Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

अपवादो यद्यन्यत्र चरितार्थस्तर्ह्यन्तरङ्गेण बाध्यते


ननु 'अयजे इन्द्रम्' इत्यादावन्तरङ्गस्यापि गुणस्यापवादेन सवर्णदीर्घेण बाधः स्यात्, अत आह –

अपवादो यद्यन्यत्र चरितार्थस्तर्ह्यन्तरङ्गेण बाध्यते।६६।

निरवकाशत्वरूपस्य बाधकत्वबीजस्याभावात्। एवञ्च प्रकृतेऽन्तरङ्गेण गुणेन सवर्णदीर्घः समानाश्रये चरितार्थो यण्गुणयोरपवादोऽपि बाध्यते। पूर्वोपस्थिति-निमित्तत्वरूपान्तरङ्गत्वविषय इदम्। यत्तु आगमादेशयोर्न बाध्यबाधकभावः, भिन्नफलत्वात्; अत एव 'ब्राह्मणेभ्यो दधि दीयतां कम्बलः कौण्डिन्याये'त्यादौ कम्बलेन न दधिदानबाध इति 'च्छ्वोः' इति सूत्रे कैयटः, तन्न। अपवादो नुग्दीर्घत्वस्येति 'दीर्घोऽकितः' इति सूत्रभाष्यविरोधात्॥६६॥

 

कामाख्या

अपवादेनसवर्णदीर्घेणेति। न च आतीदित्यादौ यणि कर्तव्ये सिज्लोपस्यासिद्धत्वेन यणोऽप्राप्त्या तत्र सवर्णदीर्घस्य चारितार्थ्यमति वाच्यम्। 'सिज्लोप एकादेश' इति वार्तिके एकादेशपदं यणोऽप्युपलक्षणमिति स्वीकारेणापवादत्वस्य सुवचत्वात्। 'इट ईटि दीर्घ' इति न्यासेन सिद्धे 'अकः सवर्ण' इति सामान्यसूत्रकरणे न यण्गुणापवादत्वस्य वक्तुं शक्यत्वाच्च। बीजस्याभावादिति। अन्तरङ्गपरिभाषामबाधित्वैव येन नाप्राप्तिन्यायेन अचि अगव्यवहितोत्तरत्वविशिष्टसवर्णाज्भिन्नत्वेन संकोचेऽपि अयज इ इन्द्रमित्यादौ अन्तरङ्गगुणस्य प्रवृत्तिरव्याहतैवेति भावः। तदेवोपपादयति। एवंचेति ॥६६॥

नास्ति।