फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः । फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम् ॥
॥ अथ धात्वाख्यातार्थनिर्णयः ॥ प्रतिज्ञातमाह
फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः ।
फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम् ॥
धातुरित्यत्र स्मृत इति वचनविपरिणामेनाऽन्वयः । फलं विक्लित्त्यादि । व्यापारस्तु भावनाभिधा साध्यत्वेनाऽभिधीयमाना क्रिया । उक्तञ्च वाक्यपदीये —
यावत् सिद्धमसिद्धं वा साध्यत्वेनाऽभिधीयते ।
आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते ॥ इति ।
न च साध्यत्वेनाऽभिधाने मानाभावः 'पचति, पाकः, करोति, कृतिः' इत्यादौ धात्वर्थावगमाविशेषेऽपि क्रियान्तराकाङ्क्षानाकाङ्क्षयोर्दर्शनस्यैव मानत्वात्। तथा च क्रियान्तराकाङ्क्षाऽनुत्थापकतावच्छेदकरूपं साध्यत्वम्। तद्रूपवत्त्वमसत्त्वभूतत्वम् । एतदेवाऽऽदाय 'असत्त्वभूतो भावश्च तिङ्पदैरभिधीयते । ' इति वाक्यपदीयमिति द्रष्टव्यम् । अयञ्च व्यापारः फूत्कारत्वाधःसन्तापनत्वयत्नत्वादितत्तद्रूपेण वाच्यः, पचतीत्यादौ तत्तत्प्रकारकबोधस्याऽनुभवसिद्धत्वात्। न च नानार्थतापत्तिः, 'तदादि'न्यायेन बुद्धिविशेषादेः शक्यतावच्छेदकानामनुगमकस्य सत्त्वात्। आख्याते क्रियैकत्वव्यवस्थाऽप्यवच्छेदकबुद्धिविशेषैक्यमादायैव । उक्तञ्च वाक्यपदीये —
गुणभूतैरवयवैः समूहः क्रमजन्मनाम् ।
बुद्धया प्रकल्पिताऽभेदः क्रियेति व्यपदिश्यते ॥ इति ।
धात्वर्थं निरूप्य तिङर्थमाह — आश्रये त्विति । फलाश्रये, व्यापाराश्रये चेत्यर्थः। फलाश्रयः कर्म्म, व्यापाराश्रयः कर्त्ता । तत्र फलव्यापारयोर्धातुलभ्यत्वान्न तिङस्तदंशे शक्तिः, अन्यलभ्यत्वात्। शक्ततावच्छेदकं चाश्रयत्वं तत्तच्छक्तिविशेषरूपमिति सुबर्थनिर्णये वक्ष्यते ।
नन्वनयोराख्यातार्थत्वे किं मानम् । प्रतीतेर्लक्षणया आक्षेपात् प्रथमान्तपदाद्वा सम्भवादिति चेत्, अत्रोच्यते — लः कर्मणि च भावे चाऽकर्मकेभ्यः इति सूत्रमेव मानम् । अत्र हि चकारात् कर्तरि कृत् इति सूत्रोक्तं कर्त्तरीत्यनुकृष्यते । बोधकतारूपां तिबादिशक्तिं तत्स्थानित्वेन कल्पिते लकारे प्रकल्प्य लकाराः कर्मणि कर्त्तरि चानेन विधीयन्ते, नकारविसर्गादिनिष्ठां कर्मकरणादिबोधकताशक्तिमादाय शसादिविधानवत् । न च सूत्रे कर्तृकर्मपदे कर्तृत्वकर्मत्वपरे । तथाच कर्तृत्वम् — कृतिः, कर्म्मत्वञ्च फलमेवार्थोऽस्त्विति शङ्क्यं, फलव्यापारयोर्धातुलभ्यत्वेन लकारस्य पुनस्तत्र शक्तिकल्पनाऽयोगात् ।
अथ दर्शनान्तरीयरीत्या व्यापारस्य धात्वर्थत्वाभावात्तत्र लकारविधिः स्यादिति चेत्, तर्हि कृतामपि कर्तृकर्मादिवाचित्वं न सिद्धयेत्, कर्त्तरि कृत् इति च लः कर्मणि.. इत्यनेन तुल्ययोगक्षेमम् ।
अपि च मीमांसकानां कृतामिवाऽऽख्यातानामपि कर्तृवाचित्वमस्तु, भावनाया एवाऽऽक्षेपेण कृदादिवत् प्रतीतिसम्भवे वाच्यत्वं माऽस्तु ।
तथा सति प्राधान्यं तस्या न स्यादिति चेन्न, 'घटमानय' इत्यादावाक्षिप्तव्यक्तेरपि प्राधान्यवदुपपत्तेः। पचतीत्यादौ पाकं करोतीति भावनाया विवरणदर्शनाद्वाच्यत्वमिति चेन्न, पाकाऽनुकूलव्यापारवतः कर्त्तुरपि विवरणविषयत्वाऽविशेषात्।
न च कर्त्तुर्विवरणं तात्पर्याऽर्थविवरणम्,पाकं करोतीत्यशब्दाऽर्थकर्मत्वविवरणवत्, इतरेतरयोगद्वन्द्वे समुच्चयांऽशविवरणवद्वा न तदर्थनिर्णाकमिति वाच्यम्, भावनायामपि तुल्यत्वात् ।
किञ्च, 'पचति देवदत्तः' इत्यत्राऽभेदान्वयदर्शनात्तदनुरोधेन कर्त्तुर्वाच्यत्वमावश्यकं 'पक्ता देवदत्तः' इतिवत्। नचाऽभेदबोधे समानविभक्तिकत्वं नियामकम्, तच्चात्र नास्तीति वाच्यम्, 'सोमेन यजेत' 'स्तोकं पचति' 'राजपुरुषः' इत्यादावप्यभेदबोधाऽनापत्तेः ।
नच लक्षणया कर्त्तुरुक्तत्वात् सामानाधिकरण्यम्, पिङ्गाक्ष्यादियौगिकानामपि द्रव्यवाचित्वाऽनापत्तेः। एवं वैश्वदेवीत्यादितद्धितानामपि, 'अनेकमन्यपदार्थे' 'साऽस्य देवता' इत्यनुशासनेन पिङ्गे अक्षिणी यस्याः, विश्वे देवा देवता अस्या इति विग्रहदर्शनात् प्रधानषष्ठयर्थे एव अनुशासनलाभात् ।
तथाच 'अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति' इति वाक्ये द्रव्याऽनुक्तेरारुण्यस्य स्ववाक्योपात्तद्रव्ये एवाऽन्वयप्रतिपादकाऽरुणाधिकरणोच्छेदाऽऽपत्तिः, द्रव्यवाचकत्वसाधकमूलयुक्तेः सामानाधिकरण्यस्योक्तरीत्योपपत्तेरिति प्रपञ्चितं विस्तरेण बृहद्वैयाकरणभूषणे ।
तिङः इति । बोधकतारूपा शक्तिस्तिङ्क्ष्वेवेत्यभिप्रेत्येदम् ।
