विभक्तौ लिङ्गविशिष्टाग्रहणम्
नन्वेवं 'यूनः पश्येत्यत्रेव 'युवतीः पश्ये'त्यत्रापि 'श्वयुव' इति सम्प्रसारणं स्यादत आह - विभक्तौ लिङ्गविशिष्टाग्रहणम्।७३।
स्पष्टा चेयं 'युवोरनाको'रित्यत्र भाष्ये। घटघटीग्रहणेन लिङ्गविशिष्टपरिभाषाया अनित्यत्वात्तन्मूलैवेत्यन्ये॥७३॥
कामाख्या
ननु स्त्रीप्रत्ययविशिष्टे प्रातिपदिकत्वतद्वाप्यधर्मातिदेशे युवतीः पश्येत्यत्र ति प्रत्ययान्ते प्रातिपदिकत्वव्याप्ययुवन् शब्दत्वस्यानया विशिष्टेऽतिदेशे 'श्वयुवे'ति संप्रसारणापत्तिरित्याशयेनाह नन्वेवमिति। न च मघवत इत्यादौ संप्रसारणत्ववारणाय श्वादीनां संप्रसारणे नकारान्तग्रहणमनकारान्तप्रतिषेधार्थमिति वार्तिकस्य अतोऽनुवृत्तिं प्रदर्श्य प्रत्याख्यानं भगवता कृतन्तेनान्नन्तस्यैव संप्रसारणं विधीयते। अन्नन्तत्वं च न प्रातिपदिकत्वव्याप्यमित्यवतरणसंगतरिति वाच्यम्। गोमती यवमतीत्यादौ नुम्वारणायावश्यं कर्तव्यतयैवोक्तपरिभाषया युवतीरित्यत्र सम्प्रसारणवारणे एतदर्थं 'श्वयुवे'त्यत्रात इत्यस्य सम्बन्धेऽनावश्यकतेत्याशयात्। एवं सुपथी सखीत्यादावात्वणिद्वद्भावाभावोऽनयैव साध्यः। विभक्तिनिमित्तककार्यकर्तव्ये लिङ्गबोधकप्रत्ययविशिष्टस्य ग्रहन्नेति परिभाषार्थः। अत्र मानमाह स्पष्टा चेयमिति। एवं च भाष्यप्रामाण्यादेषा कल्प्यते। नत्वत्र ज्ञापकापेक्षा। मानान्तरमाह घटघटीति॥७३॥
परिभाषार्थमञ्जरी
युवतीः पश्येत्यत्रापीति। ननु 'श्वयुवे'ति सूत्रे युवतीः पश्येत्यत्र लिङ्गविशिष्टपरिभाषया मघवतेत्यत्र च संप्रसारणमाशङ्क्य स्वादीनां संप्रसारणेन अकारान्तग्रहणम् अनकारान्तप्रतिषेधार्थमिति समाधायोक्तं युक्तमेतत्। 'अर्वणस्तृमघोनश्च न शिष्यं छान्दसं हि तत्'। विभक्तौ लिङ्गविशिष्टाग्रहणेन चोभयत्र समाधायोक्तम्। अथवोत्तरसूत्रे 'अल्लोपोऽन' इत्यतोऽन[1] इति योगविभागं कृत्वोभयशेषविज्ञानेनादोषे श्वादीनामिति पूर्वोक्तं वार्त्तिकं न कर्त्तव्यम्। एवञ्च युवती: पश्येत्यत्रान्नन्तत्वाभावेन प्राप्तिरेव नेति चेन्न। यवमती, गोमती पथीत्यादौ लिङ्गविशिष्टपरिभाषाप्राप्त्या 'उगिदचामि'ति नुम्। [2]पथीत्यात्वादीनां वारणायावश्यं कर्त्तव्यतया परिभाषया एव गतार्थत्वादित्याशयात्। मधवदादीनां छान्दसत्वेन तत्र सर्वविधीनां व्यवस्थितत्वात् सिद्धिः। नकारान्तग्रहणं कर्त्तव्यमिति भाष्यं योगविभागपरञ्च पूर्व्वोक्तसूत्रस्थं भाष्यं त्त्वेकदेश्युक्तम्। एवमेकदेशविकृतमनन्यवदिति न्यायमुपन्यस्य ऋलृक् सूत्रे 'राज्ञः क चे'ति कादेशे राजकीयमित्यत्राल्लोपोऽन इत्यल्लोपं पूर्व्वोक्तन्यायेनाशङ्क्य पूर्वसूत्रोपसंख्यानात् नकारान्तग्रहणानुवृत्त्या न दोष इति दोषोद्धारणञ्च[3] भाष्यमेकदेश्युक्तमेव विकृतावयवनिबन्धनकार्य्याभावस्यान्यत्र स्पष्टत्वेनादोषाच्च। यत्तु श्वयुवेत्यत्र शेखरे उत्तरसूत्रादन इत्यपकृष्यते तेन मघवतेत्यत्र न दोष इत्युक्तम्। तच्च प्राचामनुरोधेन। अत्रैव सूत्रे मघवच्छब्दस्य छान्दसत्वं शब्दरत्नादौ स्पष्टम्। युवतीः पश्येत्यत्र प्रकृतपरिभाषया संप्रसारणवारक'युवोरनाका'विति सूत्रस्थभाष्येण इदं सर्वं सूचितम्। तद्भाष्यप्रामाण्यादेव परम्परया विभक्तिनिमित्तकत्वेऽपि परिभाषाप्रवृत्तिरिति। एवं शुनेत्यत्र 'सावेकाचस्तृतीयादिर्विभक्ति'रिति विभक्त्युदात्तत्वं यथा 'न गोऽश्वसाववर्ण' इत्यनेन प्रतिषिध्यते तथा शुन्या इत्यत्र 'उदात्तयणो हाल्पूर्वादि'ति विभक्तिस्वरस्यापि न 'गोश्वन्नि'ति प्रतिषेधः स्यादिति परिभाषाप्रयोजनावसरे भाष्यकृदुदाहरणाद्विभक्तिस्थानिकेऽपि कार्य्ये परिभाषाया प्रवृत्तिः सुवचा। तत्रापि विभक्तेर्य्यत्र कार्यप्राधान्यं तत्रैव कार्य्यप्रवृत्तिरित्यस्माद्भाष्यात्। एतेन पूर्व्वोक्तं भाष्यं विभक्तिस्थानिककार्य्ये परिभाषाप्रवर्त्तकमुपन्यस्यैतेन एकशेषप्रकरणे प्रदीपे स्त्रीगवीनामिति प्रयोगे 'हलन्त्य'सूत्रे मनोरमायां चित्रगवीनामिति प्रयोगे च 'कुमति चे'ति [4]णत्वाभावो व्याख्यातः। कवर्गादुत्तरपदसमासत्वस्य ङीबन्ते लिङ्गविशिष्टपरिभाषालभ्यस्य विभक्तेर्णत्वे कर्त्तव्येऽनया निषेधान्नव्यतराणां तत्र सणत्व पाठमङ्गीकृत्य प्रकृतपरिभाषाया अप्रवृत्तिकल्पना नचित्रीयामुत्पादयितुमर्हति। कृतबुद्धिष्विति कैयटानुयायिनोक्तमपास्तमिति दिक्॥७३॥
[1]इत्यत्रान इति गे
[2]पथीत्वादीनाम् इति गे
[3]दोषोद्धारपरम् गे
[4]णत्वाभावाभावो व्याख्यातः इति गे