शक्तिविचारः
तत्र वर्णपदवाक्यभेदेन स्फोटस्त्रिधा । तत्रापि जातिव्यक्तिभेदेन पुनः षोढा । अखण्डपदस्फोटोऽखण्डवाक्यस्फोटश्चेति सङ्कलनयाऽष्टौ स्फोटाः ।
तत्र वाक्यस्फोटो मुख्यः, तस्यैव लोकेऽर्थबोधकत्वात्तेनैवार्थसमाप्तेश्चेति । तदाह न्यायभाष्यकारः — पदसमूहो वाक्यमर्थसमाप्ताविति । अस्य समर्थमिति शेषः ।
तत्र प्रतिवाक्यं सङ्केतग्रहासम्भवाद् वाक्यान्वाख्यानस्य लघूपायेनाशक्यत्वाच्च कल्पनया पदानि प्रविभज्य पदे प्रकृतिप्रत्ययभागान् प्रविभज्य कल्पिताभ्यामन्वयव्यतिरेकाभ्यां तत्तदर्थविभागं शास्त्रमात्रविषयं परिकल्पयन्ति स्माचार्याः ।
तत्र शास्त्रप्रक्रियानिर्वाहको वर्णस्फोटः । प्रकृतिप्रत्ययास्तत्तदर्थवाचका एवेति तदर्थः । उपसर्गनिपातधात्वादिविभागोऽपि काल्पनिकः स्थानिनो लादय आदेशास्तिबादयः कल्पिता एव । तत्र ऋषिभिः स्थानिनां कल्पिता अर्थाः कण्ठरवेणैवोक्ताः । आदेशानां च स्थान्यर्थाभिधानसमर्थस्यैवादेशतेति न्यायात्तेऽर्थाः । एवं च स्थानिनां वाचकत्वमादेशानां वेति विचारो निष्फल एव ।कल्पितवाचकत्वस्योभयत्रसत्त्वात् मुख्यं वाचकत्वं तु कल्पनाया बोधितसमुदायरूपे पदे वाक्ये वा लोकानां तत एवार्थबोधात्।
'उपेयप्रतिपत्त्यर्था उपाया अव्यस्थिता' इति न्यायेन व्याकरणभेदेन स्थानिभेदेऽपि न क्षतिः । देशभेदेन लिपिभेदवदिति दिक् ।
तत्र 'प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानी'ति गौतमसूत्रे शब्दश्चाप्तोपदेशरूपः प्रमाणम् । आप्तो नामानुभवेन वस्तुतत्त्वस्य कार्त्स्न्येन निश्चयवान् रागादिवशादपि नान्यथावादी यः स इति चरके पतञ्जलिः ।
तद्धर्मावच्छिन्नविषयकशाब्दबुद्धित्वावच्छिन्नं प्रति तद्धर्मावच्छिन्ननिरूपितवृत्तिविशिष्टज्ञानं हेतुः । अत एव नागृहीतवृत्तिकस्य शाब्दबोधः । अत एव च नहि गुड इत्युक्ते मधुरत्वं प्रकारतया गम्यत इति समर्थसूत्रभाष्यं सङ्गच्छते । गुडादिशब्देन गुडत्वजात्यवच्छिन्नो गुडपदवाच्य इत्येव बोधो जातिप्रकारकः । मधुरत्वं तु गुडो मधुर ऐक्षवत्वादित्यनुमानरूपमानान्तरगम्यम् ।
विशेष्यविशेषणभावव्यत्यासेन गृहीतशक्तिकस्य पुंसो घटपदात् घटत्वविशिष्टघटबोधवारणाय तद्धर्मावच्छिन्नेति । ज्ञाने वृत्तिवैशिष्ट्यं च स्वविषयकोद्बुद्धसंस्कारसामानाधिकरण्यस्वाश्रयपदविषयकत्वोभयसम्बन्धेन बोध्यम् । अतो नागृहीतवृत्तिकस्य नापि विस्मृतवृत्तिकस्य नापि तत्पदमजानतो नापि घटपदादाश्रयत्वेनोपस्थिताकाशस्य नापि जनकतयोपस्थितचैत्रादेश्च बोधः । संस्कारकल्पिका च वृत्तिः स्मृतिरेव शाब्दबुद्धिरेव वेत्यन्यदेतत् ।
सा च वृत्तिस्त्रिधा शक्तिर्लक्षणा व्यञ्जना च । तत्र शक्तिः कः पदार्थ इति चेत् ?
