ताच्छीलिके णेऽण्कृतानि भवन्ति
ननु 'चुरा शीलमस्याः सा चौरी'त्यादौ 'शीलम्' 'छत्रादिभ्यो णः' इति णे ङीप् न प्राप्नोतीत्यत आह –
ताच्छीलिके णेऽण्कृतानि भवन्ति।८८।
'अन्' इत्यणि विहितप्रकृतिभावबाधनार्थं 'कार्मस्ताछील्ये' इति निपातनमस्या ज्ञापकम्। ताच्छीलिकणान्ताद् 'अणो द्व्यच' इति फिञ्सिद्धिरप्यस्याः प्रयोजनमिति नव्याः। ताच्छीलिक इत्युक्ते 'तदस्यां प्रहरणम्' इति णे 'दाण्डे'त्येव। 'कार्म' इति सूत्रे भाष्ये स्पष्टा॥८८॥
कामाख्या
तद्धितप्रकरणादाह ननु चुरेति। न च 'छत्रादिभ्य' इति सूत्रे शीलमित्येवाधिकारो न तु तच्छीलमिति वाच्यम्। प्रथमान्तात् तच्छीलमित्यर्थे विधानेनास्य ताच्छीलिकत्वात्। अण्कृतानि। अण् निमित्तकानि। तथा चाण्प्रत्ययनिमित्तकार्याणि ताच्छीलिकण्प्रत्ययेऽपि भवन्तीत्यर्थः नव्याः दीक्षितादयः। वस्तुत इदमयुक्तम्। ...शच इति सूत्रेऽपत्यर्थस्याणो ग्रहणात्। सामान्यातिदेशे विशेषानतिदेश इति न्यायादिति॥८८॥
नास्ति