नानुबन्धकृतमनेकाल्त्वम्
नन्वेकान्तत्वेऽनेकाल्त्वादेव औशादीनां सर्वादेशत्वसिद्ध्या 'अनेकाल्'सूत्रे शिद्ग्रहणं व्यर्थमत आह -
नानुबन्धकृतमनेकाल्त्वम्॥६॥
शिद्ग्रहणमेवैतज्ज्ञापकम्। तेन 'अर्वणस्तृ' इत्यादेर्न सर्वादेशत्वम्। डादिविषये तु सर्वादेशत्वं विनाऽनुबन्धत्वस्यैव अभावेनानुपूर्व्यात् सिद्धम्॥६॥
कामाख्या
शिद्ग्रहणमिति। ननु आदिश्यत इत्यादेश इति योगमर्यादया बोधस्यैवादेशत्वमिति सिद्धान्ततया औशादिस्थले आदेशस्यानेकाज्त्वाभावेन अनेकालादेशः सर्वस्येत्यर्थकानेकाल्सूत्राप्राप्त्या कथं शिद्ग्रहणं व्यर्थमिति चेदत्र केचित् अनेकाल्बोधकबोध्यः सर्वस्येत्यर्थकरणेनादोषात्। न चैवं लोपादेशस्यापि तथात्वेन सर्वादेशतापत्तिरिति वाच्यम्। 'लुग्वादुहे'ति लुग्विधानसामर्थ्यात् भावरुपबोधकस्यैव ग्रहणेनादोषात्। अन्यथा 'लोपो यी'त्यतो लोपानुवृत्या लोपविधानेनैव सर्वापहारे सिद्धे लुग्विधानवैयर्थ्यं स्पष्टमेव। न चैवमपि अनुस्वारविसर्गरेफाद्यादेशानामनेकालबोधकबोध्यतया सर्वादेशतापत्याऽनेकालित्यस्योक्तार्थाभावे कथंशिद्ग्रहण व्यर्थमिति वाच्यम्। अनेकाल्समुदायवृतिधर्मेण साक्षादवच्छिन्नविधेयताश्रयादेशः सर्वस्येत्यर्थकरणेनादोषात्। केचित्तु औशादौ शकारोच्चारणसामर्थ्याद् भूतपूर्वानेकाल्त्वमादाय सर्वादेशत्वे सिद्धे शिद्द्रहणं व्यर्थं सत् परिभाषाज्ञापकमित्याहुः। केचित्तु विधौ निर्दिष्टो योऽनेकाल् स सर्वस्येति शेखरोक्तरीत्या अनुबन्धघटितबोधकवृत्तिधर्माणां बोध्ये आरोप इति शकारोच्चारणेन ज्ञापकात्। लोपविसर्जनीयादौ अनुबन्धघटितबोधकस्यैवाभावेन दोषाभावाच्छिद्ग्रहणं व्यर्थं सज्ज्ञापकमिति।ज्ञापितायाञ्चास्यामनेकाल्घटकाल्पदेनानुबन्धस्याग्रहणाच्छिद्ग्रहणस्य स्वांशे चारितार्थम्। एवं चा नुबन्धेतराल्विशिष्टत्वमनेकाल्त्वमिति फलितम्। वै. स्वघटितत्व स्वेतरानुबन्धेतराल्घटितत्वोभयसम्बन्धेनेति प्राहुः। अत्रेदं विचार्यते परिभाषायाः फलाभावेन सा व्यर्था शिद्ग्रहणं चव्यर्थम्। सर्वत्रानेकाल्त्वेनैव सिद्धेः। न चैवं त्रादेशस्य ससजुषोरुरिति रुत्वादेशस्य च सर्वादेशत्वापत्तिरिति वाच्यम्। तृङ्रुङिति करणेनादोषात्। 'दिव उदि'त्यत्र तकारस्य प्रयोजनान्तराभावेन 'भाव्यमानोऽप्युकारः सवर्णान् गृह्णाती'ति परिभाषया दीर्घादिविधानेऽपि आन्तरतम्याद्ध्रस्वस्यैव विधानेनादोषात्। न चाक्षद्यूभ्यामित्यत्र स्थानिवत्वेन दिव्शब्दत्वमादाय तत्र दीर्घोकाराभावाय तपरकरणमावश्यकमिति वाच्यम्। निरनुबन्धकपरिभाषयैव दोषवारणसंभवादिति। वस्तुतस्तु स्थानिवत्सूत्रादिस्थशेखरपर्यालोचनया शिद्ग्रहणेनानुबन्धानामल्बोध्यत्वं नेत्येव ज्ञाप्यते ।अत एवानुबन्धकार्येऽनल्विधाविति निषेधो न प्रवर्तते इत्यादि प्रवादः संगच्छते। एतल्लभ्यमेव भाष्ये नानुबन्धकृतमनेकाल्त्वम्, नानुबन्धकृतमनेजन्तत्वम्, नानुबन्धुकृतमसारूप्यमिति। एज्विशिष्टत्वमेवैजन्तत्वम्। वै० स्वघटितत्व स्वध्वंसाधिकरणक्षणवृत्त्यल्घटितत्वोभयसम्बन्धेन। एवं समानाल्वत्वरूपस्य सारूप्यस्य काणोः सत्त्वेन असरूपत्वाभावाद्विकल्पेन बाधासंभवेन नानुबन्धकृतमसारूप्यमिति नापूर्वेति महल्लाघवम्। प्रकृतमनुसरामः। ननूक्तपरिभाषास्वीकारे डाणलादेः कथं सर्वादेशत्वमत आह - डादिविषये त्विति। न च स्वसिद्धान्ते इत्संज्ञायोग्यत्वस्यैवानुबन्धपदार्थत्वेन स्थानिवद्भावेनेत्संज्ञायोग्यतायाः सत्वेन कथमियमुक्तिः संगतेति वाच्यम्। प्राचीनमते, उच्चारणप्रतिध्वंसकत्वरूपस्यानुबन्धत्वस्य स्वीकारेणास्य ग्रन्थस्य तन्मताभिप्रायकत्वेनादोषात्। यद्वा अनुबन्धत्वस्यैवाभावेन विना अर्थादित्संज्ञायोग्यत्वेनानुबन्धत्वेन परिभाषाप्रवृत्तावपि सर्वादेशत्वं डा-आण-अल् इत्यानुपूर्व्यात्सिद्धमित्याशय इति दिक्।
