Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

अकृतव्यूहाः पाणिनीयाः

नन्वेवम् 'सेदुषः' इत्यादौ क्वसोन्तरङ्गत्वादिटि, ततः सम्प्रसारणेऽपीटः श्रवणापत्तिरिति चेत्, अत्र केचित्

अकृतव्यूहाः पाणिनीयाः।५६।

न कृतो विशिष्ट ऊहः = निश्चयः, शास्त्रप्रवृत्तिविषयो यैरित्यर्थः। भाविनिमित्तविनाश इत्यध्याहारः। बहिरङ्गेणान्तरङ्गस्य निमित्तविनाशे पश्चात् सम्भावितेऽन्तरङ्गं नेति यावत्। अत्र च ज्ञापकं 'समर्थानां प्रथमात्' इति सूत्रे समर्थानामिति। तद्धि सूत्थितादिभ्यः कृतदीर्घेभ्यः प्रत्ययोत्पत्त्यर्थम्। अन्यथाऽन्तरङ्गत्वाद् दीर्घे कृत एव प्रत्ययप्राप्त्या तद्व्यर्थता स्पष्ट एव। तत्र हि भाविन्यादिवृद्ध्या सवर्णाच्त्वविनाशः स्पष्ट एव। न चात्रैकादेशप्रवृत्तिसमये वृद्ध्यप्राप्त्यैकादेशे कृत आदेशे वृद्धेः प्राप्तावपि तन्निमित्तविनाशाभाव इति वाच्यम्। तद्द्वारैव तन्निमित्तविनाशसत्वेनाक्षतेः। न च 'सौत्थितौ' बहिरङ्गतया वृद्धेरसिद्धत्वान्न तन्निमित्तविनाश इति वाच्यम्। समर्थग्रहणेनैतद्विषये तस्या अप्रवृत्तेरपि ज्ञापनात्। यत्तु समर्थग्रहणेनान्तरङ्गपरिभाषाया अनित्यत्वमेव ज्ञाप्यत इति। तन्न, असिद्धपरिभाषया समकालप्राप्तबहिरङ्गस्य पूर्वं जातबहिरङ्गस्य चान्तरङ्गे कर्तव्येऽसिद्धत्वं बोध्यते न तु जातेऽन्तरङ्गे तस्य तत्त्वं बोध्यते, मानाभावात् फलाभावाच्च। एवञ्च सूत्थितादावेकादेशस्य परिभाषासाध्यत्वाभावेन तदनित्यत्वज्ञापनासम्भवात्। 'अन्तरङ्गानपि विधीन्' इत्यादेरप्यस्यामेवान्तर्भावः। एतत्प्रवृत्तौ च निमित्तविनाशसम्भावनापि निमित्तम्। अत एव 'गोमद्दण्डी'त्यादौ हल्ङ्यादिलोपो न। अन्यथा हल्ङ्यादिलोपकाले सामासिकलुकोऽप्राप्त्या तदुत्तरं चापहार्याभावादप्राप्त्या लोपस्यैवापत्तेः। अस्ति चात्रापि यदि लोपो न स्यात्तर्हि लुक् स्यादिति सम्भावना। 'अल्लोपोऽनः' इति सूत्रस्थतपरकरणन्तु परिभाषाऽनित्यत्वज्ञापनेन चरितार्थम्। तद्धि 'आ न' इत्यादौ लोपवारणाय। अन्यथा दीर्घाभावे लोपसम्भावनयैतत्परिभाषाबलाद्दीर्घाप्राप्तौ तद्वैयर्थ्यं स्पष्टमेवेत्याहुः। 'समर्थानाम्' इति सूत्रे कैयटस्तु समर्थवचनेनेयं परिभाषा ज्ञाप्यते 'अकृतव्यूहाः पाणिनीयाः' इति। तेन 'पपुष' इत्यादावन्तरङ्गत्वात्पूर्वं कृतोऽपीडागमो निवर्तत इति वदन् 'न कृतो व्यूहो विशिष्टस्तर्को निमित्तकारणविनाशेऽपि कार्यस्थितिरूपो यैरि'त्यर्थमभिप्रेति। 