श्रीलक्ष्मीरमणं नौमि गौरीरमणरूपिणम्। स्फोटरूपं यतः सर्वं जगदेतद्विवर्तते।
सत्येकस्मिन्नपि बाधके समवहितसाधकसहस्त्रादपि कार्योत्पत्तेरदर्शनादपेक्षितप्रारिप्सितप्रत्यूहापोहायानुष्ठितं भगवत्स्तुतिरूपं मङ्गलं ग्रन्थकृच्छिष्यशिक्षार्थमादौ निबध्नाति *श्रीलक्षमीरमणमिति*। अधिकरणव्युत्पन्नल्युडन्तरमणशब्देन कर्तृषठयन्तलक्ष्मीपदस्य समासः। तेन च श्रीसहितशब्दस्य मध्यमपदलोपी समासः, शाकपार्थिंवादेराकृतिगणत्वात्। तदुपादानञ्च सशक्तिकस्यैव भगवतो जगन्निर्माणकारणत्वमिति ध्वयितुम्। *नैमीति*"णु स्तुतौ" इति धातोरस्मच्शब्दाप्रयोगेऽपि गम्यमानतदर्थसामानाधिकरण्यस्य लकारार्थकर्त्तरि सत्त्वाद् वर्त्तमानक्रियाद्योतकलडुत्तमपुरुषः। `अस्मद्युत्तमः' इत्यत्र पूर्वसूत्रात् स्थानिनीत्यस्यानुवृत्तेः। स्तुतिश्चोत्कृष्टगुणवत्त्वप्रकारकबोधानुकूलो व्यापारः। स एव च प्रकृतधात्वर्थः। बोधरूपधात्वर्थफलाश्रयत्वाल्लक्ष्मीरमणस्य कर्मता। एवञ्च वैयाकरणमते प्रकते श्रीमहितलक्ष्मीरमणाश्रयकोत्कृष्टगुणवत्त्वप्रकारकबोधानुकूलो मदभिन्नश्रयको वर्त्तमानशब्धप्रयोगरूपो व्यापार इति वाक्यार्थः। नन्वेतच्छास्त्रप्रवर्त्तकत्वेन शिवस्याभ्यर्हिततरत्वात्तत्स्तुत्यात्मकमङ्गलमपि कुतो नाचरितमत आह *गौरीरमणरूपिणमिति*। स्वरूपपररूपपदेन गौरीरमणपदस्य षष्ठीसमासस्ततोऽदन्तत्वनिबन्धनो मत्वर्थोय इतिः। गौरीरमणो रूपं स्वरूपं यस्येति इति सूत्रे "असुब्वतः" इति प्रयोगमुदाहरता भाष्यकृताऽनादृतत्वान्न मत्वर्थोयानुपपत्तिः।दृश्यते चेदृशस्थले प्रयोगद्वैविध्यम् शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे।इत्यादि।
तथाच तदभिन्नमित्यर्थः। प्रमाणं चात्रोक्तपुराणवाक्यमेव। एवञ्च कार्यवैचित्र्यस्य कारणवैचित्र्यनियम्यत्वाज्जगदवनादिकार्यवैचित्र्योपपत्तये तत्तद्गुणप्रधानमूर्त्तिपरिग्रहो भगवतो न पारमार्थिको भेद इति स्तुतिकर्मता शिवस्य नानुपपन्नेति भावः। उत्कृष्टगुणवत्त्वमेवाविष्करिति *यत इति* वादान्तिमते मायाशबलस्य ब्रह्मणो जगदुपादानत्वात् "जनिकर्त्तुः" (पाo सूo 1-4-30) इत्युपादानहेतावपादानसंज्ञानिबन्धना पञ्चमी। `गुण' इत्युक्तेः "विभाषा"(पाo सूo 2-3-25) इत्यस्य न प्रसक्तिः। तथाच यस्मादुपादानहेतोरित्यर्थः। सर्वं जगत् स्फोटरूपं विवर्त्तत इति योजना। स्फुटत्यभिव्यक्तीभवत्यर्थोऽस्मादिति स्फोटो नामाद्यत्मकः शब्दः। बाहुलकादपादाने धञ्, रूप्यते=निरूप्यते इति रूपमर्थः, तयोः समाहारद्वान्द्वे नपुंसकैकवचनान्तम्। वाच्यवाचकस्वरूपमिति तदर्थः। "नामरूपे व्याकरवाणि"(छान्दोग्ये 6-3-2) इति श्रुतेः *एतत्* अत्यन्तसान्निध्येन