Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्


तथा चक्षिङो ङित्करणात् – 

अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्।९७।

तेन 'स्फायन्निर्मोक' इत्यादि सिद्धम्॥९७॥

 


कामाख्या

ङित्करणादिति। न चात्रेकारो नानुदात्त इति वाच्यम्। विचक्षणाः आख्यानमित्यत्र 'अनुदात्तेतश्च हलादे'रिति युचोविधानार्थन्तस्यावश्यकत्वात्। न च ङकाराभावे 'इदितो नुमि'ति नुम् स्यात्। तत्सत्त्वे तु अन्तेदित्वविरहान्नेति वाच्यम्। इकारस्य स्थानेऽकारस्य पाठेनापि नुमभावसिद्धेः। अनुदात्तेत्वलक्षणम्। 'अनुदात्तङित आत्मनेपद'मिति सूत्रविहितमित्यर्थः। तेन ङित्वप्रयुक्तमपि क्वचिन्न, तेन सख्यः शपामि इत्यादेः साधुत्वम्। स्फायन्निति। अत्र धातोरनुदात्तेत्वेऽपि परस्मैपदसिद्धिः॥९७॥

नास्ति।