शब्दान्तरात् प्राप्नुवतः शब्दान्तरे प्राप्नुवतश्चानित्यत्वम्
एतत्तुल्यन्यायेनाह –
शब्दान्तरात् प्राप्नुवतः शब्दान्तरे प्राप्नुवतश्चानित्यत्वम्।४४।
कामाख्या
अथ 'शदेः शित' इति भाष्यादेकव्यक्तिनिमित्तकमेव कृताकृतप्रसङ्गित्वं गृह्यते। अतस्तद्विपरीतमनित्यमित्यस्य फलितमाह – शब्दान्तरस्येति शब्दान्तरादिति च। तदन्तस्येति। पूर्वं विकरणे तद्विशिष्टस्यैव लङव्यवहितपूर्वत्वविशिष्टाङ्गत्वादिति बोध्यम्। एतत्फलन्तु इषधातोः सनि, द्विर्वचनेऽडागमयोः प्राप्तौ इटि कृते षिशब्दस्य तदकृते, षशब्दस्येति शब्दान्तरप्राप्तिकानित्या द्विर्वचनात्. नित्यत्वेन पूर्वमिटि, षिशब्दस्य द्वित्वे एषिषिषतीति॥४३॥ ॥४४॥
परिभाषार्थमञ्जरी
एतत्तुल्यन्यायेति। यद्व्यक्तीति तुल्यन्यायेत्यर्थः। शब्दान्तरेचेति। अत्रेदं बोध्यम्। कृताकृतेति परिभाषाया आद्यंशस्यैव प्रपञ्चः। क्वचित् कृताकृतेति वक्ष्यमाणपरिभाषा तदुदाहरणं तुदतीत्यादि। तद्विपरीतं नित्यमित्यस्य तु शब्दान्तरस्य शब्दान्तरच्छब्दान्तरे [1]चेति प्रपञ्चः। आद्योदाहरणं तु मूले एव स्पष्टम्। द्वितीयोदाहरणन्तु तुदतीत्यादि। गुणे कृते [2]शब्दान्तरत्वात्तत्प्राप्तेः [3]लक्ष्यानुरोधात्तु वक्ष्यमाणक्वचिदित्यनया बाधः। तृतीयोदाहरणं तु करिष्यतीत्यादि। लादेशे कृते स्यादीनां शब्दान्तरे प्राप्तत्वेन नित्यत्वं न किन्तु परत्वात्तिबादय इति॥४४॥
[1]वेति इति के
[2]शब्दान्तरात् इति गे
[3]लक्ष्यानुसारात् इति के,गे