स्वरविधौ व्यञ्जनमविद्यमानवत्
नन्वनुदात्तादेरन्तोदात्ताच्च यदुच्यते तद्व्यञ्जनादेर्व्यञ्जनान्ताच्च न प्राप्नोतीत्यत आह –
स्वरविधौ व्यञ्जनमविद्यमानवत्।८॰।
स्वरोद्देश्यकेविधावित्यर्थः। 'नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु' इति सूत्रे पृथिव्यादिपर्युदासोऽस्या ज्ञापकः। अन्यथा पृथिव्यादीनामनुदात्तादित्वाभावादप्राप्तौ तद्वैयर्थ्यं स्पष्टमेव। धर्मिग्राहकमानादेव च स्वरोद्देश्यकविधिविषयमिदम्। अत एव शतुरनुमो 'नद्यजादी' 'अचः कर्तृयकी'त्यादावजादी अच इत्यादेश्चारितार्थ्यम्। अत एव 'राजवती'त्यादौ नलोपस्यासिद्धत्वादन्वतीशब्दत्वात् 'अन्तोऽवत्या' इति स्वरो न, 'उदश्वित्वान्' इत्यत्र 'ह्रस्वनुड्भ्यामि'ति मतुबुदात्तत्वं च नेत्याकरः। स्पष्टं चेदं 'समासस्ये'ति सूत्रे भाष्ये। 'उच्चैरुदात्त:' इति सूत्रे कैयटस्त्वियमनावश्यकी, समभिव्याहृताजुपरागेण हलोऽप्युदात्तादिवद् अवभासात् तदुपपत्तेरित्याह। तत्र भाष्येऽपि ध्वनितमेतत्॥८॰॥
कामाख्या
नप्राप्नोतीति। स्वरस्याज्धर्मत्वेन व्यञ्जनादेस्तथात्वाभावात्। स्वरविधाविति। स्वरत्वव्याप्यधर्मावच्छिन्नोद्देश्यताके विधौ कर्तव्ये प्रयोगव्यञ्जनानामविद्यमानवद्भाव इत्यर्थः। ज्ञापकमाहनोत्तरेति। अनेन हि पृथिव्यादिवर्जितेऽनुदात्तादौ उत्तरपदे देवता द्वन्द्वे पूर्वोत्तरपदयोः प्रकृतिस्वरो निषिध्यते। अन्यथा। व्यञ्जनस्याविद्यमानत्वाभावे। अतएवेति। स्वरविधावित्यस्योक्तार्थस्वीकारादेव। शतुरनुम इति। अनुम् यः शतृप्रत्ययस्तदन्तादन्तोदात्तात् परा नदी अजादिश्च शसादिविभक्तिरुदात्ता स्यादिति तदर्थः। अचःकर्तृयकीति। उपदेशेऽजन्तानां कर्तृयकि परे आदिरुदात्त इत्यर्थः। सामान्यतोऽविद्यमानवद्भावे एतत्सूत्रद्वयेऽपि कर्त्तव्ये व्यञ्जनस्याविद्यमानत्वापत्तावजाद्यज्ग्रहणस्य वैयर्थ्यं स्यात्। अतएव। उक्तहेतोरेवअन्तोऽवत्याः। अवतीशब्दस्यान्त उदात्त इत्यर्थः। ह्रस्वनुड्भ्यामिति। ह्रस्वान्तादन्तोदात्तान्नुटश्च परो मतुबुदात्त इत्यर्थः। न चात्रान्तोदात्तादित्यस्यानुवृत्त्याऽस्यापि स्वरोद्देश्यकत्वेन परिभाषाप्रवृत्तिर्दुर्वारेति वाच्यम्। स्वरत्वव्याप्यधर्मघटितधर्मावच्छिन्ना या उद्देश्यदलीयविषयतायाः प्रतिबन्धकत्वं व्यञ्जनस्य नेत्यर्थेनादोषात्। उदश्वित्वानित्यत्रोदश्विच्छब्दस्य अन्तोदात्तत्वेऽपि ह्रस्वान्तत्वावच्छिन्नविषयताप्रतिबन्धकत्वं तकारस्यास्त्येवेति। अजुपरागेति। स्वरविशिष्टाच् सान्निध्येन। अवभासात्। जपाकुसुमादिसन्निधानेन स्फटिकस्य रक्ततादिवत्। भाष्येध्वनितमिति। यद्यपि वस्तुतो व्यञ्जनस्योदात्तत्ववदवभासमात्रन्न तूदात्तत्वम्। तथापि पृथिव्यादिपर्युदासेनाभासात्मकाहार्यज्ञानस्यापि शास्त्रप्रवृत्तिप्रयोजकत्वम् अतिदेशान्तरवदिति बोधनेनादोषात्॥८॰॥
परिभाषार्थमञ्जरी
अन्तोऽवत्या इति स्वरो नेति। अवतीशब्दस्यान्त उदात्त इति तदर्थः। वेत्रवतीत्युदाहरणम्॥८॰॥