Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

आगमशास्त्रमनित्यम्


तथा 'निलोड्' इत्येव सिद्धे आनिग्रहणात् –

आगमशास्त्रमनित्यम्।९५।

तेन 'सागरं तर्त्तुकामस्य' इत्यादि सिद्धम्॥९५॥

 


कामाख्या

तर्त्तुकामस्येति। अत्रेडभावेऽपि नासाधुता शास्त्रबोधितत्वात्। आदिना क्षुब्धो राजा, शाकं पचानस्येत्यनयोः संग्रहः। आद्ये इडभावस्य, द्वितीये मुगागमस्याभावेऽपि साधुत्वमिति भावः॥९५॥

नास्ति।