साम्प्रतिकाभावे भूतपूर्वगतिः
ननु 'उगिदचामि'त्यत्र धातोश्चेदुगित्कार्यं तर्ह्यञ्चतेरेवेति नियमेनाधातोरेव नुमि सिद्धेऽधातुग्रहणं व्यर्थमत आह -
साम्प्रतिकाभावे भूतपूर्वगतिः।७७।
तत्तद्वचनसामर्थ्यन्यायसिद्धेयम्। तत्सामर्थ्यादधातुभूतपूर्वस्यापीत्यर्थेन गोमत्यतेः क्विपि गोमानित्यादौ नुम्सिद्धिः। 'नामी'त्यादिसूत्रेषु भाष्ये स्पष्टा॥७७॥
कामाख्या
गतिकारकसंज्ञाया धातुयोग एव प्रवृत्त्या धातोः स्मृतत्वेन तद्विषयपरिभाषामवतारयति नन्विति। व्यर्थमिति। न चाञ्चतेश्चेदुगित्कार्यन्नलोपिनोऽञ्चतेरेवेति नियमस्यापि सम्भवेन धातोर्व्यावृत्त्यर्थमधातुग्रहणं चरितार्थमिति वाच्यम्। नकारविशिष्टस्याञ्चतेर्नुम्यपि विशेषाभावात्। अचः परो यो झल् तदन्तानामेव नुमिति भाष्यसिद्धान्तेन नकारविशिष्टे नुमोऽप्राप्तेश्च। न चौपदेशिकधातुत्वविशिष्टानां चेदञ्चतेरेवेति नियमे गोमानित्यादौ नुमि सिद्धौ, अधातुग्रहणं व्यर्थमेवेति वाच्यम्। गोमान् स्त्रीत्यत्रोगितश्चेति ङीबापत्तेः। सांप्रतिकेति। सांप्रतिकस्याभिप्रेततत्तत्कालिकलक्षणप्रवृत्तियोग्यलक्ष्यस्य अभावे भूत्पूर्वस्य पूर्वकालिकतादृशबुद्धिविषयस्य गतिर्ग्रहणं ज्ञानमित्यर्थः। नामीत्यादि। तत्र हि आमीति न्यासे नित्यत्वाद्रामाणामित्यादौ दीर्घे कृतेऽपि ह्रस्वग्रहणसामर्थ्याद् भूतपूर्वह्रस्वान्तत्वाश्रयणेन नुडुक्त इति॥७७॥
परिभाषार्थमञ्जरी
नामीति सूत्रे इति। तत्र हि नुड्ग्रहणाभावे नामि दीर्घ आमि चेत् स्यादिति प्रक्रम्य परत्वान्नित्यत्वाद्दीर्घे ह्रस्वाश्रयो नुट् न स्यात् प्रकृतपरिभाषया तु नुड् भवति। नृशब्दे तु न चारितार्थ्यम्। तथा हि सति 'नृनद्याप' इत्येव ब्रूयात्। नह्येकमिति न्यायात्। 'षट् चतुर्भ्यश्च' इत्यत्र त्रेरित्यनुवृत्त्या न तत्रापि चारितार्थ्यमित्युक्तम्॥७७॥