Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

शब्दान्तरस्य प्राप्नुवन्विधिरनित्यो भवति


यद्व्यक्तिसम्भन्धितया पूर्वं प्रवृत्तिस्तद्व्यक्तिसम्भन्धितयैव पुनः प्रवृत्तौ कृताकृतप्रसङ्गित्वमित्याशयेनाह -

शब्दान्तरस्य प्राप्नुवन्विधिरनित्यो भवति।४३।

इदं 'शदेः शितः' इति सूत्रे भाष्ये स्पष्टम्। तत्र हि 'न्यविशते' इत्यत्र विकरणे कृते तदन्तस्याड् कृते विकरणे धातुमात्रस्येत्यडनित्य इत्युक्तम्॥४३॥

 


अथ 'शदेः शित' इति भाष्यादेकव्यक्तिनिमित्तकमेव कृताकृतप्रसङ्गित्वं गृह्यते। अतस्तद्विपरीतमनित्यमित्यस्य फलितमाह – शब्दान्तरस्येति शब्दान्तरादिति च। तदन्तस्येति। पूर्वं विकरणे तद्विशिष्टस्यैव लङव्यवहितपूर्वत्वविशिष्टाङ्गत्वादिति बोध्यम्। एतत्फलन्तु इषधातोः सनि, द्विर्वचनेऽडागमयोः प्राप्तौ इटि कृते षिशब्दस्य तदकृते, षशब्दस्येति शब्दान्तरप्राप्तिकानित्या द्विर्वचनात्. नित्यत्वेन पूर्वमिटि, षिशब्दस्य द्वित्वे एषिषिषतीति॥४३॥ ॥४४॥

नास्ति।