पदार्थं निरूप्य वाक्यार्थं निरूपयति — फले इत्यादि। विक्लित्त्यादि फलं प्रति । तिङर्थः — कर्त्तृकर्मसंख्याकालाः, तत्र कर्त्तृकर्मणी फलव्यापारयोर्विशेषणे। संख्या कर्त्तृप्रत्यये कर्तरि, कर्मप्रत्यये कर्मणि, समानप्रत्ययोपात्तत्वात् । तथा चाख्यातार्थसंख्याप्रकारकबोधं प्रति आख्यातजन्यकर्त्तृकर्मोपस्थिर्हेतुः' इति कार्यकारणभावः फलितः ।
नैयायिकादीनामाख्यातार्थसङ्ख्यायाः प्रथमान्तार्थे एवाऽन्वयात् 'आख्यातार्थसंख्याप्रकारकबोधे प्रथमान्तपदजन्योपस्थितिर्हेतुः' इति कार्यकरणभावो वाच्यः। सोऽपि 'चन्द्र इव मुखं दृश्यते' 'देवदत्तो भुक्त्वा व्रजति'इत्यादौ चन्द्रक्त्वार्थयोराख्यातार्थानन्वयादितराऽविशेषणत्वघटित इत्यतिगौरवम् । इदमपि कर्तृकर्मणोराख्यातार्थत्वे मानमिति स्पष्टं भूषणे ।
कालस्तु व्यापारे विशेषणम्, तथाहि — वर्त्तमाने लट् इत्यत्राऽधिकाराद् धातोरिति लब्धम्। तच्च धात्वर्थं वदत् प्राधान्याद् व्यापारमेव ग्राहयतीति तत्रैव तदन्वयः । न च सङ्ख्यावत् कर्त्तृकर्मणोरेवान्वयः शङ्क्यः, अतीतभावनाके कर्त्तरि पचतीत्यापत्तेः, अपाक्षीदित्यनापत्तेश्च । पाकानारम्भदशायां कर्तृसत्त्वे पक्ष्यतीत्यनापत्तेश्च । नापि फले तदन्वयः, फलाऽनुत्पत्तिदशायां व्यापारसत्त्वे, पचतीत्यनापत्तेः, पक्ष्यतीत्यापत्तेश्चेत्यवधेयम् ।
नचाऽऽमवातजडीकृतकलेवरस्योत्थानाऽनुकूलयत्नसत्त्वादुत्तिष्ठतीति प्रयोगापत्तिः, परयत्नस्याज्ञानादप्रयोगात्। किञ्चिच्चेष्टादिना तदवगतौ च, अयमुत्तिष्ठति, शक्त्यभावात् फलन्तु न जायते इति लोकप्रतीतेरिष्टत्वात्। एवञ्च तिङर्थो विशेषणमेव, भावनैव प्रधानम्।
यद्यपि प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्यैव प्राधान्यमन्यत्र दृष्टम्, तथाऽपि 'भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि' इति (नि. अ. २ ख २) निरुक्तात्, भूवादिसूत्रादिस्थक्रियाप्राधान्यबोधकभाष्याच्च धात्वर्थभावनाप्राधान्यमवसीयते।
अपि च, आख्यातार्थप्राधान्ये तस्य देवदत्तादिभिः सममभेदान्वयात् प्रथामान्तस्य प्राधान्यापत्तिः । तथा च, 'पश्य मृगो धावति' इत्यत्र भाष्यसिद्धैकवाक्यता न स्यात्, प्रथमान्तमृगस्य धावनक्रियाविशेष्यस्य दृशिक्रियायां कर्म्मत्वापत्तौ द्वितीयापत्तेः।
नचैवमप्रथमासामानाधिकरण्याच्छतृप्रसङ्गः, एवमपि द्वितीयाया दुर्वारत्वेन 'पश्य मृगः' इत्यादिवाक्यस्यैवाऽसम्भवापत्तेः।
न च पश्येत्यत्र तमिति कर्माध्याहार्य्यम्,वाक्यभेदप्रसङ्गात्, उत्कटधावनक्रियाविशेषस्यैव दर्शनकर्मतयाऽन्वयस्य प्रतिपिपादयिषितत्वात्, अध्याहारेऽनन्वयापत्तेश्च ।
एवञ्च, 'भावनाप्रकारकबोधे प्रथमान्तपदजन्योपस्थितिः कारणम्' इति नैयायिकोक्तं नादरणीयम्। किन्तु 'आख्यातार्थकर्तृप्रकारकबोधे धातुजन्योपस्थितिर्भावनात्वावच्छिन्नविषयतया कारणम्' इति कार्यकारणभावो द्रष्टव्यः। भावनाप्रकारकबोधं प्रति तु कृज्जन्योपस्थितिवद् धात्वर्थभावनोपस्थितिरपि हेतुः, 'पस्य मृगो धावति', 'पचति भवति' इत्याद्यनुरोधादिति दिक् ।
इत्थञ्च पचतीत्यत्रैकाऽऽश्रयिका पाकाऽनुकूला भावना । पच्यते इत्यत्रैकाऽऽश्रया या विक्लित्तिस्तदनुकूला भावनेति बोधः ।
देवदत्तादिपदप्रयोगे त्वाख्यातार्थकर्त्रादिभिस्तदर्थस्याऽभेदाऽन्वयः। 'घटो नश्यति'इत्यत्र घटाऽभिन्नाऽऽश्रयको नाशाऽनुकूलो व्यापार इति बोधः। स च व्यापारः प्रतियोगित्वविशिष्टनाशसामग्रीसमवधानम्। अत एव तस्यां सत्यां नश्यति, तदत्यये 'नष्टः' तद्भावित्वे नङ्क्ष्यतीति प्रयोगः। 'देवदत्तो जानाति', इच्छती'त्यादौ च देवदत्ताऽभिन्नाऽऽश्रयको ज्ञानेच्छाद्यनुकूलो वर्त्तमानो व्यापार इति बोधः । स चान्तत आश्रयतैवेतिरीत्योह्यम् ॥
शङ्करशास्त्रिकृतशाङ्करीटीका
।। फलव्यापारयोरिति ।।
फलं च व्यापारश्चैतयोरर्थयोर्वाचकत्वेन धातुः स्मृतः। फलव्यापारयोर्वाचको धातुः। फलव्यापारौ च धातुवाच्यावित्यर्थः। तिङस्तु आश्रये स्मृताः। प्रत्यासत्त्या फलाश्रये कर्मणि व्यापाराश्रये कर्तरि च वाचकत्वेन तिबादयः स्मृताः। कर्मकर्तारौ तिबादिवाच्यावित्यर्थः। भावार्थकतिङां धात्वर्थानुवादकमात्रत्वान्न तेऽत्र ग्राह्याः। फलं प्रति व्यापारः प्रधानम्। फलनिरूपितविशेष्यतावान् व्यापारः, फलं च तद्विशेषणमित्यर्थः। तिङर्थस्तु, कर्तृकर्मणी प्रत्यासत्त्या फलव्यापारयोर्विशेषणम्। फलव्यापारौ विशेष्यौ कर्तृकर्मणी च तद्विशेषणे इत्यर्थः। इत्यतीव संक्षिप्तः कारिकार्थः।
