Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

संज्ञापूर्वकविधेरनित्यत्वम्


यत्तु 'ओरोदि'ति वाच्ये 'ओर्गुणः' इति गुणग्रहणात् – 

संज्ञापूर्वकविधेरनित्यत्वम्।९४।

इयं च विधेयकोटौ संज्ञापूर्वकत्व एव। तेन स्वायम्भुवमित्यादि सिद्धम्॥९४॥

 


कामाख्या

अङ्गवृत्तपरिभाषावदन्यामपि प्राचीनपठितां खण्डयितुमाह यत्विति। गुणशब्देन विधानेऽपि आन्तरतम्यादोकारस्यैव विधेयत्वमिति लाघवादोकारविधानमेव युक्तमिति भावः। विधेयकौटौ = विधेयांशे। तथा च विधेयताप्रयोजकसंज्ञाशब्दघटितं शास्त्रमनित्यमिति परिभाषाफलितार्थः। अन्यथा यथाकथञ्चित् संज्ञापूर्वकत्वस्य शास्त्रमात्रे सत्त्वेनातिप्रसङ्गः स्यात्॥९४॥

नास्ति।