'निमित्तापाये नैमित्तिकस्याप्यपायः' इति यावत्। सूत्थितादिञि वृद्धौ दीर्घनिवृत्तौ सावुत्थितिर्मा भूदिति समर्थानामिति। लोकन्यायसिद्धश्चायमर्थः। तथा हि लोके निमित्तं द्विविधं दृष्टङ्कार्यस्थितौ नियामकं तदनियामकञ्च। आद्यं यथा न्यायनयेऽपेक्षाबुद्धिः, तन्नाशे द्वित्वनाशाभ्युपगमात्। वेदान्तिनये प्रारब्धस्य विक्षेपस्थितिनियामकत्वं च प्रसिद्धमेव। द्वितीयं यथा दण्डादि, तन्नाशेऽपि घटनाशादर्शनात्। शास्त्रे लक्ष्यानुरोधाद् व्यवस्था। भाविनिमित्तविनाशे पूर्वमनुत्पत्तौ तु न कश्चिन्न्यायो नापि सम्प्रतिपन्नो दृष्टान्तः। समर्थानामित्यस्यापि लोकसिद्धार्थज्ञापनेन चारितार्थ्यसम्भवे लोकासिद्धापूर्वतावशार्थज्ञापकत्वे मानाभाव इति तदाशय इति बोध्यम्। परे तु 'सेदुष' इत्यादौ पदावधिकेऽन्वाख्याने 'सेद् वस् अस्' इति स्थिते इट्-सम्प्रसारणयोः प्राप्तौ प्रतिपदविधित्वात्पूर्वं सम्प्रसारणे वलादित्वाभावादिटः प्राप्तिरेव नेति तत्सिद्धिरिति स्पष्टं 'समर्थानाम्' इति सत्र कैयटे 'असिद्धवत्' सूत्र कैयटे च स्पष्टमेतत्। यद्यपि प्रतिपदविधित्वमनवकाशत्वे सत्येव बाधकत्वे बीजम्, तथापि पूर्वप्रवतौ सावकाशत्वेऽपि नियामकं भवत्येवेति तदाशयः। निरूपितं चैतद्बहुशः शब्देन्दुशेखरादौ। 'समर्थानाम्' इति सूत्रस्थसमर्थग्रहणन्तु 'विषुण' इत्यादावकृतसन्धेः प्रत्ययदर्शनेन सर्वत्र तथा भ्रमवारणाय न्यायसिद्धार्थानुवाद एव। ध्वनितं चेदं 'विप्रतिषेध'सूत्रे भाष्ये। तत्र हि 'वैक्षमाणिरित्यन्तरङ्गपरिभाषोदाहरणमुक्तम्। किञ्च विभज्यान्वाख्याने 'सु उत्थित अस् इ' इति स्थिते 'वार्णादाङ्गं बलीय' इति प्राप्तवृद्धिवारणाय समर्थग्रहणमित्यत्रैव कैयटे स्पष्टम्। अत एव असिद्धवत्सत्रे वसुसम्प्रसारणमज्विधौ सिद्धं वक्तव्यं 'पपुष' इत्यादौ वसोः सम्प्रसारणे कृते आतो लोपो यथा स्यात् इति भाष्ये उक्तम्। पदस्य विभज्यान्वाख्याने पूर्वोक्तकैयटरीत्या पूर्वं सम्प्रसारणे इटोऽप्राप्तावुसनिमित्तक एवाऽऽतो लोप इति तदाशयः। अन्यथाऽन्तरङ्गत्वादिटि तन्निमित्तक एवाऽऽतो लोप इति तदसङ्गतिः। अत एव 'चौ प्रत्यङ्गस्य प्रतिषेध' इति वचनं वार्त्तिककृतारब्धं भाष्यकृता च न प्रत्याख्यातम्। प्रत्यङ्गमन्तरङ्गम्। अस्यां परिभाषायां सत्यां तु तद्वैयर्थ्यं स्पष्टमेव। अत एव 'च्छ्वोः' इति सूत्रे 'अवश्यमत्र तुगभावार्थो यत्नः कार्योऽन्तरङ्गत्वाद्धि तुक् प्राप्नोती'ति भाष्ये उक्तम्। एतत्सत्त्वे तु तुकोऽप्राप्त्या यत्नावश्यकत्वकथनमसङ्गतमिति स्पष्टमेव। न चैतदनित्यत्वज्ञापनार्थमेव तदिति तदाशयः, अवश्यमत्रेत्यक्षरस्वारस्यभङ्गापत्तेः। किञ्चानयैव 'प्रत्ययोत्तरपदयोश्च' 'अदो जग्धिर्ल्यप्तिकिती'त्यनयोर्चारितार्थ्येन तज्ज्ञापकवशाल्लुक्ल्यपोरन्तरङ्गबाधकता भाष्योक्ता भज्येत। किञ्चैषा भाष्ये न दृश्यते। तदुक्तम् 'असिद्धवत्' सूत्रे कैयटेन 'निमित्तापाये नैमित्तिकस्याप्यपाय इति परिभाषाया भाष्यकृताऽनाश्रयणादिति। पदसंस्कारपक्षे 'हरिरि'त्यादौ विसर्गे कृते ततो गच्छतीत्यादिसम्बन्धे 'हरिः गच्छती'त्याद्येव साधु। तद्विषये पदसंस्कारपक्षानाश्रयणं वेति दिक्॥५६॥