ननुयल्लिङ्गं यद्वचनं या च विभक्तिर्विशेष्यस्य। तल्लिङ्गं तद्वचनं सैव विभक्तिर्विशेषणस्यापि।। इत्यभियुक्तोक्तेर्विशेष्यविशेषणवाचकपदयोः समानवचनकत्वनियमलाभात्स्मृता इत्यस्य विशेष्यवाचकपदोत्तरवचनविरुद्धवचनान्तस्य धातुरित्यत्रैकवचनान्ते विशेष्येऽन्वयो न स्यादत आहधातुरित्यत्रेत्याद्यन्वय इत्यन्तम्। अनन्वितार्थकविभक्त्यादित्यागेनान्वययोग्यविभक्त्यादिकल्पनं विपरिणामः। स्मृतशब्दोत्तरमेकवचनं प्रयुज्योच्चारणं वचनविपरिणामोऽत्रेत्यर्थः। विशेष्यविशेषणवाचकपदयोः समानवचनकत्वनिममादेव `शुक्लः पटाः' इत्यादौ विशेष्यविशेषणभावेन नान्वयबोधः। न चलिङ्गसंख्याविभेदेऽपि विशषणविशेष्यता। विभक्तिः पुनरेकैव विशेषणविशेष्ययोः।। इति न्यायात् `वेदाः प्रमाणम्' इत्यादाविव प्रकृतेऽपि स्मृता इति धातुरित्यत्र विशेषणं स्यादिति वाच्यम्। यत्र विशेष्यवाचकपदोत्तरविभक्तिबोध्यसंख्याविरुद्धसंख्याया विवक्षाऽऽवश्यकी तत्रैव तन्न्यायप्रवृत्तेः। यथाविशेष्यवाचकपदं `प्रमाणम्' इति, तत्रत्यविभक्तिबोध्यसंख्याएकत्वं तद्विरुद्धसंख्या वेदा इति बहुत्वसंख्या तद्विवक्षायास्तत्राऽऽवश्यकत्वेन लक्षणसंगतिः। वेदाः प्रमाणमित्यव वेदेषु एकजातीयप्रमाणत्वं बोधयितुमिष्टम्। तच्च वेदगतबहुत्वसंख्याविवक्षां विनाऽनुपपन्नामित्यादि लुमञ्जूषायां सुबर्थविचारे शेषे द्रष्टव्यम्। प्रकृते स्मृता इति बहुत्वसंख्याविवक्षायां कारणाभाव इति भावः।
फलव्यापारयोरिति द्विवचननिर्देशेन फले व्यापारे च धातोः पृथक्शक्तिरिति सूचितं, न तु फलावच्छिन्नव्यापार एका शक्तिः। तथा सति विशेष्यविशेषणभावे विनिगमनाविरहेण व्यापारावच्छिन्नफले चैका शक्तिरिति शक्तिद्वयकल्पनासाम्येऽपि फलावच्छिन्नव्यापारत्वं व्यापारावच्छिन्नफलत्वं चेति गुरुशक्यतावच्छेदकद्वयकल्पनापत्तेः। किं च फलस्य व्यापारस्य त विशिष्टविषयैकशक्त्योपस्थितत्वात्पदार्थैकदेशत्वेन तण्डुलं पचतीत्यादौ फले तण्डुलस्य, चैत्रेण तण्डुलः पच्यते इत्यादौ व्यापारे चैत्रस्य चान्वयो न स्यात्। पदार्थः पदार्थेनेतिन्यायात्। यत्र विशेषणान्वयश्चिकीर्षितस्तत्रेतराविशेषणत्वेन(इतरनिरूपितावितविशेषणत्वानापन्नत्वेन) ज्ञायमानत्वस्य नियमात्। विशिष्टविषयैकशक्त्याऽर्थोपस्थितेर्विशेष्यविशेषणभावापन्नत्वेनैवानुभवात्। अत एव घटपदात् घटत्वविशिष्टघटविषयैकशक्त्युपस्थितघटत्वे नित्यत्वविशेषणाभिप्रायेण नित्यो घट इति प्रयोगो न भवति। पदार्थैकदेशे घटे नील इति विशेषणान्वयस्तु भवत्येव। घटस्येतराविशेषणत्वेन ज्ञायमानत्वात्। एवं राजपुरुष इति वृत्तावपि राज्ञि ऋद्धस्येति विशेषणान्वयो न भवति। राज्ञः पुरुषविशेषणत्वेन ज्ञायमानत्वात्। सुन्दरो राजपुरुष इति पुरुषे सुन्द इति विशेषणान्वयो भवत्येव। पुरुषस्येतराविशेषणत्वेन ज्ञायमानत्वात्। ऋद्धस्य राज्ञः पुरुष इति वाक्ये तु एकार्थीभावाभावेन विशेषणान्वयकाले राज्ञ इतराविशेषणत्वेन ज्ञायमानत्वाद्राज्ञि ऋद्धस्येति विशेषणान्वयो भवति। वाक्ये पृथक्पदार्थोपस्थित्यनन्तरमाकाङ्क्षादिवशाद्विशेष्यविशेषणभावेनान्वयः। वृत्तौ तु विशेषणविशेष्यभावापन्नैव पदार्थोपस्थितिरिति विशेषात्। एतदेव पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेनेति न्यायतात्पर्यम्। अन्यथा राज्ञः पुरुष इति वाक्येऽपि राज्ञः पुरुषेऽन्वयो न स्यात्। पुरुषत्वविशिष्टपुरुषविषयैकशक्त्युपस्थितपुरुषस्य पदार्थैकदेशत्वादिति बोध्यम्।
तत्र फलांश उत्सर्गतो व्यापारविशेषणम्। जन्यजनकभावः, संसर्गः फलानुकूलो व्यापार इति विशेषणविशेष्यविशेष्यभावेनैतयोरन्वयः। ननु हरिपदादुपस्थितयोसूर्यसिंहयोः परस्परं विशेषणविशेष्य(आधाराधेय)भावेनान्वयबोधाननुभवात्, `वा स्याद्विकल्पोपमयोरेवार्थेऽपि समुच्चये' इति कोशाद्वाशब्दोपस्थितविकल्पाः द्योरर्ययोः परस्परं विशेष्यविशेषणभावेनान्वयस्यादृष्टत्वाच्च विभिन्नपदोपस्थितयोरेवान्वय इति नियमाङ्गीकारावस्यकत्वेनैकपदोपस्थितयोः फलव्यापारयोस्तथाऽन्वयो न स्यादिति पृथक्शक्तिस्वीकारोऽयुक्त इति चेन्न। परमते लडाद्यर्थकृतिवर्तमानत्वाद्योः स्वमतेऽपि तिङर्थाश्रयसंख्ययोञ्च परस्परमन्वयदर्शनेन च तादृशनियमस्य संकोचनीयतया व्युत्पत्तिवैचित्र्या फलव्यापारयोः परस्परान्वयाङ्गीकारे बाधकाभावात्। अथ पृथक्शक्तिपक्षे गमनमिति पदात्स्वातन्त्र्येण फलस्य प्रतीत्या गमनं न व्यापार इति प्रतीत्यापत्तिस्तद्वारणायैकशक्तिपक्ष एवाङ्गीकर्तुमुचित इति चेत्तदपि न। प्रथमोपस्थितत्वेनान्तरङ्गत्वात्फलव्यापारयोस्तावत्प्रथमतो विशेषणविशेष्यभावेनान्वयो भवति पश्चात्त्वर्थान्तरेण। ततश्च फलस्य स्वातन्त्र्येणानुपस्थितेर्गमनपदाद्व्यापारस्यैव फलविशेषणकस्य विशेष्यतया प्रतीतिर्न विपरीतस्येति गमनं न व्यापार इति प्रतीत्यनापत्तेः।
