रयीभूतप्रत्ययः व्यपदेशिवद्भावेन न भवतीति परिभाषार्थः। अत्र प्रातिपदिकत्वव्याप्येति निवेशादन्तादिनिवेशाच्च भवतीत्यत्र 'उगितश्चे'ति ङीप्सिद्धिः। अन्तादिनिवेशादेव आजकरौण इत्यत्रेव रौण इत्यत्रापि व्यपदेशिवद्भावेन रोणीत्यस्य प्रवृत्तिः। प्रत्ययेति निवेशात्कुड्मलाग्रदन्नित्यत्रेव अग्रदन्नित्यत्रापि 'अग्रान्ते'ति दत्रादेशः सिद्धः। न चैवमपि पञ्चमित्यत्र व्यपदेशिवद्भावेन संख्यादित्वान्नान्तादसंख्यादेरिति मडागमानापत्तिरिति वाच्यम्। तादृशप्रत्ययोद्देश्यकं कार्यं च न भवतीत्यर्थेनादोषात्। यद्वा तादृशप्रत्ययविशिष्टं कार्यं न भवतीति परिभाषार्थः। वै. स्वतादात्म्य स्वनिष्ठोद्देश्यतानिरूपितविधेयताश्रयत्वैतदन्यतरसम्बन्धेन। एकयोग एवेति। इदमयुक्तम् पूर्वत्वस्योक्तरीत्याऽतिदेशालभ्यत्वात्। किन्तु पूर्वान्तादितिरीत्येकयोग एव कर्तव्ये पृथग्योगकरणं ज्ञापकमिति साधीयान् पाठः। अनिष्टत्वादिति। न चानिष्टीत्यस्येष्टत्वपक्षे का गतिरिति चेन्न इष्टादिगणे पूर्वशब्दं पठित्वा इष्टान्तादिनिरिति न्यासेनैव सिद्धेरिति दिक्॥३२॥

