Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

धातोः कार्यमुच्यमानं तत्प्रत्यये भवति


ननु 'कंसपरिमृड्भ्यामि'त्यादौ 'मृजेर्वृद्धिः' दुर्वारेत्यत आह- 

धातोः कार्यमुच्यमानं तत्प्रत्यये भवति।८९।

'भ्रौणहत्ये' तत्त्वनिपातनमस्या ज्ञापकम्। 'धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानमि'ति पाठस्तु 'प्रसृड्भिरि'त्यादौ 'अनुदात्तस्य चर्दुपधस्य' इत्यमापादनेन भाष्ये दूषितः। यत्कार्यं प्रत्ययनिमित्तं तत्रेयं व्यवस्थापिका। तेन पदान्तत्वनिबन्धनं 'नशेर्वा' इति कुत्वं 'प्रणड्भ्यामि'त्यादौ भवत्येव। इयङादिविधौ तु नैषा। 'न भूसुधियोरि'ति निषेधेनानित्यत्वात्। 'मृजेर्वृद्धिः' इत्यत्र भाष्ये स्पष्टा॥ ८९॥

 


कामाख्या

धातोःकार्यमिति। धातुत्वव्याप्यधर्मावच्छिन्नोद्देश्यताकं कार्यं धातुत्वव्याप्यधर्मावच्छिन्नोद्देश्यतानिरूपितविधेयताश्रये भवतीत्यर्थः। अत एवेयङादिविधावियं नोपतिष्ठते। तत्र धातुत्वावच्छिन्नोद्देश्यताकत्वसत्वेऽपि धातुत्वेतरधातुत्वव्याप्यधर्मावच्छिन्नोद्देश्यताकत्वस्याभावात्। भ्रौणहत्येति। 'ब्रह्मभ्रूणे'ति क्विबन्ताद् भ्रूणहन् शब्दाद् भावे ष्यञि, 'नस्तद्धित' इति टिलोपं बाधित्वा परत्वाद्'हनस्त' इति तकारादेशे सिद्धे, तद्वैयर्थ्यं स्पष्टमेवेति। न चात्र नत्वनिपातनं किन्तु 'होहन्ते'रिति प्राप्त कुत्वभाव एवेति न व्यर्थं निपातनमिति वाच्यम्। तत्त्वं निपात्यत इति भाष्योक्तेस्तत्रैव पाणिनितात्पर्यावधारणात्। धातोःस्वरूपग्रहणेइति। धातुत्वव्याप्यानुपूर्व्यवच्छिन्नोद्देश्यताकं कार्यमित्यर्थः। अमापादनेनेति। अनुदात्तत्वविशिष्ट ऋदुपधत्वस्य धातुत्वव्याप्यत्वात् सिद्धान्ते न दोषः धातोः स्वरूपेण आनुपूर्वीपुरस्कारेणोपादानाभावेनास्याः परिभाषाया अप्रवृत्तिरिति भावः। ज्ञापकसाजात्यात् यस्मिन्कार्ये सप्तम्यन्तपदोपात्तस्य प्रत्ययस्य निमित्तत्वं तत्रैतस्याः प्रवृत्तिरित्याह यत्कार्यमिति। एवं च प्रत्यये परतो यत्कार्यं धातोः प्राप्तन्तद्धातुशब्देन विहिते प्रत्यये भवतीति परिभाषार्थः। नन्वेवम् 'अचिश्न्वि'त्यस्य प्रत्ययपरतो विधानेनोक्तपरिभाषया सुधियावित्यादौ प्रवृत्तिर्न्न स्यादत आह इयङादीति। अन्यत् सर्वं सुगमम्॥८९॥

नास्ति