विषयीक्रियमाणम् *विवर्त्तते* उत्पद्यत इत्यर्थः, धातोरुपसृष्टत्वात्। ननु नामरूपात्मकस्य "सदेव सोम्येदमग्र आसीत्"(छान्दोग्ये) इति श्रुत्या सनातनत्वबोधनात् कथमुत्पत्तिशालित्वमत आह *जगदिति* वर्तमाने पृषत्"(उणादि सूo पाo 2 सूo 250) इति निपातनात्साधु। तथाच गच्छति=तिरोधत्त इति व्युत्पत्त्या तिरोधान उक्ते यत्तिरोधत्ते तदाविर्भवतीति नियमेनाविर्भावस्य लाभात्स एवात्रोपसृष्टार्थः। एवञ्चज सत्त्वेनैतस्य सनातनत्वेऽपि नामत्वादिनाऽऽविर्भवाद्यभ्युपगमान्नोक्तश्रुतिविरोधो नापि "तस्मादेतस्माद्वा आत्मत आकाशः सम्भूतः"(तैत्तिरीयके 2/1) इत्याद्युत्पत्तिबोधकतद्विरोधः। यत्किञ्चिन्नामरूपात्मकस्यान्यतोऽपि सम्भवादाह *सर्वमिति* यावदर्थकम्। उत्पत्तिरुपलक्षणम्।अवनादेः। तेन जगत्कर्तृत्वादिरूपोत्कृष्टधर्मस्य स्तुत्यताऽवच्छेदकस्य लाभः। अत्र च "यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्यभिसंविशन्ति" (तैत्तिरीयके 3/1) इत्याद्याः श्रुतयः प्रमाणम्।
मतान्तरे यत इति पञ्चमी निमित्तहेतुतायाम्। व्युपसृष्टतुधातोराद्यक्षणसम्बन्धरूपोत्पत्तिरर्थः। ननु सर्वान्तर्गतवियदाद्यात्मकपदार्थस्यानादितया सथमुत्पत्तिमत्त्वमत आह *जगदिति* स्थावर-जङ्गमात्मकमित्यर्थः। तथाच गच्छति=नश्यतीति व्युत्पत्त्या विनाशित्वे बोधिते विनाशिभावस्य जन्यत्वनियमेव तस्योत्पत्तिर्न विरुद्धेति भावः। एतत्कल्पे स्फोटपदं शास्त्रानुमानप्रतीतिपरम्। तादृशं रूपं यस्येति व्युत्पत्त्या स्फोटरूपमिति भगवतो विशेषणं बोध्यम्। शेषं पूर्ववत्। यद्वा स्तुत्यताऽवच्छदेकरूपं प्रदर्शयितुं विशियितुं विशिनष्टि *स्फोटरूपमिति* वक्ष्यमाणव्युल्पत्त्या समस्तार्थप्रकाशकस्वरूपमित्यर्थः। तदुपपादयन्नेव स्तुत्यताऽवच्छेदकान्तरमपि दर्शयति *यत इति* यस्मादुपादानादिति सार्वविभिक्तिकर्तासना यस्मिन्नधिष्ठाने इति वाऽर्थः। विवर्त्तश्चातात्त्विकोऽन्यथाभावः। अपरित्यक्तपूर्वरूपस्य रूपान्तरप्रकारकप्रतीतिविषयत्वमितियावत्। जगच्छब्दश्च रूढया नामरूपपरः। तथाच यस्मिन्नधिष्ठाने एतत्सर्वं जगद् भूतेन्द्रियादि तत्तद्रूपेण प्रतिभातित्यर्थः। "नेह नानाऽस्ति" (काठके 2-4-11) इति श्रुत्या बोधितबाधस्यापि जगतः प्रतिभासे अधिष्ठानसत्ताया एव नियामकत्वात् समस्तार्थप्रकाशकत्वोपपत्तिरप्रच्युतस्वरूपस्यैव व्रह्मणो जगद्रूपेण विवर्त्तनादविकारित्वरूपोत्कृष्टधर्मावगतिश्च। अत्र च "तमेव भान्तमनुभाति सर्वम्" (काठके 2-5-14, मुण्डके 2-2-10) इत्याद्यः कूटस्थस्वरूपप्रतिपादिकाश्च श्रुतयः प्रमाणत्वेनानुसन्धेया इति भावः। अत्र भगवद्विषयकरतिभावस्य हेत्वलङ्कारोऽङ्गम्