 

कामाख्या

ननु सदेर्लिटः क्वसौ, द्वित्वैत्वाभ्यासलोपेषु सत्सु पूर्वोपस्थितनिमित्तकत्वेनान्तरङ्त्वादिटि पश्चात् संप्रसारणेऽपि इटः स्थानिकयणः श्रवणापत्तिरत आह नन्वेवमितिकेचित्। दीक्षितादयः। अध्याहारइति।यथाश्रुतपरिभाषार्थे शास्त्राणां वैयर्थ्यापत्तिरिति भावः। फलितार्थमाह बहिरङ्गेणेत्यादिअन्यथा। परिभाषाया अभावे। ज्ञापिते चारितार्थ्यमाह तत्र हीति। स्वविषये चारितार्थ्यं विघटयति चेति।तन्निमित्तेति। दीर्घनिमित्तभूतस्य ह्रस्वसवर्णाचो विनाशाभावः। तद्द्वारैव एकादेशविनाशद्वारैव। तथा चायं परिभाषार्थः - बहिरङ्गेण अन्तरङ्गनिमित्तविशिष्टविनाशे संभाविते पूर्वमन्तरङ्गन्न प्रवर्तत इति। वै. स्वप्रतियोगिकत्व स्वस्थानिकादेशप्रतियोगिकत्वान्यतरसम्बन्धेन। सेयुष इत्यत्र निमित्तविनाशे स्वप्रतियोगिकत्वम्, सौत्थितादौ स्वस्थानिकादेशप्रतियोगिकत्वमिति बोध्यम्। पुनरपि समर्थग्रहणस्य ज्ञापकत्वं विघटयति चेति। न च जातस्य समकालप्राप्तस्य वा बहिरङ्गस्यैव तयाऽसिद्धत्वं बोध्यते, न तु भविष्यत्प्राप्तिकस्येति कथमत्रासिद्धत्वमिति वाच्यम्। पदस्य विभज्यान्वाख्यानमिति पक्षे सु उत्थित इ इति स्थिते दीर्घवृद्ध्योः समकालप्राप्तिकत्वेन बहिरङ्गतयाऽसिद्धायां वृद्धौ सर्वदैवासिद्धत्वबुद्धिरित्याशयात्। समर्थग्रहणेनेति। यावता विनानुपपत्तिरिति न्यायेन उभयोरपिज्ञापनमिति भावः। एतद्विषये = अकृतव्यूहपरिभाषाविषये।तस्याः = अन्तरङ्गपरिभाषायाः। अनित्यत्वमेवेति। तथा सति सूत्थितशब्दे दीर्घस्य प्रथममप्रवृत्त्याऽकृतसन्धेः प्रत्ययवारणार्थं समर्थग्रहणं सार्थकमिति भावः। तस्य = बहिरङ्गस्य। तत्त्वं = असिद्धत्वम्। मानाभावात् = परिभाषाज्ञापनेन तथैव लाभात्। एवंचेति। अन्तरङ्गपरिभाषाया उक्तार्थस्थितौ च। ज्ञापनासंभवादिति। नात्र परिभाषाधीना दीर्घप्रवृत्तिर्येनानित्यत्वात्तदप्रवृत्तौ अप्राप्तदीर्घप्रवृत्यर्थं समर्थग्रहणं चरितार्थं स्यादिति भावः। अकृतव्यूहपरिभाषास्वीकारे लाघवमाहअन्तरङ्गानपीति। गोमत्प्रिय इत्यादौ हल्ङ्यादिलोपस्य नुमादेर्वा निमित्तस्य सामासिकलुका विनाशोन्मुखत्वात्तेषां पूर्वमप्रवृत्तिरिति भावः। एवं प्रदायेत्यत्र निमित्तस्य तादिकित्वस्य ल्यपा विनाशभावित्वात् पूर्वमप्रवृत्तिः।