अत्र तार्किकाः — अस्माच्छब्दादयमर्थो बोद्धव्य इत्याकारा इदं पदमिममर्थं बोधयत्वित्याकारा वेश्वरेच्छा शक्तिः लाघवात् । सैव सङ्केतः सम्बन्धः ।
शक्तेर्यद्यपि विषयत्वलक्षणः सम्बन्धः पदेऽर्थे बोधे च तथापि बोधनिष्ठजन्यतानिरूपितजनकतावत्त्वेन शक्तिविषयो वाचकः शक्तिजन्यबोधविषयत्वेन शक्तिविषयो वाच्यः इति नातिप्रसङ्गः । यद्यपि प्रथमं शक्तिग्रहो वाक्य एव तथाप्यावापोद्वापाभ्यां शास्त्रकृत्कल्पिताभ्यां तत्तत्पदशक्तिग्रह इत्याहुः ।
तन्न, इच्छायाः सम्बन्धिनोराश्रयतानियामकत्वाभावेन सम्बन्धत्वासम्भवात् । सम्बन्धो हि सम्बन्धिद्वयभिन्नत्वे सति द्विष्ठत्वे च सति आश्रयतया विशिष्ठबुद्धिनियामक इत्यभियुक्तव्यवहारात् । यथा घटवद्भूतलमित्यादौ संयोगरूपः सम्बन्धः सम्बन्धिभ्यां भिन्नो द्विष्ठो घटनिरूपितसंयोगाश्रयो भूतलमिति विशिष्टबुद्धिनियामकश्च नात्र तथा घटशब्द इच्छावान् तदर्थो वा इच्छावानिति व्यवहारः ।
तस्मात्पदपदार्थयोः सम्बन्धान्तरमेव शक्तिः वाच्यवाचकभावापरपर्याया । तद्ग्राहकञ्चेतरेतराध्यासमूलकं तादात्म्यं तदेव सम्बन्धः । उभयनिरूपिततादात्म्यवानुभय इत्यर्थपदयोर्व्यवहारात् । शक्तेरपि कार्यजनकत्वे सम्बन्धस्यैव नियामकत्वात् दीपादिगतप्रकाशकत्वशक्तावपि आलोकविषयसम्बन्धे सत्येव वस्तुप्रकाशकत्वं नान्यथेति दृष्टत्वात् ।
तदुक्तं हरिणा —
उपकारः स यत्रास्ति धर्मस्तत्रानुगम्यते ।
शक्तीनामप्यसौ शक्तिर्गुणानामप्यसौ गुणः ॥
उपकार इति — उपकार्योपकारकयोर्बोधशक्त्योरुपकारस्वभावः सम्बन्धो यत्रास्ति तत्र धर्मः शक्तिरूपः कार्यं दृष्ट्वाऽनुमीयते । असौ समबन्धः शक्तीनामपि कार्यजनने उपकारकः गुणानामपि द्रव्याश्रितत्वनियामक इति हेलाराजः ।
सः सम्बन्धः पदे वाक्ये च । तदाह न्यायभाष्यकारः — 'समयज्ञानार्थं चेदं पदलक्षणाया वाचोऽन्वाख्यानं व्याकरणं वाक्यलक्षणाया वाचोऽर्थलक्षण'मिति । अनेन पदेष्विव वाक्येष्वपीश्वरसमय इति स्पष्टमेवोक्तम् । तस्मादितरेतराध्यासः सङ्केतस्तन्मूलकं तादात्म्यं च सम्बन्ध इति सङ्घातार्थः ।
तदुक्तं पातञ्जलभाष्ये — 'सङ्केतस्तु पदपदार्थयोरितरेतराध्यासरूपः स्मृत्यात्मको योऽयंशब्दः सोऽर्थो योऽर्थः स शब्द' इति । स्मृत्यात्मक इत्यनेन ज्ञातस्यैव सङ्केतस्य शक्तिबोधकत्वं दर्शितम् ।
उक्त ईश्वरसङ्केत एव शक्तिरिति नैयायिकमतं न युक्तम् । अयमेतच्छक्योऽत्रास्य शक्तिरित्यस्य सङ्केतस्य शक्तितः पार्थक्येन प्रसिद्धत्वात् । अत एव न्यायवाचस्पत्ये उक्तम् —'सर्गादिभुवां महर्षिदेवतानामीश्वरेण साक्षदेव कृतः सङ्केतस्तद्व्यवहाराच्चास्मदादीनामपि सुग्रहस्तत्सङ्केत' इति ।
