Logo

श्रीमत्कौण्डभट्टविरचितः वैयाकरणभूषणसारः

फणिभाषितभाष्याब्धेः शब्दकौस्तुभ उद्धृतः । तत्र निर्णीत एवाऽर्थः सङ्क्षेपेणेह कथ्यते ॥

प्रारिप्सितप्रतिबन्धकोपशमनाय कृतं श्रीफणिस्मरणरूपं मङ्गलं शिष्यशिक्षार्थं निबध्नन् चिकीर्षितं प्रतिजानीते —
फणिभाषितभाष्याब्धेः शब्दकौस्तुभ उद्धृतः ।

तत्र निर्णीत एवाऽर्थः सङ्क्षेपेणेह कथ्यते ॥
उद्धृत इति। अत्र 'अस्माभिः' इति शेषः। 'भाष्याब्धेः शब्दकौस्तुभ उद्धृतः' इत्युक्तिस्तु शब्दकौस्तुभोक्तानामर्थानामाधुनिकोत्प्रेक्षितत्वनिरासाय। अन्यथा तन्मूलकस्याऽस्य ग्रन्थस्याप्याधुनिकोत्प्रेक्षितासारत्वापत्तौ पाणिनीयानामनुपादेयतापत्तेः । 'तत्र निर्णीत' इत्युक्तिरितोऽप्यधिकं जिज्ञासुभिः शब्दकौस्तुभे द्रष्टव्यमिति ध्वनयितुम् ॥

शीघ्रमुपस्थाप्यते