ननु सूत्थितौ साक्षान्निमित्तविनाशाभावेन अस्या अप्रवृत्तिरत आह एतत्प्रवृत्ताविति। यद्यन्तरङ्गं पूर्वं न प्रवर्तेत तदा बहिरङ्गेणान्तरङ्गनिमित्तविनाशः स्यादिति संभावना। अतएव = संभावनाया निमित्तत्वादेव। अन्यथा = संभावनाया निमित्तत्वाभावे। लोपस्यैवेति। निमित्तविनाशस्य भावित्वाभावेन प्रकृतपरिभाषाया अप्राप्तेः। तथा सति प्रत्ययलक्षणेन नुमादयः स्युरिति भावः। ननु परिभाषास्वीकारे संभावनाया निमित्तत्वे च 'अल्लोपोऽन' इति सूत्रे तपरकरणं व्यर्थमत आह अल्लोपइति। अनतेः क्विपि, 'अनुनासिकस्ये'ति दीर्घे, शसि आन इति रूपम्। अन्यथा = अनित्यत्वाभावे। लोपसंभावनयेति। यदि दीर्घो न स्यात्तर्हि लोपः स्यादिति संभावनायाः सत्वेन दीर्घाप्राप्तौ सत्यपि तपरकरणे लोपप्राप्त्या तपरकरणं व्यर्थमिति भावः। न च दान् शान् धातुभ्यां क्विपि, दानः शान इत्यत्र लोपाभावाय तपरकरणं चरितार्थमिति वाच्यम्। तयोश्चुरादित्वेन नित्यण्यन्ततया णिलोपस्य स्थानिवत्वात्। कैयटादिसम्मतार्थान्तरमाह समर्थानामित्यादिना। एतत्पक्षे समर्थपदस्य स्वांशे चारितार्थ्यमाह सूत्थितादिञीतिसावुत्थितिर्माभूदिति। न च कृतदीर्घात् सूत्थितशब्दादिञि दीर्घरूपादेशस्य वृद्धावपि न तया दीर्घनिमित्तविनाशः, दीर्घेणैव निमित्तविनाशस्य कृतत्वात्। अथवा नैमित्तिकस्य दीर्घस्य वृद्ध्यैव विनाशात् परिभाषया तद्विनाशस्याशक्यत्वादिति वाच्यम्। दीर्घनिमित्तस्य सवर्णाच्त्वस्यैकादेशेऽपि सत्वाद्वृद्ध्यैव तस्य विनाशात् । परिभाषया विनाशविनाशे पूर्वस्थितौ आद्यचो वृद्धावादेशे तथापत्तेः। कैयटसम्मतपरिभाषार्थस्य ज्ञापनानपेक्षत्वेन लाघवमपीत्याह लोकन्यायेतिकार्यस्थितिनियामकं। यावन्निमित्तं तिष्ठति तावत्कार्यं तिष्ठति। अपेक्षाबुद्धिः। अयमेकः अयमेकः इमौ द्वौ इत्याकराबुद्धिः। अत्र निमित्तभूतापेक्षाबुद्धिनाशान्नैमित्तिकस्य द्वित्वस्य नाशो दृष्टः।वेदान्तनये। संचितप्रारब्धभेदेन कर्म द्विविधम्। तयोर्यत्फलप्रदानोन्मुखं न तत्संचितम्। यत्तदुन्मुखं तत्प्रारब्धम्। तत्राद्यस्य ब्रह्मसाक्षात्कारेण नाशः। द्वितीयस्य तु भोगादेव क्षयः। तद्यावदस्ति तावद्भोगात्मकः संसारस्तस्य नाशे संसारनाश इति हि वेदान्तमतम्। विक्षेपः = संसारः। ननु लोके