Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

प्रकृतिवदनुकरणं भवति


ननु क्षिय इत्यादावियङ् कथम्अत आह -  

प्रकृतिवदनुकरणं भवति।३६।

क्षियः इतीयङ्निर्देशोऽस्या ज्ञापकः। तत्रैव प्रातिपदिकत्वनिबन्धनविभक्ति-करणादनित्या चेयमिति 'क्षियो दीर्घादि'ति सूत्रे भाष्ये स्पष्टम्॥३६॥

 

                                कामाख्या

अतिदेशस्य प्राक्रमात्तन्निरूपयितुमवतरणमाह नन्वितिकथमिति। लक्ष्यस्थानुकरणस्य धातुत्वाभावेनेयङ्दुर्लभ इति भावः। अनुकरणत्वं स्ववृत्त्यानुपूर्व्यवच्छिन्नविषयताप्रयोजकत्वम्। प्रकृतिरनुकार्यं तद्वत् तद्वृत्तिधर्मवदिति परिभाषार्थः। ननु अधातुपर्युदासात्प्रातिपदिकत्वाभावेन विभक्त्युपपत्तिरत आह अत्रैवेति। न च ह्रस्वान्तानुकरणे घिसंज्ञायामियङोनुपपत्तिः परत्वाद्गुणेन बाधात्। दीर्घान्तानुकरणेदीर्घादिति व्यर्थमिति वाच्यम्। असखीति पर्युदासेन साहचर्यपरिभाषया वा असंयोगोपधेकारान्तस्यैव घिसंज्ञाविधानेनादोषादिति केचित् तन्न। 'विभाषा श्वे'रिति निर्देशासंगतेः कुक्षोरित्यादिप्रयोगासिद्धेश्च। किन्तु प्रयोगस्थस्य कृतदीर्घस्यैवानुकरणम्। 'क्षियो दीर्घादि'त्यत्रत्य दीर्घग्रहणन्तु प्रतिपदोक्तक्षीष्धातोर्व्यावृत्त्यर्थमिति दिक्॥३६॥

नास्ति।