अथ भगवद्गुरु शुभाकाङ्क्षिकृपा प्रसादादेवैतत् 'संस्कृतवाणी' इत्याख्यं पटलं सुरभारतीसमुपासकेभ्यः संस्कृताध्येतृभ्यः विद्यार्थिशोधार्थिपरीक्षार्थिशिक्षकेभ्यश्च अन्वेषणाधारितसहजतया संस्कृतग्रन्थस्वाध्यायाय सप्रश्रयमुपक्रम्यते। सर्वेषां संस्कृतादिटीकासहितसंस्कृतपाठ्यग्रन्थानां परीक्षोपयोगिप्रश्नोत्तराणां च अत्र पटले सन्धारणं कृतं विद्यते।
एतन्मुख्योद्देश्यन्तु संस्कृतग्रन्थानाम् अन्वेषणाधारित-सन्धारणीकरणमेव। एतद्द्वारा च संस्कृतमातुः प्रचारः, प्रसारः, समाराधनमिति च चिकीर्षितं विद्यते।
अत्र पटलविषयकाः भवदीयाः विचारः प्रस्तावाः परामर्शाः वा सर्वदा अस्मत्प्रेरकाः भविष्यन्ति। एतदर्थं भवन्तः फीडबैकमाध्यमेन मार्गदर्शनं कर्तुं शक्नुवन्तीति।
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग् भवेत्।।
डॉ. यदुवीरस्वरूपशास्
त्री
सहायकप्राचार्यः (स्नातकोत्तरव्याकरणविभागः)
Follow Us
×