ऋमप्राप्तं फलांशमाचष्टे फलं विक्लित्त्यादीति। विक्लित्तिःशिथिलीभावोऽवयवविभागविशेषस्तत्संयोगो वा। तस्य च विक्लित्तित्पादिविशेषरूपेण वाच्यता न तु फलत्वेन सामान्यरूपेण। तत्तद्विशेषरूपेणैव तद्वोधस्यानुभवसिद्धत्वात् धातुत्वादिकमजानतामपि काव्यज्ञादीनां तथा बोधाच्च। अत एव वाक्यार्थप्रदर्शनावसरेविक्लित्त्यनुकूल उत्पत्त्यनुकूल इत्यादिविशेषरूपेणैव फलबोध उच्यमानः संगच्छते। यद्यपि लोके यदुद्देशेन क्रियाप्रवृत्तिस्त्वत्त्वं फलत्वं तथाऽप्यत्र पारिभाषिकं तद्गृह्यते। अन्यथा पाकोद्देश्याया बुभुक्षानुवृत्तेरनिष्पत्तावपाक्षीदिति प्रयोगानापत्तेः। तथा परोपकाराय सतां प्रवृत्तयः। परोपकाराय वहन्ति नद्य इत्यादौ परोपकाररूपफलस्य व्यापारव्यधिकरणस्य सत्त्वात्प्रवृत्त्यादिक्रियाणामकर्मिकाणामपि सकर्मकत्वापत्तेः। किंचिदुद्दिश्यैव लोके क्रियापवृत्तिदर्शनेन सकर्मकाकर्मकव्यवहारस्य दुर्बोधत्वाच्च।
विक्लित्त्यादिनिष्ठं पारिभाषिकफलत्वं च`कर्तृप्रत्ययसमभिव्याहारे तद्धात्वर्थजन्यत्वे सति तद्धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारताश्रयतवे च सति तद्धात्वर्थत्वम्' इति। तण्डुलं पचतीत्यत्र पच्धात्वर्थफ्त्कारादिव्यापारजन्यत्वे सति तादृशव्यापारनिष्ठविशेष्यतानिरूपितप्रकारतापन्नत्वं पच्वात्वर्थे विक्लित्तौ वर्तत इति कृत्वा लक्षणसमन्वयः। एवंअग्नेर्माणवकं वारयतीत्यादौ संयोगानुकूलव्यापाराभावानुकूलव्यापाररूपे धात्वर्थे संयोगानुकूलव्यापाराभावे लक्षणसमन्वयात्फलत्वमूह्यम्। अत्र `कर्तृप्रत्ययसमभिव्याहारे' इत्युपलक्षणं न तु विशेषणम्। न कर्तृप्रत्ययसमभिव्याहारे यस्यार्थस्य फलत्वं, कर्मप्रत्ययसमभिव्याहारेऽपि तस्यैवार्थस्य फलत्वं भवतीति बोध्यमिति यावत्। आः कर्मप्रत्ययस्थले पच्यते तण्डुलः पक्वस्तण्डुल इत्यादौ विक्लित्त्यादेर्विशेष्यत्वेऽपि नो अफलत्वापत्तिः। अत्र प्रथमविशेषणदले जन्यत्वे सतीत्येतावन्मात्रोक्तौ विभागजन्यसंयोगादिरूपे पतत्याद्यर्थे विभागस्य कृतीसाध्यत्वेन जन्यत्वात्फलत्वापत्तिः स्यात्तद्वारणाय जन्यत्वे निरूपकतासंबन्धेन धात्वर्थो विशेषणम्। धात्वर्थनिरूपितजन्यत्वे सतीत्यर्थः। निरुक्तविभागस्य च धात्वर्थनिरूपितजन्यत्वाभावान्नातिप्रसङ्गः। नन्वेवमपि विभागस्य उत्तरदेशसंयोगानुकूलव्यापाररूपगम्यादियत्किंचिद्धात्वर्थजन्यत्वात्फलत्वापत्तिस्तदवस्थैवेति चेन्न, धातोस्तदिति विशेषणात्। प्रत्यासत्त्या यद्धात्वर्थत्वं यद्धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतापन्नत्वं वा तद्धात्वर्थनिरूपितजन्यत्वे सतीत्यर्थः। तथा च निरुक्तविभागे पतिधात्वर्थसंयोगनिष्ठविशेष्यतानिरूपितप्रकारतापन्नत्वेऽपि पतिधात्वर्थत्वेऽपि च पततिधाथ्वर्थनिरूपितजन्यत्वाभावान्न फलत्वम्। नन्वेवं प्रयागात्काशीं गच्छतीत्यादौ गम्याद्यर्थव्यापारजन्यत्वाद्विभागस्य फलत्वापत्तिरिति चेन्न। तद्धात्वर्थत्वमिति विशेष्योपादानात्। तद्धातुजन्योपस्थितिविषयत्वमित्यर्थः। उत्तरदेशसंयोगानुकूलो व्यापारो गम्याद्यर्थः। तत्र पूर्वदेशविभागमन्तरोत्तरदेशसंयोगस्यात्यन्तासंभवेन नान्तरीयकतया विभागस्योत्तरदेशसंयोगानुकूलव्यापाररूपगमिधात्वर्थजन्यत्वेऽपि गमिधातूपस्थितिविषयत्वाभावान्न फलत्वमिति भावः। नन्वेवमपि पर्णं पततीत्यत्र विभागजन्यसंयोगे पततिधात्वर्थविभागजन्यत्वे सति तद्धात्वर्थत्वात्फलत्वापत्तिरिति चेत्। तद्वारणाय तद्धात्वर्थनिष्ठेत्यादिसत्यन्तं द्वितीयविशेषणम्। ततश्च निरुक्तसंयोगस्य पततिधात्वर्थजन्यत्वेऽपि पततिधात्वर्थत्वेऽपि च पततिधात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतापन्नत्वाभावान्न फलत्वम्। एवं च पततिधात्वर्थे विभागसंयोगयोर्मिथः फलत्ववारणाय सत्यन्तं विशेषणद्वयम्। तेन वृक्षात्पर्णं भूमौ पततीत्यादौ विभागाश्रयस्य वृक्षादेः, संयोगाश्रयस्य भूम्यादेश्च न कर्मत्वमित्यूह्यम्। इदं च क्वचिदकर्मकधातौ व्यापारमात्रं धात्वर्थ इति मतेन। फलव्यापारयोर्धातुरिति प्रायोवादाभिप्रायेण। तन्मतानङ्गीकारे तु सत्यन्तं द्वितीयविशेषणं न देयमिति वोध्यम्। तेन तद्धात्वर्थजन्यत्वे सति तद्धात्वर्थत्वम्। इत्येव फललक्षणम्। अत्र जन्यत्वं चाऽऽरोपितानारोपितसाधारणं ग्राह्यम्। तेनेश्वरस्तिष्ठति, पत्ये शेते, इत्यादौ नाव्याप्तिः। ईश्वरस्थितेः पत्युद्देश्यकशयनादेश्च वस्तुतो धात्वर्थाजन्यत्वात्स्थितौ शयनादौ च जन्यत्वारोपात्। स्थित्यनुकूलो