परिभाषार्थमञ्जरी

अत एव 'नान्तादसंख्यादे'रिति। ननु इयं ग्रहणवतेति च परिभाषा प्रत्ययविधिविषया एवेति वक्ष्यमाण स्वोक्त्त्या प्रकृते तत्त्वाभावेन निषेधाप्रवृत्त्या व्यपदेशिवद्भावस्य दुर्व्वारत्वेन दोषध्रौव्यात्। कथमत्र परिभाषासंचारेण चारितार्थ्यमुच्यते। न च प्रत्ययविधिविषयेत्यस्याप्रत्ययोद्देश्यकविधिविषयेत्यर्थः। प्रकृतपूर्व्वोत्तरपरिभाषयोरेकविषयत्वेन पूर्व्वपरिभाषाया अप्रवृत्तेः 'गर्गादिग्भ्यो यञि'त्यादौ प्रत्ययस्य तत्त्वाभावेन तदन्ते यञो दुर्व्वारत्वात्। न च तत्र यथाश्रुतार्थकत्वमेव प्रकृते तु [1]पूर्व्वार्थकत्वमिति वाच्यम्। तावतापीयं ग्रहणवतेत्यादिमूलोच्छेदापत्तेः। किञ्च 'ससजुषो रु' रित्यादिसूत्रस्थशेखर मनोरमादिसकलग्रन्थविरोधाच्च। तत्र ह्येतस्याः प्रत्ययविधिविषयत्वेनाप्रवृत्तौ व्यपदेशिवद्भावेन सजूश्शब्दस्यापि रुत्वसिद्धरित्युक्तम्। न च प्रत्ययत्वरूपसामान्यधर्मेण तद्व्याप्यधर्मेण वा यत्रोद्देश्यतेति न दोष इति वाच्यम्। 'उगितश्च' इत्यादौ एतदप्रवृत्तेः। त्वदुक्तरीत्यैव सिद्धौ तत्रैतत्परिभाषाऽप्रवृत्यर्थमियं प्रातिपदिकग्रहणे एवेत्यादिमूलकृतयत्नवैफल्यात्। अत एव प्रत्ययमात्रस्यैव यत्रोद्देश्यता तत्रैवेयमित्यपि नेति बोध्यम्। न च प्रत्ययस्योद्देश्यत्वं वा विधेयत्वं वास्तु उभयत्रापि प्रवृत्तिः स्वीक्रियत इति वाच्यम्। 'ससजुषो रु'रित्यादावेव दोषध्रौव्यात्। न च प्रतिलक्ष्यं वाक्योपप्लवे सजूःशब्दविषयकवाक्ये प्रत्ययस्योद्देश्यत्वस्य विधेयत्वस्य चाभावेन तदप्रवृत्तिरुक्ता युक्तैवेति वाच्यम्। मूलशैथिल्यात्। तथा हि परिभाषाबोधकविभक्तपूर्व्वादिनिरिति सूत्रे प्रययस्य विधेयत्वेन ज्ञापकस्य सजातीयोपेक्षत्वाद्[2] यत्र प्रत्ययस्य विधेयता तत्रैवेत्यर्थस्यौचित्येन त्वदुक्तार्थस्य कल्पयितुमशक्यत्वात्। न च 'पूर्व्वादिनि'रिति ज्ञापकं प्राचामनुरोधि। इद्ञ्चावश्यमभ्युपेयम्[3]। अत एव शेखरे स्त्रीप्रत्यये 'उगितश्चे'त्यत्र भवतीति प्रतीकमुपादाय[4] व्यपदेशिवद्भावोऽप्रातिपदिकेनेति निषेधस्तु सूत्रोपात्तान्तदादिशब्दविषयक इत्युक्तं संगच्छते। अन्यथा पूर्व्वोक्तज्ञापकेन तथा कल्पनमसंग‌ङ्गतं स्यात्। एवञ्चासंख्यादिग्रहणमेव ज्ञापकमित्याशयः। तत्र च प्रत्ययस्योद्देश्यत्वेन न दोषः। उगितश्चेत्यादिशङ्कासमाधानं सर्व्वमपि प्राचामनुरोध्येवेति[5] वाच्यम्। 'सूत्रान्ताढ्ढक्', 'दशान्ताड्ड' इत्यादिवैयर्थ्यस्यासोढव्यत्वात्। नचोभाभ्यामंशद्वयमपि कल्प्यत इति वाच्यम्। विनिगमनाविरहे‌ण अस्यैव प्राचामनुरोधित्वस्य वक्तुमशक्यत्वात्। स्त्रीप्रत्यये शेखरस्तु परिभाषाप्रत्याख्यानफलितार्थप्रदर्शक इति चेन्न। मटः प्रत्ययत्वस्य हृन्मञ्जूषासंगोपितत्वेनादोषात्। न च मटः प्रत्ययत्वे मडादिषु यस्यादिस्तन्निर्देशः कर्त्तव्य इति मटः आगमत्वबोधकनान्तादसंख्यादेर्मडिति सूत्रस्थभाष्यव्याकोप इति वाच्यम्। तद्ग्रिमभाष्ये मट्थट्थुकोऽनुदाहृत्य विंशतितम इति मडागममात्रघटितोदाहरणेन मट्थट्थुकां प्रत्ययत्वेऽपि न क्षतिरिति बोधनेन तस्य शान्तेः। अन्यथा क्रमेणोदाहरणीयं स्यात्। उभयोर्मणिरुभये देवमनुष्या इति भाष्योदाहरणेन द्विवचनान्तत्वाभावकल्पकग्रंथाश्चात्रानुकूलाः। अत एव मट्थट्थुकाम् आगमत्वप्रत्ययत्वयोर्विशेषाभावः। तमटः प्रत्ययत्वे त्वाद्युदात्तत्वं स्यात्। आगमत्वे त्वनुदात्तत्वो भवतीति इट् स्वरेण विंशतितम इत्यन्तोदात्तत्वं भवतीति कैयटोऽपि संगच्छते।