प्रकल्प्य चापवादविषयं तत उत्सर्गोऽभिनिविशते
लक्ष्यैकचक्षुष्कस्तु तच्छास्त्रपर्यालोचनं विनाप्यपवादविषयं परित्यज्योत्सर्गेण लक्ष्यं संस्करोति, तस्यापि शास्त्रप्रक्रियास्मरणपूर्वकप्रयोग एव धर्मोत्पत्तेः, तदाह –
प्रकल्प्य चापवादविषयं तत उत्सर्गोऽभिनिविशते।६४।
तत इत्यस्यापवादशास्त्रपर्यालोचनात् प्रागपीत्यर्थः। प्रकल्प्येत्यस्य परित्यज्येत्यर्थः। अत एव प्रातिपदिकार्थसूत्रे भाष्ये ‘इदं द्वयमप्युक्त्वा न कदाचित्तावदुत्सर्गो भवत्यपवादं तावत् प्रतीक्षत इत्यर्थकमुक्तम्॥६४॥
कामाख्या
लक्ष्यैकचक्षुष्क इति। लक्ष्यसाधुत्वं शास्त्रमन्तरेणैव जानन्। ननु तस्य तर्हि उत्सर्गशास्त्रापेक्षा कुत इत्याह तस्यापीति। एकः शब्दः सम्यग् ज्ञातः शास्त्रान्वितः स्वर्गे लोके च कामधुग् भवतीति भाष्यात्॥६४॥
नास्ति।