सर्वो द्वन्द्वो विभाषयैकवद्भवति
घटपटं, घटपटावित्यादिसिद्धय आह -
सर्वो द्वन्द्वो विभाषयैकवद्भवति।३४।
'द्वन्द्वश्च प्राणी'त्यादिप्रकरणविषयः सर्वो द्वन्द्व इत्यर्थः। 'चार्थे द्वन्द्वः' इति सूत्रेण समाहारेतरयोगयोरविशेषेण द्वन्द्वविधानात् न्यायसिद्धेयम्। 'तिष्यपुनर्वस्वोरि'ति सूत्रस्थं बहुवचनस्येति ग्रहणमस्या ज्ञापकम्। तद्धीदम् 'तिष्यपुनर्वस्वि'त्यत्र तद्व्यावृत्त्यर्थम्। न चैवमप्यत्र 'जातिरप्राणिनामि'ति नित्यैकवद्भावेन बहुवचनाभावादिदं सूत्रं व्यर्थमिति वाच्यम्, तद्वैकल्पिकत्वस्याप्यनेन ज्ञापनात्। न चैते प्राणिन इति वाच्यम्, 'आपोमयः प्राणः' इति श्रुतेरद्भिर्विना ग्लायमानप्राणानामेव प्राणित्वात्। स्पष्टं चेदं 'तिष्यपुनर्वस्वोरि'ति सूत्रे भाष्ये। अत एव 'द्वन्द्वश्च प्राणी'त्यादेः प्राण्यङ्गादीनामेव समाहार इति विपरीतनियमो न॥३४॥
कामाख्या
घटपटं घटपटाविति। ननु समुदायेऽवयवगतसंख्याया आरोपे इतरेतरयोगद्वन्द्वः, अनारोपे समाहार इति विवक्षयैवोक्तरूपद्वस्य सिद्धौ व्यर्थेयं परिभाषेति चेन्न। सर्वनामसंज्ञकत्वेनाभिमतशब्देषु विवक्षाद्वयसत्वेऽपि इतरत्र तत्सत्वे मानाभावेनोक्तरूपद्वयानापत्तेः। अत एव लोके वृक्षाः वनमिति व्यवस्थया प्रयोगः न तु वनानि वक्षा इति। सर्वनामस्थले तु सर्वो लोकः सर्वे लोका इति द्विविधप्रोगदर्शनादुभयविवक्षापि भवति। तथा च कश्चिदुद्भूतावयवभेदकसमुदायबोधकः यथा वृक्षशब्दः, कश्चिदुभयविधबोधकः यथा सर्वादयः। तत्र द्वन्द्वस्योभयविधबोधकत्वाभावात् परिभाषारम्भ इति तात्पर्यम्।न च 'चार्थे द्वन्द्व' इत्यनेन समाहारेतरतरयोरविशेषणद्वन्द्वविधानादेव विभाषैकवद्भावे सिद्धे किमर्थोऽयमारम्भ इति वाच्यम्। 'द्वन्द्वश्चप्राणितूर्ये'त्यनेन प्राण्यङ्गादीनामेव समाहारो नेतरेषामिति प्राप्तविपरीतनियम व्यावृत्त्या परिभाषाया आवश्यकत्वात्। ननु पाणिपादमित्यादौ नित्यैकवद्भावस्यैव दर्शनेन सर्वो द्वन्द्व इत्यनुपपन्नमित्यत आह द्वन्द्वश्च प्राणीत्यादि। न्यायसिद्धेयमिति। ननु प्रदर्शितदिशा उभयविवक्षायाः कर्तुमशक्यत्वेन न्यायसिद्धत्वन्नयुक्तमत आह बहुवचनग्रहणमस्यामिति।
अयं भावः - तिष्यपुनर्वसुशब्दे उद्भूतावयवभेदविवक्षायाम् इदं तिष्यपुनर्वसु इति व्यावर्त्यस्थलाभेन बहुवचनग्रहणं व्यर्थं तिरोहितावयवभेदविवक्षायाम् एकवचनान्तस्यैव सत्वेन सूत्रस्य वैयर्थ्यमित्युभयविवक्षां ज्ञापयतीति युक्तं ज्ञापितायान्तूभयविवक्षायां सम्भवव्यभिचारयोः सत्वेन स्वांशे चारितार्थ्यमिति ज्ञापितेऽपि पुनर्वैयर्थ्यं शङ्कते न चेति। तद्वैकल्पिकेति। न च तस्य वैकल्पिकत्वे वदरामलकमितिवत् वदरामलकानीत्यपि स्यादिति वाच्यम्। ज्ञापितं हि वैकल्पिकं व्यवस्थितं तथा हि। वदरत्वादिआतेः प्राधान्ये विवक्षिते एकवद्भावः, वदरादिव्यक्तेः प्राधान्ये विवक्षिते बहुवचनान्तत्वमिति। न चैवं जातिप्राधान्ये एकवचनस्य द्विवचनवारणाय बहुवचनग्रहणं चरितार्थं। व्यक्तिप्राधान्येबहुवचनसंभवेन सूत्रस्यापि चारितार्थ्यमिति कथं परिभाषाज्ञापकत्वमिति वाच्यम्। 'फल्गुनीप्रोष्ठे'त्यतो नक्षत्रपदानुवृत्त्यैव सिद्धे 'तिष्यपुनर्वस्वो'रिति सूत्रे नक्षत्रग्रहणसामर्थ्याद्व्यक्तिप्राधान्ये एवास्य प्रवृत्तिर्न्नतु जातिप्राधान्ये इति बोधनेन ज्ञापकत्वसंभवात्। ननु ज्ञापितायामपि बहुवचनग्रहणं व्यर्थमेव। प्राण्यङ्गादीनामेव समाहर इति नियमेन तिष्यपुनर्वस्वादावेकवचनाभावेन व्यावर्त्यालाभादत आह अत एवेति। बहुवचनग्रहणादेव उक्तविपरीतनियमो न किन्तु प्राण्यङ्गादीनां समाहार एवेति दिक्॥३४॥
नास्ति