व्यापारस्तिष्ठतेरर्थः। शीङादेश्च शयनविषयकोऽध्यवसायोऽर्थ इति ज्ञेयम्। आदिशब्दात् `आस्ते' इत्यस्य ग्रहणम्। गां पयो दोग्वीत्यादौ चान्तःस्थितद्रवद्रव्यनिष्ठविभागानुकूलव्यापारानुकूलव्यापारो दुहरर्थः। तत्र गोपनिष्ठतद्धात्वर्थव्यापारजन्यत्वात्तद्धात्वर्थनिरूपितप्रकारतापन्नत्वात्तद्धात्वर्थत्वाच्च गोनिष्ठव्यापारस्य फलत्वं, विभागस्यापि गोनिष्ठतद्धात्वर्थव्यापारजन्यत्वात्तद्धात्वर्थनिष्ठेत्यादिविशेषणविसेष्योभययुक्तत्वाच्च फलत्वं बोध्यम्। आदिपदादजां ग्रामं नयतीत्यादि। नन्वेवमग्नेर्माणवकं वारयतीत्यादौ संयोगानुकूलव्यापाराभावस्येव संयोगस्यापि माणवकनिष्ठतद्धात्वर्थव्यापारजन्यत्वादित्रितययुक्तत्वात्फलत्वापत्तिरिति चेदस्तु नाम। नहि तावन्मात्रेण कश्चिद्दोषो भवति। उत्तरदेशसंयोगानुकूलव्यापारानुकूलव्यापारे नीधात्वर्थेऽजानिष्ठतद्धात्वर्थव्यापारजन्यत्वादिविशिष्टसंयोगरूपफलाश्रयत्वाद्ग्रामस्येवाग्नेरपि कर्मतायां द्वितीयापत्तिरिति तु न वाच्यम्। कर्मसंज्ञायामभावप्रतियोगिव्यापारजन्यफलस्याग्रहणात्। अन्यथा वारणार्थानामिति सूत्रं कर्तुरीप्सिततममित्यस्यापवादः स्यात्। ततश्च माणवकमित्यत्रापि द्वितीयानापत्तेः। तण्डुलं पचतीत्यादौ कर्मसंज्ञायाश्चरितार्थत्वात्। पश्य मृगो धावतीत्यादौ दृशिदात्वर्थनिष्ठविशेष्यातानिरूपितप्रकारतापन्नत्वेऽपि धावनादेर्न फलत्वम्। दृशिधात्वर्थनिरूपितजन्यत्वाभावाद्दृशिदात्वर्थत्वाभावाच्च। अन्यता प्रधानानुरोधिकर्मत्वस्य बलवत्त्वान्मृगस्य कर्तृत्वं न स्यात्। एवं माषेष्वश्वं बध्नातीत्यादौ यदा पुष्ट्यर्थे माषभक्षणायैव माषक्षेत्रेऽश्वबन्धनं तदा भक्षणस्य बध्नात्यर्थजन्यत्वाभावाद्बध्नात्यर्थत्वाभावच्च न फलत्वमिति भक्षणाश्रयत्वेऽपि माषाणां न कर्मत्वमिति बोध्यम्।
एवं फलं निरूप्य व्यापारं निरूपयतिव्यापारस्त्विति। व्यापारलक्षणं चधात्वर्थफलजनकत्वे सति धातुवाच्यत्वम्। पचतीत्यादौ विक्लित्त्यादिधात्वर्थफलजनकत्वाद्धातुवाच्यत्वाच्च फूत्कारादेर्व्यापारत्वमित्यर्थः। धातुवाच्यत्वमित्येतावन्मात्रोक्तौ विक्लित्त्यादेर्व्यापारत्वप्रसङ्गः। अतो धात्वर्थफलजनकत्वे सतीत्यन्तं विशेषणम्। तावन्मात्रोक्तौ काष्ठैस्तण्डुलं पचतीत्यादौ काष्ठतण्डुलनिष्ठप्रज्वलनावयवसंयोगमार्दवार्हत्वस्वस्वावान्तरक्रिययोर्विक्लित्त्यात्मकधात्वर्थफलजनकत्वाद्व्यापारत्वापत्तौ तृतीयाद्यनापत्तिः। अतो धातुवाच्यत्वमिति विशेष्यम्। तथा च देवदत्तनिष्ठफूत्कारादिव्यापारस्य धातुवाच्यत्वविवक्षणेन काष्ठादिगतक्रियाणां धातुवाच्यत्वाभावान्न दोषः। काष्ठादिगतक्रियाणां धातुवाच्यत्वविवक्षायां तु भवत्येव तासां व्यापारत्वम्। अत एव स्थाली पचति काष्ठानि पचन्तीत्यादि संगच्छते। धातुवाच्यव्यापाराश्रयस्यैव कर्तृत्वादिति भावः। एवं च फलानुकूलो व्यापारो धात्वर्थो बोध्यः। ननु किं करोतीति प्रश्ने यथा पचतीत्युत्तरं भवत्येवमस्तीत्युत्तराभावादस्त्यादीनां क्रियावाचकत्वं न स्यादिति चेन्न, अयमेव फलानुकूलो व्यापारः क्रियाशब्देन भाष्यादिषु व्यपदिष्ट इत्याशयेनव भूषणसारकृता भावनाभिधा साध्यत्वेनाभिधीयमाना क्रिया' इति व्यापारलक्षणस्योक्तत्वात्। वक्ष्यति च ग्रन्थकारोऽपिव्यापारो भावना सैवोत्पादना सैव च क्रिया, इति व्यापारस्यैव क्रियात्वम्। उत्पत्त्यर्थकभूधातुप्रकृतिकण्यन्तात् `ण्यासश्रन्थो युच्' इति भावे युवा निष्पन्नो भावनाशब्द उत्पत्त्यनुकूलब्यापारमाचष्टे। अभिधाशब्दस्तु अभिदधातिजनयति फलमिति व्युत्पत्त्या फलजनकव्यापारमाचष्टे। तत्राभिपूर्वाद्दधातेः `आतश्चोपसर्गे' इति कर्तरि कप्रत्ययः। तथा च भावनाभिधापरपर्याया साध्यत्वेनाभिधीयमानार्थात्मिका क्रिया व्यापार इत्यर्थः। अत्र भावनाभिधेत्युक्तिस्तु व्यापारस्य धात्वर्थत्वेऽपि भावनादिपदवाच्यस्यार्थविशेषस्याऽख्यातार्थत्वमिति भ्रमनिरासार्था। क्रियेत्युक्तिस्तु भवतेर्ण्यन्तस्य शुद्धेन करोतिना तुल्यार्थत्वप्रदर्शनार्थेति बोध्यम्। न चैवं धात्वर्थव्यापारस्य क्रियात्वोक्तौ सामान्यविशेषतया प्रश्नोत्तरभावेन सामानाधिकरण्यात्पच्याद्यर्थव्यापारस्य क्रियात्वसिद्धावषि अस्त्यादीनां क्रियात्वानुपपत्तिः पुर्वोक्ता तदवस्थैवेति वाच्यम्। आसन्नविनाशं कंचिदुद्दिश्य किं करोतीति प्रश्ने अस्तीत्युत्तरस्य सर्वसंमतत्वेनास्त्यादीनामपि क्रियात्वस्य सूपपादत्वात्। क्रियाशब्दप्रवृत्तिनिमित्तस्य `पदान्तरसमभिव्याहारमन्तरा साध्यत्वेन प्रतीयमानत्वस्य' करोतीत्यादाविवास्त्यादावपि सत्त्वेन क्रियात्वस्यायत्नसिद्धत्वाच्च। अत्र