तथाऽस्तु शास्त्रे वैपरीत्यं कुतो नेत्यत आह शास्त्रेइति। तथा च लक्ष्यानुरोधात् क्विचित्कारणनिवृत्तौ कार्यनिवृत्तिः क्वचित्कार्यानिवृत्तिश्च प्रसिद्धैव। कश्चिन्नायइति। न च प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरमिति न्यायो लोके दृश्यत इति वाच्यम्। अनेन न्यायेन कार्यं कृत्वा पश्चात्तस्य निवर्तनापेक्षया कार्याकरणे लाघवमित्येव प्रतिपादनात्। संप्रतिपन्नइति। वादिप्रतिवादिसम्मतः। वस्तुतस्तु सामान्येन निमित्तविनाशस्य कार्यनाशनियामकत्वे मानाभावाद् दृष्टान्तासिद्धेः दीक्षितोक्तम्तदपेक्षया सम्यगिति। ननु ज्ञापकसिद्धेऽर्थे नास्ति दृष्टान्ताद्यपेक्षेत्यत आह समर्थानामितितदाशयः = कैयटाशयः। परिभाषाम्विनापि सर्वदोषपरिहारः स्वमतेनाह परेत्वितिपदावधिकेऽन्वाख्याने = पदं विभज्य साधुत्वान्वाख्याने। पदस्य विभागपूर्वकस्थापनं कृत्वा साधुत्वान्वाख्यान इतियावत्। ननु क्रमेण लक्ष्यानुरोधादिति भावः। प्रतिपदविधित्वादिति।'वस्वेकाजादि'त्यत्र कृतद्विर्वचनैकाचोऽपेक्षितत्वेन द्वित्वादितः पूर्वं नास्य प्रवृत्तिरिति तस्य विलम्बोपस्थितिकत्वम्, संप्रसारणस्य तु द्वित्वादिनिरपेक्षत्वेन शीघ्रोपस्थितिकत्वमिति नोभयोः वसुशब्दापेक्षत्वेन प्रतिपदोक्तत्वं श्क्यमति भावः। केचित्तु उभयोः प्रतिपदविधित्वेऽपि संप्रसारणस्य कृताकृतप्रसंगित्वेन नित्यत्वात्पूर्वं प्रवृत्तौ वलादित्वाभावादिट् नेत्याहुः। बाधकत्वेबीजमिति। इदन्तु विदुष इत्यादौ सावकाशमिति भावः। तदाशयः = कैयटाशयः। नन्वेवं समर्थग्रहणानर्थक्यमत आह समर्थानामितिविषुणइति। अत्र विष्वगित्युत्तरपदलोपश्चाकृतसन्धेरिति वार्तिकात् विषु अच् इत्यवस्थायां न प्रत्यये, अच् शब्दस्य लोपः। तथाभ्रमवारणाय। अकृतसन्धेरेव प्रत्ययो भवतीति भ्रमवारणाय। ध्वनितंचेदम्। न्यायसिद्धार्थानुवादत्वं ध्वनितमिति भावः। एवं च समर्थग्रहणस्य प्रत्याख्याने एव भाष्यतात्पर्यमिति तत्त्वम्। तदेवाह तत्रहीति। वि ईक्षमाणा इति स्थितेऽन्तरङ्गत्वात् सवर्णदीर्घे, ततोऽपत्ये इञि, वृद्धौ, वैक्षमाणिरिति भाष्याशयः। कृतसन्धिकार्यात् प्रत्ययोत्पत्यर्थं समर्थग्रहणं चेत्तर्हि एकादेशस्यान्तरङ्गत्वाधीनत्वकथनमसंगतं स्यात्। वार्ण्यपरिभाषाप्रवृत्तिमभ्युपेत्याह