Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

समासान्तविधिरनित्यः


ननु 'सुपथी नगरी' इति 'युवोरनाकौ' इति सूत्रभाष्योदाहृत 'इनः स्त्रियाम्' इति कप् स्यादत आह -

समासान्तविधिरनित्यः।८५।

'प्रतेरंश्वादयस्तत्पुरुषे' इत्यन्तोदात्तत्वायांश्वादिषु राजन्शब्दपाठोऽस्या ज्ञापकः। अन्यथा टचैवान्तोदात्तत्वे सिद्धे किं तेन। 'द्वित्रिभ्यां पाद्दन्मूर्द्धसु' इति स्वरविधायके भाष्ये स्पष्टेयम्॥८५॥

 


कामाख्या

तद्धितप्रसंगादाह नन्वितिज्ञापकइति। न च प्रतेः परीभूतास्तत्पुरुषघटका अंश्वादय अन्तोदात्ता इत्यर्थकेन प्रतेरंश्वादयस्तत्पुरुषे इत्यनेन प्रतिराज इत्यत्र टिलेपे कृतेऽवशिष्टस्य राजोऽप्येकदेशविकृतन्यायेन राजन्शब्दत्वात् सति शिष्टस्वरबलीयत्वाद्रेफाकारस्योदात्तत्वाय पाठ आवश्यक इति वाच्यम्। अक्तपरिमाणत्वेन राजमात्रस्य तेन न्यायेन राजन्शब्दत्वालाभेन वैयर्थ्यस्य सूपपात्वात्। ननु लिङ्गविशिष्टपरिभाषायाः समासान्तविधाप्रवृत्तेः राज्ञीं प्रति गतः प्रतिराज्ञिरित्यत्र स्वरार्थमंश्वादिषु राजन्शब्दपाठ आवश्यकः। न च स्वरविधावपि लिङ्गविशिष्टपरिभाषाया अप्रवृत्तिरिति वाच्यम्। स्वरविधौ संघातग्रहणे एव भाष्ये दोषदानेनावयवग्रहणेऽप्रवृत्तौ मानाभावादत आह द्वित्रिभ्यामिति। केचित्तु 'द्वित्रिभ्यामि'त्यतो ष इत्यनुवर्तमाने 'बहुव्रीहौ सक्थ्यक्षणो'रिति षच्ग्रहणं निरुक्तार्थज्ञापकमित्याहुरिति दिक्॥८५॥

नास्ति