केचित्तु न चानुबन्धानामल्व्यवहाराभावे घञन्तपाकादिशब्दे आनुमानिकस्थानिवद्भावेनाकारान्ते हलन्तत्वमादाय सुलोपः स्यादिति वाच्यम्। 'हल्ङ्यावि'ति सूत्रे ङ्याब्ग्रहणेनअनुबन्धवृत्तिहल्त्वमादाय सुलोपश्चेन् ङ्याभ्यामेवेति कल्पनेनादोषात्। न चैवमपि ओव्रश्चू इतिधातुनिष्पन्नव्रश्चनशब्देन कुशब्दस्य समासे कुव्रश्चन इत्यत्र आनुमानिकस्थानिवद्भावेन व्रवश्चनशब्दस्याजादित्वमादाय कोः कत्तत्पुरुषेऽचीति कदादेशापत्तिरिति वाच्यम्। उक्तज्ञापनेन अजादिघटकाच्पदेनानुबन्धस्याग्रहणेनादोषात्। न चैवं हल्पदेनापि अनुबन्धग्रहणाभावे हलन्त्यमित्यनेनेत्संज्ञानापत्तिरिति वाच्यम्। इत्पदप्रयोज्यविषयतानिरुपित-विषयत्वाप्रयोजकाल्पदबोध्यत्वन्नेति ज्ञापनेन हलन्त्यसूत्रघटकहल्पदस्येत्पदप्रयोज्यविषयतानिरूपित विषयताप्रयोजकत्वेन दोषानवकाशादिति प्राहुः॥६॥
परिभाषार्थमञ्जरी
डादिविषये त्विति। नन्वनुबन्धत्वयोग्यकृतमनेकालत्वं नेति परिभाषार्थस्यान्यत्र स्पष्टतया [1]आनुपूर्व्यासिद्धत्वकथनमसङ्गतमिति चेत् सत्यम्। दीक्षितानुरोधित्वाद्। अस्य ग्रन्थस्य सर्वादेशनिर्वाहस्तु प्रश्लेषेण बोध्यः। अत एव तुः प्रयुक्तः। स्पष्टश्चायमर्थः 'अनेकालि'ति सूत्रस्थभाष्यव्याख्याने, 'परस्मैपदानामि'त्यत्र विवरणे, शेखरे 'जसः शी'त्यत्रापिति बोध्यम्[2]। एतेन कैयटानुयायिभिर्डाणलादिविषये तु सर्वादेशं[3] विनाऽनुबन्धस्यैवाभावेनानुपूर्व्यात्सिद्धिरित्युक्तं तत्परास्तम्। यदपि शित्करणेनानुबन्धानाम् [4]अल्व्यवहाराभावो ज्ञाप्यते इति 'स्थानिवत्सूत्रस्थशेखरमनूद्य अनुबन्धविनिर्मुक्तपदार्थोपस्थितेः सर्वसम्मतत्वेन स्वयमपि तथैवानूदितत्वेन दोषानवकाशादिति दूषणावभासम् अभिदधुस्तन्मुधैव। तस्य 'हलः श्नः' इत्यादिसूत्रस्थभाष्यविरोधहालाहलसम्मिश्रितत्वात्। तत्र हि शानचः शित्त्वेनानुबन्धकार्ये अनल्विधाविति प्रतिषेधः प्रवर्तते इत्युक्तेः सेर्ह्यपिच्च इत्यपि तद्ग्रहणस्य तातङो ङित्वस्य च वैयर्थ्यरूपदूषणेन शिद्ग्रहणं प्रत्याख्यातम्। त्वदुक्तरीत्या अनुबन्धविनिर्मुक्तस्यैव स्थानिवत्वेन शङ्कासमाधानयोरसंगत्यापत्तिः। किञ्च 'किङ्ति चे'ति सूत्रे अचिनवादौ स्थानिवत्वेन ङित्वे गुणनिषेधमाशङ्क्य यासुटो ङित्वेन ङिदादेशा ङितो नेत्युक्तम्। अपि च रमायामित्यादौ ङेरनवकाशत्वाद् आमि स्थानिवत्वेन ङित्वात् याड्जायमानो न स्यात्। ननु च सर्वत्र स्थानिनिष्ठस्य धर्मस्यानेयमिति चेत्तत्रैव अनल्विधाविति निषेधः स्यात्। विशेषणतया सर्वत्र अलाश्रयणात्।ज्ञापकेन अल्त्वव्यवहाराभावबोधने तु न कश्चिद्दोषः[5]। नानुबन्धकृतमनेकालत्वमिति ज्ञापयतीति भाष्येऽल्त्वव्यवहाराभावबोधनद्वारेति शेष इति न तद्विरोध इति शेखरे एव तद्विरोधपरिहारेण न तद्भाष्यविरोध इति दिक्॥६॥
[1]अनुपूर्व्यात् सिद्धत्व इति गे
[2]ध्येयम् इति खे गे
[3]सर्वादेशत्वम् इति के खे गे घे
[4]अल्स्थाने अक्षु इति के
[5]निषेधः इति घे