॥ अथ परमलघुमञ्जूषायां लक्षणाविचारः ॥
ननु लक्षणा कः पदार्थ इति चेत् ? अत्र तार्किकाः —स्वशक्यसम्बन्धो लक्षणा । सा च द्विधा — गौणी शुद्धा च । स्वनिरूपितसादृश्याधिकरणत्वसम्बन्धेन शक्यसम्बन्ध्यर्थप्रतिपादिका गौणी । तदतिरिक्तसम्बन्धेन शक्यसम्बन्ध्यर्थप्रतिपादिका शुद्धा । प्रकारान्तरेणापि सा द्विविधा — अजहत्स्वार्था जहत्स्वार्था च । स्वार्थसंवलितपरार्थाभिधायिकाऽजहत्स्वार्था । तेन छत्रिणो यान्ति, कुन्तान् प्रवेशय, यष्टीः प्रवेशय, काकेभ्यो दधि रक्ष्यतामित्यादौ छत्रिसहितसेना— कुन्तास्त्रसहितपुरुष—यष्टिसहितपुरुष-काकसहितसर्वदध्युपघातकबोधः ।
स्वार्थपरित्यागेनेतरार्थाभिधायिकाऽन्या । तत्परित्यागश्च शक्यार्थस्य लक्ष्यार्थान्वयिनाऽनन्वयित्वम् । तेन गां वाहीकं पाठयेत्यादौ गोसदृशलक्षणायामपि न गोस्तदन्वयिपाठनक्रियान्वयित्वम् ।
सा च लक्षणा तात्स्थ्यादिनिमित्तिका । तदाह —
तात्स्थात्तथैव ताद्धर्म्यात्तत्सामीप्यात्तथैव च ।
तत्साहचर्यात्तादर्थ्याज् ज्ञेया वै लक्षणा बुधैः ॥इति॥
तात्स्थ्यान्मञ्चा हसन्ति, ग्रामः पलायितः । ताद्धर्म्यात्सिंहो माणवकः गौर्वाहीकः । तत्सामीप्याद्गङ्गायां घोषः । तत्साहचर्याद्यष्टीः प्रवेशय । तादर्थ्यादिन्द्रार्था स्थूणा इन्द्रः ।
अन्वयाद्यनुपपत्तिप्रतिसन्धानश्च लक्षणाबीजम् । वस्तुतस्तु तात्पर्यानुपपत्तिप्रतिसन्धानमेव तद्बीजम् । अन्याथा गङ्गायां घोष इत्यादौ घोषादिपदे एव मकरादिलक्षणापत्तिस्तावताप्यन्वयानुपपत्तिपरिहारात् । गङ्गायां पापी गच्छतीत्यादौ गङ्गापदस्य नरके लक्षणापत्तेश्च । अस्माकं तु भूतपूर्वपापावच्छिन्नलक्षकत्वे तात्पर्यान्न दोषः । नक्षत्रं दृष्ट्वा वाचं विसृजेदित्यत्रान्वयसम्भवेऽपि तात्पर्यानुपपत्त्यैव लक्षणास्वीकारात् । एकानुगमकस्वीकारेण निर्वाहेऽनेकानुगमकस्वीकारे गौरवाच्च ।
विशिष्टार्थबोधकशब्दस्य पदार्थैकदेशे लक्षणायां जहदजहल्लक्षणेति व्यवहरन्ति वृद्धाः । वाच्यार्थे किञ्चिदंशत्यागः किञ्चिदंशपरिग्रहश्च । अत्र ग्रामैकदेशे पटैकदेशे च दग्धे ग्रामो दग्धः पटो दग्ध इति व्यवहारः । तत्त्वमसीत्यत्र सर्वज्ञत्वाल्पज्ञत्वयोस्त्यागः शुद्धचैतन्ययोरभेदान्वयः ।
स्वबोध्यसम्बन्धो लक्षणेति केचित् । गभीरायां नद्यां घोष इत्याद्यनुरोधात् । तथा हि न तावद्गभीरपदं तीरलक्षकं नद्यामित्यनन्वयापत्तेः । न हि तीरं गभीरम् । न च प्रत्येकं पदद्वये सा, विशिष्टनदीबोधानापत्तेः । तस्मात्समुदायबोध्यः गभीरत्वविशिष्टनदीपदार्थः तत्सम्बन्धो लक्षणेति ।
द्विरेफपदस्य स्वलक्ष्यभ्रमरशब्दवाच्यार्थे लक्षणायां लक्षितलक्षणेति व्यवहारः । स्वबोध्यपदवाच्यत्वं सम्बन्धः ।
प्रकारान्तरेण पुनर्लक्षणा द्विविधा । तथाहि —
प्रयोजनवती निरूढा च लक्षणा द्विविधा मता । इति ।
असति प्रयोजने शक्यसम्बन्धो निरूढलक्षणा । त्वचा ज्ञानमित्यादौ यथा त्वचस्त्वगिन्द्रिये । इयं तु शक्त्यपरपर्यायैवेति बोध्यम् । गङ्गायां घोष इत्यत्र तीरे गङ्गागतशैन्यपावनत्वादिप्रतीतिः प्रयोजनम् । गौर्वाहीक इत्यत्र सादृश्यं लक्ष्यतावच्छेदके गवाभेदप्रत्ययः प्रयोजनम् । कुन्ताः प्रविशन्तीति भीतिपलायमानवाक्ये कुन्तविशिष्टपुरुषे कुन्तगततैक्ष्ण्यप्रतीतिः प्रयोजनमित्याहुः ।
तन्न, सति तात्पर्ये 'सर्वे सर्वार्थवाचकाः' इति भाष्याल्लक्षणाया अभावात्, वृत्तिद्वयावच्छेदकद्वयकल्पने गौरवाज्जघन्यवृत्तिकल्पनाया अन्याय्यत्वाच्च । कथं तर्हि गङ्गादिपदात्तीरप्रत्ययः ? भ्रान्तोऽसि ! सति तात्पर्ये सर्वे सर्वार्थवाचका इति भाष्यमेव गृहाण ।
तथाहि- शक्तिर्द्विविधा — प्रसिद्धाऽप्रसिद्धा च । आमन्दबुद्धिवेद्यात्वं प्रसिद्धात्वम् । सहृदयमात्रवेद्यात्वमप्रसिद्धात्वम् । तत्र गङ्गादिपदानां प्रवाहादौ प्रसिद्धा शक्तिः तीरादौ चाप्रसिद्धेति किमनुपपन्नम् ।
ननु यदि सर्वे सर्वार्थवाचका इति चेद् ब्रूषे तर्हि घटपदात्पटप्रत्ययः किन्न स्यादिति चेन्न । सति तात्पर्ये इत्युक्तत्वात्तात्पर्याभावादिति गृहाण । तात्पर्यं चात्र ऐश्वरं देवतामहर्षिलोकवृद्धपरम्परातोऽस्मदादिभिर्लब्धमिति सर्वं सुरूढम् । इति लक्षणाविचारः।