साध्यत्वं मुख्यत्वात्पदान्तरार्थनिरपेक्षं स्वतः सिद्धं ग्राह्यम्। पदान्तरार्थसापेक्षस्य तस्य गौणत्वात्। एवं च पदान्तरसमभिव्याहारं विनापि साध्यत्वरूपेण प्रतीयमानत्वं व्यापारत्वमिति यावत्। घटं करोतीत्यादौ करोतिसमभिव्याहारे धटादीनामपि साध्यत्वेन प्रतीयमानत्वादतिव्याप्तिवारणाय पदान्तरादिविनैवेत्यन्तस्य निवेशः। करोत्याद्यसमभिव्याहारे तु घटादीनां सिद्धत्वेनव प्रतीतेः। करोत्यादिप्रयोग एव घटस्य साध्यत्वं प्रतीयते करोतेस्तु सिद्धत्वेनव प्रतीतेः। करोत्यादिप्रयोग एव घटस्य साध्यत्वं प्रतीयते करोतेस्तु स्वतोऽपीत्यर्थः। अधिश्रयणाद्यधः श्रयणान्तक्रियासमूहस्य पदान्तरप्रयोगमन्तराऽपि साध्यत्वेन प्रतीयमानत्वादुक्तव्यापारत्वमक्षतमिति भावः। उक्तार्थस्य निर्मुलत्वं निरसितुमाहउक्तं चेत्यादि। यावदिति। सकलमित्यर्थः। सकलपदार्थमेव विवृणोतिसिद्धमित्यादिना। तथा च द्वैविध्यमेव सकलपदार्थः। अपाक्षीदित्यादो सिद्धं, पचति पक्ष्यतीत्यादावसिद्धं वा वस्तु साध्यस्वरूपेण तत्प्रकारेणाभिधीयमानं क्रियेत्युच्यत इत्यर्थः। किमियं तादृशेऽ(स्वत एव साध्यत्वेन प्रतीयमाने)र्थे क्रियाशब्दस्य रूढिरिति चेन्नेत्याहआश्रितक्रमेति। आश्रितः क्रमो येन(रूपेण)तदाश्रितक्रसं, तदेव रूपं स्वरूपं यस्याः साऽऽश्रितक्रमरूपा, तस्या भाव आश्रितक्रमरूपत्वं तस्मात् क्रियेत्यभिधीयते। क्रियास्वरूपं हियदवयवाः क्रमेणोत्पद्यन्ते तत्। क्रमेणोत्पद्यमानावयवसमूहस्वरूपेति यावत्। अयं भावःआश्रितक्रमरूपत्वादित्येतत्क्रियाशब्दार्थप्रदर्शनम्। तथा च क्रियत इति क्रिया। तत्र केन क्रियते किं च क्रिपत इत्याकाङ्क्षायांप्रत्त्यासत्त्या अवयवानां क्रमेणोत्पत्त्या तद्द्वारा यत्क्रियते साध्यते समूहरूपं वस्तु तत्क्रियेत्युच्यत इत्यर्थः। क्रमिकावयवोत्पत्तिसाध्यसमूहात्मकं वस्त्वेव क्रियास्वरूपमिति यावत्। अनेन क्रियाया आश्रितक्रपरूपत्वं प्रदर्शितम्। क्रमवती क्रियेत्यभियुक्तोक्तविवरणामपि क्रियाया आश्रितक्रमरूपत्वादेव संगच्छते। आश्रितक्रमरूपत्वादेव च क्रियायाः साध्यत्वेन प्रतीतिर्निर्वहतीति वोध्यम्। अधिश्रयणाद्यधःश्रयणान्तानामवयवानां क्रमेणोत्पत्तेः पच्यादिवाच्यव्यापारसमूहस्योक्तरूपं क्रियास्वरूपमक्षतम्। यत्र चाऽऽश्रयतादौ न क्रमिकावयवोत्पत्तिमान् व्यापारस्तत्र क्रमिकावयवोत्पत्तिमत्त्वस्याऽऽरोपः कार्यः। फलेऽपि स्वजनकव्यापारगतक्रमिकावयवकत्वारेपः। अत एव फलमात्रवाच्कस्य क्रियानिबन्धनदातुत्वसिद्धिः। एवं च व्यापारसमुदायः क्रियेति सिध्यति।
ननु भवत्वेवं व्यापारसमूहस्य क्रियात्वं तथाऽपि तस्य साध्यत्वप्रकारेण प्रतीतौ किं प्रमाणमिति जिज्ञासायां क्वचित्क्रियान्तराङ्क्षाक्वचित्क्रियान्तरानाकाङ्क्षादर्शनरूपप्रमाणेन साध्यत्वरूपेण प्रतीतिं ब्यवस्थापयितुमाहपचति पाक इत्यादि। पचतीत्यत्र पच्वातोः, पाक इत्यत्र घञ्प्रत्ययाच्च विक्लित्त्यनुकूलव्यापारस्य धात्वर्थस्य प्रतीतौ समानायामपि पचतिशब्देन क्रियावगतौः पुनः क्रियाया आकाङ्क्षा न भवति अतस्तादृशक्रियागतं क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकरूपं साध्यत्वमित्याहतथा चेत्यादि क्रियान्तराकाङ्क्षोत्थितिप्रतिबन्धकतावच्छेदकतया सिद्धो यो जातिविशेषस्तद्रूपं साध्यत्वमित्यर्थः। इदमेव च कारकान्वययोग्ग्रतावच्छेदकं पूर्वापरीभूतावयत्वसमानाधिकरणं च भवति। सिद्धजातिविशेष एव वैजात्यशब्देन व्यवह्रियते। तच्च वैजात्यमतिरिक्तं पचत्यादिशब्द एव वेत्यन्यदेतत्। तच्च साध्यत्वं सर्वत्रवै धातुप्रतिपाद्यम्। पाक इत्यादौ घञन्तेऽपि पच्धातुना साध्यत्वेनैव क्रियाऽभिधीयते। अत एव ओदनस्य पाक इत्यत्रौदनपदोत्तरं कर्तृकर्मणोरिति कर्मणि षष्ठी सिद्धा। अन्यथा कारकाणां साध्यत्वेन प्रतीयमानक्रियायामेवान्वयनियमात् सा न स्यात्। घञादिना तु सिद्धत्वेन क्रियाऽभिधीयते। पाक इत्युक्ते भवति नष्टो वेत्यादिक्रियान्तराकाङ्क्षोत्थानात्। सिद्धत्वं च क्रियान्तराकाङ्क्षोत्यापकतावच्छेकरूपम्। क्रियाकाङ्क्षोत्थापकतावच्छेदकतया सिद्धो यो जातिविशेषो(वैजात्यं)तद्रूपमित्यर्थः। एवं च पच्धात्वर्थेऽन्वये शोभनं पाकः घञर्थेऽन्वये शोभनः पाक इति साध्यत्वसिद्धत्वव्यवस्थया व्यवस्थितः प्रयोगः। एतच्च ग्रन्थकारोऽप्यग्रे वक्ष्यतिसाध्यत्वेनं क्रिया तत्र धातुरूपनिबन्धना। सिद्धभावस्तु यस्तस्याः स घञादिनिबन्धनः।। इति। तत्रेति पाक इत्यादिघञाद्यन्त इत्यर्थः। विशेषस्त्वग्रे वक्ष्यते। न चैवं हिरुगाद्यव्ययानां क्रियाप्रधानत्वव्यवहारस्य