किञ्चेति। एवं च समर्थग्रहणस्य सार्थकत्वेन न ज्ञापकत्वम्। वार्णपरिभाषाया अनित्यत्वे तु समर्थग्रहणस्य प्रत्याख्यानमेव युक्तमिति तदाशयः। अतएव = पदविभज्यान्वाख्यानस्य स्वीकारादेव। पूर्वोक्तकैयटेति। प्रतिपदविधेर्बलवत्वमिति कैयटरीत्या। तदाशयः = भाष्याशयः। अन्यथा= पदविभज्यान्वाख्यानानङ्गीकारे। तदसंगतिः = वसुसंप्रसारणमिति वार्तिकाद्यसंगतिः। अतएवेति = अकृतव्यूहपरिभाषाया असत्त्वादेव। चौप्रत्यङ्गस्येति। चौ लुप्ताकारनकारेऽञ्चतौ। प्रसङ्गस्य = अन्तरङ्गस्य। अत एव = अस्या असत्वादेव। एतत्सत्वेतु। परिभाषासत्त्वे तु। यन्नेति। यत्तश्च 'छ्वो'रिति सूत्रे सतुङ्निर्देशः। तदनित्यत्वेति। परिभाषाऽनित्यत्वेत्यर्थः। अवश्यमत्रेति। तुको निवर्तकोपायस्य सर्वथाऽभावे तथा कथनौचित्यमिति भावः। ननु प्रकृतिप्रत्ययापत्तिवचनेन अस्या अनित्यत्वेन वांछ धातोः क्विपि, शादेशाभावाय यत्नावश्यकत्वं न तु परिभाषाया अभावेनेत्यत आह किञ्चति। ननु अकृतव्यूहापरिभाषाज्ञापनद्वारैव तयोर्ज्ञापकता भाष्याभिप्रेतेत्यत आह किञ्चैषेति। ननु परिभाषाया अभावे पदसंस्कारपक्षेहरिः गच्छतीत्यस्याप्यापत्तिरत आह पदसंस्कारेति। ननु तथा प्रयोगादर्शनमत आह तद्विषयेइति। न च परिभाषाऽभावे तस्थौ सस्नावित्यादौ टवर्गश्रवणापत्तिरिति वाच्यम्। स्थादिष्वभ्यासस्येत्यादिनिर्देशेन त्रैपादिककार्यप्रतिबन्धकसपादसप्ताध्यायीस्थकार्यप्रवृत्तियोग्यतायां त्रैपादिकस्याप्रवृत्तिरिति कल्पनेनादोषात्। अहिरहिर्बुध्यस्व वृक्षो वृक्षः सिच्यते इत्यादौ पूर्वत्रासिद्धीयमद्विर्वचने इत्यस्य नित्यत्वेन पूर्वं द्वित्वे ततो रुत्वादिरिति न परिभाषोपयोगः। वस्तुतस्तु अनेकवचनकल्पनापेक्षया परिभाषारूपानुगतैकवचनकल्पनायां लाघवम्। अत एव वैभाजित्रमिति सिध्यति। अन्यथाऽन्तरङगत्वादयादेशे पश्चाद्विभाजयितुर्णिलोपश्चाञ् च वक्तव्य इति णिलोपेऽपि रूपासिद्धेः। अत एव वसुसंप्रसारणमज्विधौ सिद्धं वक्तव्यमिति वार्तिकं संगच्छते। अन्यथा अन्तरङ्गत्वादि हि तन्निमित्तक एवातो लोपसिद्धेः विष्वगिति वार्तिकेऽकृतसन्धेरित्युक्त्या विषुण इत्यत्राकृतसन्धेः प्रत्ययोत्पत्तिसंभवेऽपि अन्यत्र तथोत्पत्तौ मानाभावेन समर्थग्रहणस्य वैयर्थ्यापत्तेरिति दिक्॥५६॥

