Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

क्तल्युट्तुमुन्खलर्थेषु वाऽसरूपविधिर्नास्ति


नन्वेवम् 'हसितं छात्रस्य हसनम्' इत्यादौ घञ्, 'इच्छति भोक्तुम्' इत्यत्र लिङ्लोटौ, 'ईषत्पानः सोमो भवता' इत्यत्र खल् प्राप्नोतीत्यत आह –

 क्तल्युट्तुमुन्खलर्थेषु वाऽसरूपविधिर्नास्ति।६९।

इदं च वासरूपविधेरनित्यत्वात् सिद्धम्। तदनित्यत्वे ज्ञापकं च 'अर्हे कृत्यतृचश्च' इति। तत्र हि चकारसमुच्चितलिङा कृत्यतृचो बाधो मा भूदिति कृत्यतृज्ग्रहणं क्रियत इत्यन्यत्र विस्तरः। वासरूपसूत्रे भाष्ये स्पष्टैषा॥६९॥

 

कामाख्या

ननु ताच्छीलिकेष्वेव वासरूपविधेरनित्यत्वाङ्गीकारे छात्रस्य हसितमित्यादौ वासरूपविधिना घञादय स्युरित्याशयेन शङ्कते। नन्वेवमितिलिङ्लोटाविति। इच्छार्थेष्विति विहितौ। कृत्यतृचोर्बाधेति। वासरूपविधेर्नित्यत्वे हि बाधेऽपि पक्षे कृत्यतृचोः सिद्धेस्तयोर्वैयर्थ्यं स्पष्टमेवेति भावः। एवं च वासरूपविधेरनित्यत्वादेवोभयोः परिभाषयोः सिद्धौ पृथग् ज्ञापनं प्रपञ्चार्थमिति ध्येयम्॥६९॥

नास्ति।