॥अथ बाधबीजप्रकरणम्॥ पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः।३८।
॥अथ बाधबीजप्रकरणम्॥
पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः।३८।
पूर्वात्परं बलवत्। विप्रतिषेधशास्त्रात्पूर्वस्य परं बाधकमिति यावत्॥३८॥
कामाख्या
अथ शास्त्रत्वसंपादिकां परिभाषां व्याख्याय क्रमप्राप्तबाधबीजं वक्तुमुपक्रमते। तेषु सामान्यरूपेण बलवत्वप्रयोजकप्रदर्शकपरिभाषामाह – पूर्वपरेति। क्रमेण व्याख्यायते पूर्वात्परमिति। स्वाविशिष्टं शास्त्रं स्वापेक्षया बलवत् स्वोत्तरत्वादित्यनुमानप्रयोगः। वै. स्वोत्तरत्वसम्बन्धेन। बलवत्वे बीजमाह विप्रतिषेधशास्त्रादिति। परं बाधकमिति। परशास्त्रेण स्वप्रवृत्तियोग्यातिरिक्तत्वेन स्वविहितकार्याश्रयातिरिक्तत्वेन च पूर्वशास्त्रीयोद्देश्यता-वच्छेदकावच्छिन्ने संकोच इति भावः॥३८॥
नास्ति।