अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति।
ननु 'वा छन्दसि' इत्यनेन 'सेर्ह्यपिच्च' इत्यनन्तरस्यापित्त्वस्येव हेरपि विकल्प स्यात्। तथा 'नेटी'ति निषेधोऽनन्तरहलन्तलक्षणाया इव सिचिवृद्धिमृजिवृद्ध्योरपि स्यात्। अत उक्तन्यायमूलकमेवाह -
अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति।६२।
अत एव 'संख्याव्ययादेः' इति ङीब्ग्रहणं चरितार्थम्। तद्ध्यनन्तरस्य ङीषो विध्यभावाय। 'न क्तिचि' इति सूत्रे दीर्घग्रहणञ्च चरितार्थम्। तद्ध्यनन्तरस्य 'अनुदात्तोपदेश' इत्यस्यैव निषेधाभावाय। मध्येऽपवाद-न्यायाद्यपेक्षयानन्तरस्येति न्यायः प्रबल इति 'अष्टाभ्य' इति सूत्रे कैयटः। प्रत्यासत्तिमूलकोऽयम्। लक्ष्यानुरोधाच्च व्यवस्थेत्यपि पक्षान्तरम्। तत्र तत्र क्वचित् स्वरितत्वप्रतिज्ञासामर्थ्येन बाध्यतेऽयं न्यायः। 'टिड्ढ' इति सूत्रेण डापा व्यवहितस्यापि ङीपो विधिः। 'न षट्' इत्यादिना द्वयोरपि टाब्ङीपोः प्रतिषेधः। इयञ्च 'शि सर्वनामस्थानम्' इत्यादौ भाष्ये स्पष्टेत्यन्यत्र विस्तरः॥६२॥
कामाख्या
ङीषो विध्यभावायेति। न च ङीषोऽनुवृत्तौ सूत्रवैयर्थ्यापत्त्या व्यवहितङीप एवानुवृत्तिर्भविष्यतीति स्वांशे चारितार्थ्यं नेति वाच्यम्। ङीषोऽनुवृत्तावपि। ऊधः शब्दान्तात् परिच्छेदकादेश्चेत् संख्यादेरेव, असत्ववाचकादेर्न्निरुक्तबहुव्रीहेश्चेदव्ययादेरेवेति सूत्रस्य निमायकत्वेन आढकोघ्नी अग्रेवणोध्नीत्यादौ ङीषभावाय सूत्रस्य सार्थक्यात्॥६२॥
नास्ति