तद्धितश्चेति सूत्रे भाष्ये क्रियमाणस्यानुपपत्तिस्तदर्थानां साध्यत्वेनाभानादिति वाच्यम्। तादृशव्यवहारस्य तदर्थानां क्त्वान्तादिवात्क्रियामात्र विशेषणनिबन्धवनत्वात्। यथा धातुसंबन्धाधिकारविहितक्त्वान्ताद्यर्थस्य व्रजतीत्यादिक्रियामात्रविशेषणत्वं तद्वद्धिरुगाद्यव्ययार्थानां क्रियामात्रविशेषणत्वम्। मात्रपदेन नामार्थनिरूपितविशेषणत्वव्यावृत्तिरित्यर्थः। तथा च गौणस्तत्र तथा व्यवहार इति भावः। हिरुगाद्यर्थानां साध्यत्वेन प्रतीयमानक्रियात्वाभावादेव न तत्र कारकान्वयः। साध्यत्वेन प्रतीयमानक्रियायामेव कारकान्वयनियमात्। हिरुगाद्यर्थानां क्रियान्तराक्वाङ्क्षासत्त्वेन प्रतीयमानक्रियात्वाभावात्। नन्वेवं धातुतः क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकरूपेणापेरिथतौ कृष्णं नमेच्चेत्सुखं यायादित्यत्राऽऽकाङ्क्षाया अभावेन नमनसुखप्राप्तिरूपक्रिययोर्हेतुहेतुमद्भावेनान्वयो न स्यादिति चेन्न। चेच्छव्दसमभिव्याहारसाचिव्योनाऽऽकाङ्क्षोत्थापनात्। परे तुवस्तुतः साध्यत्वं निष्पाद्यत्वमेव। तेनैव रूपेण बोधस्यानुभवसिद्धत्वात्। स्पष्टं चेदं `सुट्कात्पूर्वः' इत्यत्र भाष्ये। तत्र हिधातूपसर्गयोः कार्यमन्तरङ्गमित्याद्युक्त्वा`नैतत्सारं पूर्वं हि धातुः साधनेन युज्यते पश्चादुपसर्गेण, साधनं हि क्रियां निर्वतयति, तामुपसर्गो विशिनष्ठि' इत्युक्तम्। साधनंतद्बोधकः प्रत्ययः, क्रियां निर्वर्तयतिसाध्यत्ववैशिष्ट्येन वोधयति, अतस्तत्प्रयुक्तं कार्यं पूर्वमिति वृद्धास्तदर्थमाहुः। एतद्भाष्यप्रामाण्येन साध्यत्वेन भानमङ्गीकृतम्। तथा च पच्याद्यर्थे साध्यत्वेन ज्ञाते तत्र साधनाकाङ्क्षाया अवस्यंभावित्वात्' साधनाकाङ्क्षोत्थापकतावच्छेदकरूपवत्त्वमेव साध्यत्वम्। अत एव ओदनं भुक्त्वा व्रजतीत्यादौ भुजिक्रियायामोदनमित्यादिकारकाणामन्वयो भवति। अन्यथा धातुसंबन्धे विहितक्त्वाप्रत्ययसमभिव्याहारेण भुजिक्रियाया ब्रजत्यादिक्रियाकाङ्क्षासत्त्वात् क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकरूपसाध्यत्वेनाभानात्तत्रौदनमित्यादिकारकान्वयो न स्यात्। भुजिक्रियाया धात्वर्थत्वं च न स्यात्। साध्यत्वेन प्रतीयमानक्रियायामेव कारकान्वयनियमात्। तादृशोति। साध्यत्वेन प्रतीयमान क्रियाया इत्यर्थः।तादृशक्रियाया एव धात्वर्थत्वाच्च। एवं कृष्णं नमेच्चेदि यादौ चेत्पदेनापि उत्थापिताकाङ्क्षादर्शनात् पूर्वोक्तसाध्यत्वेनाभानादव्याष्त्यादिर्दोष एवेत्याहुः। निरुक्तसाध्यत्वमेवासत्त्वभूतत्वमित्याहतद्रूपवत्त्वमिति। धातुपस्थितक्रियामात्रवृत्तिवैजात्ये सिद्धे सति लाघवात्तस्यैवासत्त्वरूपत्वमङ्गीकर्तुमुचितं न त्वतिरिक्तस्य लिङ्गसंख्याद्यनन्वयित्वादेरित्याशयः। किं तु तत्पूर्वोक्तं वैजात्यं लिङ्गाद्यनन्वयित्वसमानाधिकरणमेव।
एतदेवेति। पूर्वोक्तसाध्यत्वाभिन्नमसत्त्वभूतत्वमनुसंधायैवेत्यर्थः। असत्त्वभूतोभावश्चेति। चकारोऽवधारणार्थः। भाव एवेत्यर्थः। एवकारेण सत्त्वभूतस्य भावस्य व्यावृत्तिः। तिङ्पदैस्तिङन्तपदैः। अभिधीयत इत्यस्य प्राधान्येनेत्यादिः। तथा चासत्त्वभूतो भाव एव तिङन्तपदैः पचतीत्यादिभिः प्राधान्येनाभिधीयत इत्यर्थः। तेन कृदन्तपदैर्विशेषणत्वेनासत्त्वभूतभावप्रतिपादनेऽपि न काचिद्धानिः। अयं चेति। साध्यत्वेन प्रतीयमानक्रियारूपश्चेत्यर्थः। फूत्कारत्वाधःसंतापनत्वादितत्तद्रूपेण पच्यादिशक्य इत्यर्थः। तत्र हेतुमाहपचतीत्याद्यनुभवसिद्धत्वादित्यन्तेन। अत एव पचतीत्यादितः फूत्कारत्वादितत्तद्विशेषरूपेण शाब्दबोधे जातेऽयं फूत्कारादिमान्नवेति संशयो न जायते। सामान्यरूपेण बोधे तु एकतरकोटिनिश्चयाभावेन संदेहापत्तिर्दुर्वारेत्यर्थः। ननु यद्येवमनुभवबलात्पचतीत्यादितः फूत्कारत्वादित्तत्तद्विशेषरूपेण बोधोऽङ्गीक्रियते चेच्छक्यतावच्छेदकानां फूत्कारत्वादीनां नानात्वादेकशक्तेर्वक्तुमशक्यत्वात्पच्यादेर्नानार्थत्वापत्तिः स्यात्। नानाधर्मावच्छिन्नशक्तिनिरूपकतावच्छेदकैकधर्मवत्त्वं हि नानार्थत्वम्। यथा`हरिर्विष्णावहाविन्द्रे भेके सिंहे हये रवौ' इति कोशाद्धरिशब्दस्य सिंहाश्वसूर्येषु सिंहत्वाश्वत्वसूर्यत्वरूपेण शक्तिर्वाच्यताख्या। सा च सिंहत्वादिनानाधर्मावच्छिन्ना(ना.