ननु मडादिषु प्रत्ययत्वागमत्वयोर्विशेषाभावेऽपि आगमप्रकरणाननुरोधिभिया आगमत्वपक्ष एव उचित इति चेन्न। आगमत्ववादिनोऽपि 'द्वेस्तीयः' 'त्रे: संप्रसारणञ्चे'त्यत्र डटोऽसंबन्धेन आगमविधायकत्वाभावात् प्रकरणविरोधस्य च सोढव्यत्वात्। किञ्च अनुवृत्तडट: षष्ठ्यन्तत्वसम्पादनार्थं 'तस्मादित्युत्तरस्ये'ति परिभाषाया संचार्य्यत्वेन थुग्विधायके तस्यैव सप्तम्यन्तत्वकल्पनेन चागमपक्षस्यैव गौरवग्रस्तत्वाच्च। अनुवृत्तप्रथमान्तस्य डटो 'नान्तादसंख्यादे'रिति पञ्चमी षष्ठीं कल्पयतीत्यागमत्वप्रदर्शकशेखरादिग्रन्थास्तु प्राचां मतानुयायिन इति नास्माकं प्रतिकूलतामावहन्ति। मडादिषु यस्यादिस्तन्निर्देशः कर्तव्यः अक्रियमाणे प्रत्ययाधिकारात् प्रत्ययोऽयं परिज्ञायेत[6]। तत्र को दोषः। प्रत्ययान्तरेच स्वरे दोष इति भाष्येणैव प्रत्ययान्तत्वबोधनात्। मट्थटोः कृतयोः पञ्चमपञ्चथयोः सिद्धावापि षष्ठ्यसिद्धिरिति तु न शङ्काकलङ्कः। सार्वधातुके परतो विकरणविधानवत् डटि परतस्तेषां [7]विधानमपीति भाष्याशयः। ननु प्रत्ययत्वे आगमत्वबोधकलिङ्गानां वैयर्थ्यमिति चेदिष्टापत्तेः। 'नान्तादसंख्यादेर्मः' 'थचच्छन्दसि' 'षट्कतिकतिपयचतुर्भ्य इति न्यासानामभिमतत्वात्। टित्वप्रयुक्तकार्य्यन्तु यथान्यासे षष्ठीत्यादाविव डटः टित्वमादाय अत्रापि सिद्धम्। एतेन थुकः प्रत्ययत्वे किति वृद्धौ विशेषसत्वाद् आगमत्वप्रत्ययत्वयोर्विशेषाभाव इति कैयटग्रंथासंगतिरपि निरस्ता। ननु थप्रत्ययत्वस्वीक‌ारे[8] पञ्चथ इत्यत्र थे परे 'स्वादिषु' इति पदत्वेन नकारलोपेऽपि षष्ठ इत्यत्र थे परे षकारस्य जश्त्वं, चतुर्थ इत्यत्र रेफस्य विसर्गश्च स्यात्। ततश्च षट्थुको: पृथक्करणं पदान्तविधिप्रतिषेधार्थमिति वार्तिकभाष्यविरोध इति चेन्न। 'षष्ठाष्टमाभ्यां' 'चतुर्थतुर्य्याणी'त्यादिनिर्द्देशस्तद्वारणात्। यथाश्रुतन्यासे नान्तान्मडित्युक्तौ सूत्रे डट् इति षष्ठीनिर्द्देशभावेनागमत्वस्य वक्तुमशक्यत्वेन 'प्रत्ययः' परश्चे'त्यस्य प्रवृत्तौ, पश्चात्प्रथमान्तडटमनुवर्त्य 'तस्मादित्युत्तरस्ये'ति परिभाषाप्रवृत्त्या प्रथमान्तस्य[9] षष्ठ्यन्तत्वकल्पनेन आद्यन्तावित्यस्य सूत्रस्य मट्थट्विधायकसूत्रयोः प्रवृत्तिकरणेन थुग्विधायके डटः सप्तम्यन्तत्वकरणेन[10] विंशत्यादिभ्य इत्युत्तरत्र षष्ठ्यन्तत्वकल्पनेनागमत्वबोधकवर्णत्रयकरणेन पृथक् थुक्करणेन च बहुक्लेशान् निर्देशाश्रयणमेव लघु इति बोध्यम्। मट्-थट्-थुकामिति कैयटेऽपपाठ:। थुकः प्रत्ययत्वे चतुर्थ इत्यादावकारश्रवणानापत्तिः विसर्गश्रवणापत्तिश्चेति विवरणन्तु थुकः प्रत्ययान्तरत्वं निर्द्देशाश्रयणञ्चानाश्रित्य प्रवृत्तमिति न दोषाधायकम्[11]। इदं सर्व्वं मडादिषु यस्यादिस्तन्निर्द्देशः कर्त्तव्यः इत्युक्त्वा तदुदाहरणादानेन ध्वनितम्। अग्रे नान्तादित्येषां पञ्चमी डडिति प्रथमायाः षष्ठीं प्रकल्पयतीत्यादिभाष्यन्तु पूर्वोक्तसिद्धान्तमजानत एक‌देशिन इति दिक्। यद्वा। ननु वक्ष्यमाणारीत्याऽनया प्रत्ययविधौ व्यपदेशिवद्भावाभावबोधनेऽपि 'नान्तादसंख्यादे'रित्यत्र तदभावात्तन्निषेधाप्राप्त्या[12] केवलस्यापि संख्यादित्वेन असंख्यादेरिति निषेधे[13] पञ्चमाद्यसिद्धिरित्यत आह अत एवेति। सर्वनाम्नां बुद्धिस्थपरामर्शकत्वेन सूत्रवैयर्थ्यानुपपत्त्या एतद्विषये व्यपदेशिवद्भावानाश्रयणादेवेत्यर्थः। यद्यत्र व्यपदेशिवद्भावः प्रवर्तेत तदा केवलेऽपि निषेधे उदाहरणासंभवेन सूत्रवैयर्थ्यमित्याशयः। अन्यथेत्यस्य उक्तरीत्या व्यपदेशिवद्भावाप्रवृत्त्यस्वीकारे इत्यर्थः। इदं सर्वं मात्सर्य्यमुत्सार्य्य विचार्य्यमार्य्यैरिति दिक्॥३२॥

[1]पूर्वोक्तार्थकत्वमिति इति के,खे,गे

[2]सजातीयापेक्षत्व इति के

[3]अभ्युपेतामिति गे

[4]आदाय इति गे

[5]प्राचामनुरोध्यं चेति के,खे

[6]विज्ञायेत इति के,खे,गे

[7]विधानमिति के

[8]प्रत्ययस्वीकारे इति खे

[9]प्रथमान्तत्वस्य इति गे

[10]कल्पनेन इति छपुस्तके पाठः।

[11]दोषविधायकमिति गे

[12]अप्राप्तौ इति छपुस्तके पाठः।

[13]निषेधेन इति छपुस्तके पाठः।