तस्य च तादान्म्यस्य निरूपकत्वेन विवक्षितोऽर्थः शक्य, आश्रयत्वेन विवक्षितः शब्दः शक्त इत्युच्यते । शब्दार्थयोस्तादात्म्यादेव श्लोकमशृणोदथार्थं शृणोति अर्थं वदति इत्यादिव्यवहारः । ओमित्येकाक्षरं ब्रह्म, रामेति द्वयक्षरं नाम, मानभङ्गः पिनाकिनः, वृद्धिरादैजिति शक्तिग्राहकश्रुतिस्मृतिविषये सामानाधिकरण्येन प्रयोगश्च ।
तादात्म्यं च तद्भिन्नत्वे सति तदभेदेन प्रतीयमानत्वमिति भेदाभेदसमनियतम् अभेदस्याध्यस्तत्वाच्च न तयोर्विरोधः ।
यत्तु तार्किकाः — शब्दार्थयोस्तादात्म्यस्वीकारे मधुशब्दोच्चारणे मुखे माधुर्यरसास्वादापत्तिः, वह्निशब्दोच्चारणे च मुखे दाहापत्तिरित्याहुः, तन्न । भेदाभेदस्योपपादितत्वात् ।
वस्तुतो बौद्ध एवार्थः शक्यः पदमपि स्फोटात्मकं प्रसिद्धं तयोस्तादात्म्यं तत्र बौद्धे वह्न्यादावर्थे दाहादिशक्तिमत्त्वाभावात् । अत एव शब्दज्ञानानुपाती वस्तुशून्यो विकल्प इति विकल्पसूत्रं सङ्गच्छते ।
शब्दज्ञानमात्रेणाऽनुपाती बुद्धावनुपतनशीलो वस्तुशून्यः बाह्यार्थरहितः विशेषेण कल्प्यत इति विकल्पः बुद्धिपरिकल्पित इति तदर्थः । अत एव —
एष वन्ध्यासुतो याति खपुष्पकृतशेखरः ।
कूर्मक्षीरचये स्नातः शशशृङ्गधनुर्धरः ॥
इत्यत्र वन्ध्यासुतादीनां बाह्यार्थशून्यत्वेऽपि बुद्धिपरिकल्पितवन्ध्यासुतशब्दवाच्यार्थमादायार्थवत्त्वात्प्रातिपदिकत्वम् । अन्यथार्थवत्त्वाभावेन प्रातिपदिकत्वाभावात्स्वाद्युत्पत्तिर्न स्यात् ।
यत्तु शशशृङ्गमित्यत्र शृङ्गे शशीयत्वभ्रम इति तार्किकैरुक्तम्, तन्न । शशशब्दवाच्यजन्तुदर्शनरूपबाधे सति शशशृङ्गं नास्तीति वाक्ये शशशृङ्गमित्यस्य प्रातिपदिकत्वानापत्तेः ।
अर्थपदयोस्तादात्म्यात्तत्तदर्थतादात्म्यापन्नः शब्दो भिन्न इति हेतोरर्थभेदाच्छब्दभेद इति व्यवहारः, समानाकारमात्रेण तु एकोऽयं शब्दो बह्वर्थ इति व्यवहारः ।
सा त शक्तिस्साधुष्विवापभ्रंशेष्वपि, शक्तिग्राहकशिरोमणेर्व्यवहारस्य उभयत्र तुल्यत्वाद्व्यवहारदर्शनेन च पूर्वजन्मानुभूतशक्तिस्मरणम् । अत एव बालानां तिरश्चां चान्वयबोधः । न हि तेषां तदैव तत्सम्भवः ।
यत्तु तार्किकाः — असाधुशब्देन साधुस्मरणद्वारार्थबोध इत्याहुस्तन्न । साधुस्मरणं विनापि बोधानुभवात् तद्वाचकसाधुशब्दमजानतां बोधानापत्तेश्च । न च शक्तिभ्रमाद्बोधोऽसाधुशब्देष्विति वाच्यम् । निस्सन्देहप्रत्ययस्य बाधकं विना भ्रमत्वायोगात् । अत एव स्त्रीशूद्रबालादीनामुच्चरिते साधावर्थसंशये तदपभ्रंशेनार्थनिर्णयः । अत एव 'समानायामर्थावगतौ शब्दैश्चापशब्दैश्च शास्त्रेण धर्मनियम' इति ।भाष्यम्, 'वाचकत्वाविशेषेऽपि नियमः पुण्यपापयोः' इति हरिकारिका च सङ्गच्छते ।
अत एवार्यम्लेच्छाधिकरणं सङ्गच्छते । तत्र हि यद्यपि आर्या यवशब्दं दीर्घशूके प्रयुञ्जते म्लेच्छास्तु प्रियङ्गौ प्रयुञ्जते तमेव च बुध्यन्ते तथाप्यार्यप्रसिद्धेर्बलवत्त्वात् वेदे दीर्घशूकपरतैवेति सिद्धान्तितम् । तव तु म्लेच्छबोधस्य शक्तिभ्रममूलकत्वेन भ्रान्तिविषयकरजतज्ञानस्येव म्लेच्छप्रसिद्धेर्वस्त्वसाधकतयाऽर्यम्लेच्छप्रसिद्ध्योः कस्या बलवत्त्वमिति विचारासङ्गतिः स्पष्टैव ।
