Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

स्वरभिन्नस्य प्राप्नुवन्विधिरनित्यो भवति

'लुटः प्रथमस्य' इति सूत्रे भाष्ये - 

स्वरभिन्नस्य प्राप्नुवन्विधिरनित्यो भवति।४९।

इति पठ्यते। यत्र त्वेकस्यैव कार्यस्य परत्वं नित्यत्वं च, तत्रेच्छयान्यतरत्तदुभयं वा तस्य बलवत्त्वे नियामकमुल्लेख्यम्। अत एव तत्र तत्र परत्वान्नित्यत्वाच्चेति भाष्ये उच्यते। वस्तुतस्तु परत्वादित्युक्तिरेकदेशिनः। स्पष्टं चेदं विप्रतिषेधसूत्रे कैयटे। 'णौ चङी'ति ह्रस्वापेक्षया नित्यत्वान्तरङ्गत्वप्रयुक्तद्वित्वस्य प्रथमतः प्रवृत्तौ नित्यत्वादित्येव भाष्य उक्तम्। एवं नित्यान्तरङ्गयोर्बलवत्त्वमपि यौगपद्यासम्भव एवेति बोध्यम्॥४९॥

 

कामाख्या

शब्दान्तरस्येति प्रागुक्तपरिभाषायाः प्रपञ्चभूतामन्यामपि परिभाषामाह स्वरभिन्नस्येति। स्वरेण भिन्नस्य स्वरो हि शब्दान्तरत्वसंपादक इति भावः। सर्वसाधारणविशेषमाह यत्रत्वितिएकदेशिनइति। नित्यानित्ययोरतुल्यबलत्वेन विप्रतिषेधशास्त्राप्राप्तिः। नित्यत्वादित्येवेति। प्रथमोपात्तत्वादिति भावः। विशेषान्तरमप्याह एवमिति॥४९॥

परिभाषार्थमञ्जरी

लुटः प्रथम‌स्येति। तत्र हि श्वः कर्तेत्यादौ 'तास्यानुदात्तेदि'ति [1]निघातडादेशयोः संप्रधारणायां डादेशस्यानित्यत्वमुक्तम्॥४९॥

[1]निघातः तासिडादेशयोः इति गे