ध. समानाधिकरणा), तादृशशक्तेर्निरूपको हरिशब्दः, तन्निष्ठनिरूपकतावच्छेदको धर्मःहरीतिवर्णानुपूर्वी, सा चैकैवेति तादृशैकधर्मवत्त्वं हरिशब्दे वर्तत इति कृत्वा हरिशब्दो नानार्थक इति लक्षणसमन्वयः। तच्च पच्यादीनामक्षतमिति भावः। नानार्थत्वापत्तिं परिहर्तुमाहतदादिन्यायेनेति। तदिदमादिशब्देभ्यो घटपटादयोऽनेकार्था घटत्वादितत्तद्विशेषधर्मपुरस्कारेण यद्यपि प्रतीयन्ते तथापि न ते हर्यादिशब्दवदनेकार्था इत्युच्यन्ते। यतो घटत्वादिनानाधर्मावच्छिन्नानुगतबुद्धिविषयत्वरूपैकधर्मपुरस्कारेण तेभ्यो नानाधर्मशलिनोऽर्थाः प्रतीयन्ते। अनुगतैकधर्मपुरस्कारेण नानाधर्मशाल्यर्थप्रत्यायकस्य च नैव नानार्थकत्वम्। द्रव्यत्वेन घटपटाद्यर्थप्रतिपादकद्रव्यशब्दवत्। अननुगतनानाधर्मावच्छिन्नशक्तिनिरूपकतावच्छेदकैकधर्मवत्त्वस्यैव नानार्थत्वात्। नन्वेवं येन रूपेण बोधस्तस्यैव शक्यतावच्छेदकत्वौचित्याच्छक्यतावच्छेदकस्य च तत्पदशक्तिग्रहविषयत्वेन घटपदाद्घटत्वस्येव बुद्धिविषयत्वस्य तदादिपदजन्यशाब्दबोधे भानापत्त्या घटत्वादितत्तद्विशेषरूपेणेष्यमाणो बोधस्तदादिभ्यो न स्यादिति चेन्न। बुद्धिविषयत्वस्योपलक्षणत्वादुपलक्षणस्य च तत्पदशक्तिग्रहाविषयत्वेन शाब्दबोधे भानाभावे नादोषात्। उपलक्षणत्वं चतत्पदजन्यबोधविषयत्वेन तत्पदशक्तिग्रहाविषयत्वम्। तदुक्तं वैयाकरणभूषणकारैः`बुद्धिविषयत्वरूपेणोपस्थितघटत्वादिशालिषु बुद्धिविषयतावच्छेदकवति शक्तं तदादिपदमित्येव तदादेः शक्तिग्रहः। बुद्धिविषयत्वमुपस्थितावनुगमकमात्रं न तु तदंशे शक्तिः' इति। सोऽयं तदादिन्यायः। तद्वत्प्रकृतेऽपि शक्यतावच्छेदकानां फूत्कारत्वादीनामनुगमकस्यशक्य तावच्छेदकावच्छेदकस्य बुद्धिविशेषादेःफूत्कारादिविषयकबुद्धेः सत्त्वेन, बुद्धिविषयत्वरूपेणोपलक्षणीभूतेन बुद्धिविशेषेण फूत्कारादिविषयकबुद्धेः सत्त्वेन, बुद्धिविषयत्वरूपेणोपलक्षणीभूतेन बुद्धिविशेषेण फूत्कारत्वादीनानुगमय्य तदवच्छिन्ने पच्यादीनां शक्तेः स्वीकरणसंभवान्न नानार्थत्वपत्तिः। शक्यतावच्छेदकनानात्वेऽपि शक्यतावच्छेदकवच्छेदकस्यैकस्यैव संभवादिति भावः। बुद्धेः शक्यतावच्छेदकत्वं विषयतासंबन्धेन। आदिना बुद्धिविशेषविषयत्वस्य परिग्रहः। अत्र केचित्नानार्थत्वपरिहाराय फूत्कारादिसकलैतत्साधारणं क्रियात्वं नाम धातुवाच्यत्वसमानाधिकरणं जातिविशेषं परिकल्पयन्ति। स च जातिविशेषो जलपदशक्यतावच्छेदकतया जलत्वसिद्धिवत् क्रियापदशक्यतावच्छेदकतया सिध्यति। तथा च क्रियात्वेन रूपेण फूत्कारादीनां प्रतीतेः पच्यादीनां नैव नानार्थत्वमित्याहुः। तन्न। येन रूपेण बोधस्तस्यैव शक्यतावच्छेदकत्वनियमात्तत्तद्विशेषरूपेण बोधानापत्तेः। न च पच्यादिसमभिव्याहारबलाद्विशेषरूपेण बोधः स्यादिति वाच्यम्। सामान्यरूपेण विशेषरूपेण चेत्युभयरूपेण बोधकल्पनया गौरवापत्तेः। किंच कल्प्यमानधर्मपुरस्कारेण शाब्दबोधो नेष्टः। अन्यथा सैन्धवादिपदशक्यतावच्छेदकतयाऽश्वलवणादिवृत्त्येकधर्मकल्पनापत्त्या तत्रापि नानार्थत्वोच्छेदापत्तिः। अश्वत्वादिनैव प्रतीतेरनुभवसिद्धत्वान्न तत्र धर्मान्तरकल्पना युज्यत इति चेत्। समैवात्रापि फूत्कारत्वादिनैव प्रतीतिरनुभवसिद्धेति हर्यादिशब्दवत्पच्यादीनां नानार्थत्वमिष्टमेव। तदादिशब्दानां तु बुद्धिविषयत्वात्प्रकसामान्यरूपेणैव बोधकत्वस्य `शेषे' इत्यादिसूत्रस्थभाष्यादितो लाभादिति परे वदन्ति। आख्याते क्रियैकत्वेति। अयं भावःक्रमेणोत्पद्यमानावयवधटितो व्यापारसमूहः क्रियेत्युक्तम्। तत्रावयवव्यापाराणामनेकत्वात्क्षणनश्वराणां क्रमवतां तेषां युगपत्संनिधानासंभवेन समूहाभावात् समूहगतैकत्वाभिप्रायेणैका क्रियेति वक्तुमशक्यत्वाच्चां `आख्यातेनैका क्रिया प्रत्याय्यते' इति व्यवस्थाया अनुपपत्तौ प्राप्तायां त व्यवस्थामुपपादयतिव्यवस्थाऽपीत्यादिना। व्यवस्थाऽपि एका क्रियेति नियमोऽपि अपिर्नानार्थत्वानापत्तिसमुच्चायकः। अवच्छेदकेति। अधिश्रयणाद्यधःश्रयणान्ता व्यापाराः शक्याः। तन्निष्ठशक्यतावच्छेदका धर्मा अधिश्रयणत्वादयः। तेषामप्यवच्छेदको यो बुद्धिविशेषस्तदेकत्वं गृहीत्वेत्यर्थः। येन रूपेण शक्यता स धर्मः शक्यतावच्छेदकः। अधिश्रयणत्वादीनां शक्यतावच्छेकानां बुद्धिविषयत्वरूपेण शक्यता संपन्नेति विषयतासंबन्धेन शक्यतावच्छेदकतावच्छेदको धर्मो बुद्धिः। सा च बुद्धिः समूहालम्बनरूपा एकैवेति तादृशबुद्धिगतमेकत्वमधिश्रयणादिव्यापारेष्वारोप्य क्रियैकैवेति व्यवस्थेति भावः। अथवा तादृशबुद्धिस्थसमूहगतमेकत्वं गृहीत्वैवेत्यर्थः। स्वोक्तार्थे वाक्यपदीयं प्रमाणयतिउक्तं चेत्यादिना। गुणभूतैरिति। क्रमेण जन्म येषां तेषां बुद्धिस्थानामधिश्रयणादीनां व्यापाराणां समूहं प्रति गुणभूतैस्तत्तद्रूपेण फूत्कारत्वादिना भासमानैरवयवैर्युक्तः संकलनात्मिकया(समूहालम्बनात्मिकया)एकत्वविषयकबुद्ध्या प्रकल्पितो योऽभेदस्तद्रूपो य