साधुत्वं च व्याकरणान्वाख्येयत्वं पुण्यजनकतावच्छेदकधर्मवत्त्वं वा । तद्भिन्नत्वमसाधुत्वम् ।
सा च शक्तिस्त्रिधा — रूढिर्योगो योगरूढिश्च । शास्त्रकल्पितावयवार्थभानाभावे समुदायार्थनिरूपितशक्ती रूढिः, यथा — मणिनूपुरादौ । शास्त्रकल्पितावयवार्थनिरूपिता शक्तिर्योगः, यथा — पाचकादौ । शास्त्रकल्पितावयवार्थान्वितविशेष्यभूतार्थनिरूपिता शक्तार्योगरूढिः, यथा — पङ्कजपदे पङ्कजनिकर्तृपद्ममिति बोधः । पद्मेऽनुपपत्तिप्रतिसन्धानं सम्बन्धप्रतिसन्धानं च विना न लक्षणावसरः । क्वचित् तात्पर्य्यग्राहकवशात्केवलरूढ्यर्थस्य केवलयोगार्थस्य वा बोधः । भूमौ पङ्कजमुत्पन्नं कह्लारकैरवमुखेष्वपि पङ्कजेष्वित्यादौ, स्पष्टं चेदमार्हादिति सूत्रे भाष्ये ।
अश्वगन्धादिपदमोषधिविशेषे रूढम् । अश्वसम्बन्धिगन्धवत्तया वाजिशालाबोधे यौगिकम् । इदं यौगिकरूढमित्युच्यते । एवं मण्डपपदं गृहविशषे रूढं मण्डपानकर्त्तरि यौगिकम् ।
सैषा शक्तिः संयोगादिभिर्नानार्थेषु नियम्यते । तदुक्तं हरिणा —
संयोगो विप्रयोगश्च साहचर्यं विरोधिता ।
अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः ॥
सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः ।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥
एते संयोगादयो नानार्थेषु शब्देषु शब्दार्थस्यानवच्छेदे सन्देहे तदपाकरणद्वारा विशेषार्थनिर्णायकाः इति तदर्थः ।
संयोगविप्रयोगयोरुदाहरणे सवत्सा धेनुरवत्सा धेनुरिति । साहचर्यस्य रामलक्ष्मणाविति, साहचर्य सादृश्यं सदृशयोरेव सहप्रयोग इति नियमात् । रामार्जुनगतिस्तयोरित्यादौ विरोधेन तत् । अञ्जलिना जुहोति, अञ्जलिना सूर्यमुपतिष्ठत इत्यत्र जुहोतीत्यादिपदार्थवशादञ्जलिपदस्य तत्तदाकाराञ्जलिपरत्वम् । सैन्धवमानयेत्यादौ प्रकरणेन तत् । अक्ताः शर्कराः उपदधातीत्यादौ तेजो वै घृतमिति घृतस्तुतिरूपाल्लिङ्गादक्ता इत्यस्य घृतसाधनकाञ्जनपरत्वम् । रामो जामदग्न्य इति जामदग्न्यपदसन्निधानाद्रामः परशुरामः । अभिरूपाय कन्या देया इत्यादौ अभिरूपतरायेति सामर्थ्यात् प्रतीयते ।
यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा ।
यश्चैनं गन्धमाल्याद्यैः सर्वस्य कटुरेव स ॥
इत्यत्रौचित्यात् परशुनेत्यस्य छेदनार्थत्वम्, मधुसर्पिषा इत्यस्य सेचनार्थत्वम्, गन्धमाल्याद्यैरित्यस्य पूजनार्थत्वम् । भात्यत्र परमेश्वर इत्यत्र राजधानीरूपदेशात्परमेश्वरपदं राजबोधकम् । चित्रभानुर्भातीत्यादौ रात्रावग्नौ दिवा सूर्ये । व्यक्तिर्लिङ्गम् । मित्रो भाति मित्रं भातीत्यादावादौ सूर्योऽन्त्ये सुहृत् । स्थूलपृषतीमित्यादौ स्वरात्तत्पुरुषबहुव्रीह्यर्थनिर्णयः । इति शक्तिविचारः।