परिभाषार्थमञ्जरी

अन्तरङ्गत्वाद्दीर्घे कृत इति। पूर्वोपस्थितिनिमित्तकत्वमन्तरङ्गत्वम्[1]। कानि सन्तीत्यादाविवात्रापि बोध्यम्। न तु परिभाषयेतिभावः। इदमनुपदं मूले एव स्पष्टम्। समकालप्राप्तबहिरङ्गस्येति। सु उत्थित इत्यवस्थायां कृतसन्धेरभावात् प्रत्ययोत्पत्त्यभावेन तन्निमित्तकवृद्धेरप्यप्राप्त्या पूर्वोपस्थितनिमित्तकत्व-रूपान्तरङ्गत्वमादाय दीर्घे कर्त्तव्ये समानकाल प्राप्त्यभाव इति भाव:। अत एव लौकिकन्यायस्याप्यत्रानवसरः। पदसंस्कारमनभ्युपेत्येदम्। तदाश्रयणे तु वार्णपरिभाषया वृद्धेः प्राबल्ये तत्प्राप्तौ समर्थग्रहणस्य सार्थक्येन ज्ञापकत्वभङ्गापत्तेः। अन्तर्भाव इति। स्पष्टञ्चेदम् 'अचः परस्मिन्नि'ति सूत्रे शब्दकौस्तुभे। प्रतिपदविधित्वादिति[2]वस्वेति सूत्रार्थोपस्थित्यपेक्षया वसोः संप्रेत्यस्यार्थस्य शीघ्रोपस्थितेः [3]सर्व्वानुभवसिद्धत्वादितिभावः। भाष्यकृतानाश्रयणादिति। ननु निमित्तापायपरिभाषाया अनाश्रयणे तस्थावित्यादौ न धात्वादेरित्यादिना सत्वादिप्रवृत्तौ ष्टुत्वादिनिवृत्तिर्न स्यात्। न च तदाश्रयणे लब्धा जीविका येनेति बहुब्रीहौ 'गोस्त्रियो'रिति ह᳙स्वे, आपो निवृत्ते इत्वस्यापि निवृत्त्या इत्वघटितप्रयोगासंगतिरिति वाच्यम्। एनीशब्दात् 'स्त्रिभ्यो ढक्' इति ढकि प्रत्यये 'यस्येती'तीकारनिवृत्तौ सिन्नियोगशिष्टानामिति नकारनिवृत्तिमाशङ्क्य 'अचः परस्मिन्नि'ति सूत्रस्थविधिग्रहणस्य[4] भावसाधनतामङ्गीकृत्यपूर्व्वस्य विधौ स्थितौ कर्त्तव्यायां स्थानिवदित्यर्थे नकारस्यावस्थितिकरणवत्। लब्धा चासौ जीविका चेति कर्मधारयोत्तरम् अर्श आद्यचि यस्येति टापो निवृत्तौ ईकारस्य स्थितौ कर्तव्यायां स्थानीवत्वप्रवृत्त्या तत् स्थितिकरणेनादोषादिति चेन्न। सपादसप्ताध्यायिस्थकार्य्यप्रवृत्तियोग्यतायां ष्टुत्वाद्यप्रवृत्तेः तस्थावित्यादीनां निर्बाधत्वात्। एवञ्च लब्धजीविका इत्यादावपि न क्लिष्टकल्पनेत्यपरमनुकूलम्। अकृत्व्यूहपरिभाषायाः स्वीकारे अन्तरङ्गानपि विधीन् बहिरङ्गो लुक् ल्यप् च बाधते इति ज्ञापकपरभाष्यविरोधवत् निमित्तेति परिभाषास्वीकारेऽपि तस्य जागरूकत्वात् सर्व्वथा तदभावेऽपि कल्पनीय इति दिक्॥५६॥

[1]निमित्तकत्वरूपमन्तरङ्गम् इति के,गे

[2]ननु वस्वेकाजादघसामिति इति इडिधायकसूत्रे वसूशब्दोपात्तत्वाद् वसोः सम्प्रसारणम् इति सूत्रे च वसूशब्दस्यैवोपात्तत्वाद् एवं च प्रतिपदविधेस्तुल्यत्वात् कथं पूर्वं सम्प्रसारणमितियाशङ्कायामाह वस्वैकेति। पूर्वं षड् धातुरनिकटकः ततोऽस्य इड्भवत्येतदर्थे कृसूभृ इति सूत्रे च यावान् प्रकृत्याश्रय इत्याकारको नियमः तज्ज्ञानं ततो वस्वेकाजित्यस्यानुवादत्वे ज्ञानं ततो विधित्वमिति गे

[3]असवर्णानुभवसिद्धत्वादिति भावः इति के

[4]विधिशब्दस्य इति गे