Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्

ननु 'अवतप्ते नकुलस्थितमि'त्यादौ नकुलस्थितशब्दस्य क्तान्तत्वाभावात् समासो न स्यादत आह-

कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्।२८।

अस्याश्च कर्मणि क्तान्त उत्तरपदेऽनन्तरो गतिः प्रकृतिस्वर इत्यर्थके 'गतिरनन्तरः' इति सूत्रेऽनन्तरग्रहणं ज्ञापकम्। तद्धि 'अभ्युद्धृतमि'त्यादावतिव्याप्तिवारणार्थम्। 'प्रत्ययग्रहण'परिभाषयोद्धृतस्य क्तान्तत्वाभावादेवाप्राप्तौ तद् व्यर्थं सदस्या ज्ञापकम्। न च 'अभ्युद्धृतमि'त्यादौ परत्वाद् 'गतिर्गतौ' इत्यनेनाभेर्निघात एवेति वाच्यम्, पादादिस्थत्वेन पदात्परत्वाभावेन च तदप्राप्तेः। अनन्तरग्रहणे कृते तु तत्सामर्थ्याद् गत्याक्षिप्तधातुनिरूपितमेवानन्तर्यं गृह्यत इति न दोषः। न च 'अभ्युद्धृतमि'त्यादावभिना समासेऽनन्तरस्योदः पूर्वपदत्वाभावेऽपि स्वार्थं तदिति वाच्यम्, 'कारकाद्दत्त' इति सूत्रे कारकादिति योगं विभज्य गतिग्रहणमनुवर्त्य कारकादेव परं गतिपूर्वपदं क्तान्तमन्तोदात्तमिति नियमेन थाथादिस्वराप्राप्त्या कृत्स्वरेणोद उदात्तत्वसिद्धेः। तस्मादनन्तरग्रहणं व्यवहितनिवृत्यर्थमेवेति ज्ञापकमेव। यत्र गतिकारकसमभिव्याहृतं कृदन्तं तत्र कृद्ग्रहणे तद्विशिष्टस्यैव ग्रहणम्, अपिशब्दात्तदसमभिव्याहृतस्य केवलस्यापीति तदर्थः। अन्यथा अनया कृद्ग्रहणविषये परत्वात् 'प्रत्ययग्रहण'परिभाषाया बाध एव स्यादित्यपि ग्रहणम्। अत एव 'साङ्कूटिनमि'ति 'गतिकारकोपपदानाम्' इति 'कृद्ग्रहण' इति च परिभाषाभ्यां कृदन्तेन समासे कृते विशिष्टादेवाणि सिध्यति, न तु 'सङ्कौटिनमि'तीति 'पुंयोगादि'ति सूत्रे भाष्योक्तं सङ्गच्छते। अन्यथा तत्र केवलं कूटिन्नित्येतस्यापीनुणन्तत्वात्ततोऽपि पाक्षिकदोषो दुर्वार एव स्यात्। स्पष्टं चेदं सर्वं 'समासेऽनञ्पूर्वे' इति सूत्रे भाष्यकैयटयोः। 'गतिरनन्तरः' इत्यत्र तु गतेः पूर्वपदस्य क्तान्त उत्तरपदे परे कार्यविधानात्तत्समवधानेऽपि केवलस्य क्तान्तत्वेन ग्रहणं बोध्यम्। इयं च कृत्सामान्यग्रहणे कृद्विशेषग्रहणे च, न तु कृदकृद्ग्रहण इति 'अनुपसर्जनादि'ति सूत्रे भाष्ये स्पष्टम्॥२८॥

 

कामाख्या

प्रत्ययग्रहणपरिभाषया क्तान्ततदादिप्रकृतिकसुबन्तेन सह सप्तम्यन्तः समस्यत इत्यर्थे नकुलस्थितशब्दस्य तथात्वाभावेन समासो न स्यादतः परिभाषामाह कृद्ग्रहण इत्यादि। कृन्मात्रविषयताप्रयोजकं पदं स्वविशिष्टस्य ग्राहकमिति परिभाषार्थः। वै. स्वनिष्ठचरमावयवतानिरूपकत्व स्वविशिष्टघटितत्वोभयसम्बन्धेन अत्र वै. स्वेतरत्व स्वनिष्ठविधेयतानिरूपितोद्देश्यताश्रयेतरत्व स्वनिष्ठविधेयतानिरूपितोद्देश्यताश्रयाव्यवहितपूर्वत्वविशिष्टगतिकारकान्यतरेतरत्व त्रितयसम्बन्धेन। नकुलस्थितशब्दे लक्षणसमन्वयः स्वयमूहनीयः। अनया परिभाषया कृद्विशिष्टे कृदन्ततदादित्वारोपो बोध्यते अपि शब्दबलात्। तेन कृदन्ततदादित्वेनैवोभयोर्ग्रहणम्। एवं च न गौरवम्। अत्र ज्ञापकमाह अस्याश्चेति। इत्थमत्र स्वरप्राप्तिक्रमः उच्छब्दहृतशब्दयोः कुगतिसमासे समासस्वरस्यादौ प्राप्तिः ततोऽव्ययपूर्वपदप्रकृतिस्वरस्य ततो गतिकारकोपपदादित्यस्य ततस्थाथघञन्तेत्यस्य तद्गतिरनन्तर इति बाधत इत्याद्युदात्त उद्धृतशब्दः। ज्ञापनोत्तरं चारितार्थ्याभावं शङ्कते न चाभ्युद्धतमितिपदात् परत्वाभावेन चेति। न च कुत्सने 'वा सुपी'त्यतः प्रागेव पदादित्यस्य निवृत्तौ गतिर्गताविति सूत्रे तत्सम्बन्धासम्भवादिदमयुक्तमिति वाच्यम्।चो हेतौ यतः पदात् परत्वाभावोऽतः पादादिस्थत्वमित्याशयवर्णनेनादोषादिति केचित्। ननु परिभाषास्वीकारेऽपि उद्धृतशब्दस्य क्तान्तेन ग्रहणादभेस्तदनन्तरत्वमेवेति कथमनन्तरग्रहणं चारितार्थ्यमित्यत आह अनन्तरग्रहणे इति। यावता विना न चारितार्थ्यन्तावद्ज्ञाप्यमिति न्यायादिति भावः। परिभाषाज्ञापनम्विनापि अनन्तरग्रहणं चारितार्थमित्याशयेन शङ्कते न चेत्यादिनाअभिना समासे। आद्युदात्तोद्धृतशब्दस्येति शेषः। तदिति अनन्तरग्रहणम्। अयं भावः - बहुव्रीहौ प्रकृत्येति सूत्रात् पूर्वपदग्रहणानुवृत्तौ कर्मक्तान्तोत्तरपदे प्रत्यासत्या तत्समासावयवः पूर्वपदप्रकृत्येति पर्यवसितोऽर्थोऽनन्तरग्रहणाभावे स्यात्। तथा चैतत्समासेउदात्तत्वाभावेन स न स्यात् किन्तु पूर्वोक्तरीत्या थाथादिस्वरस्य सतिशिष्टत्वादुद्धृतशब्दस्यान्तोदात्तत्वमेव स्यादिति। उदात्तत्वसिद्धेः। 'गतिकारकोपपदादि'त्यनेनाद्युदात्तत्वसिद्धिरित्यर्थः। परिभाषार्थमाह यत्रेत्यादिनातदसमभिव्याहृतेति। 'समासेऽनञ्पूर्व' इति सूत्रे अकृत्वेत्यादौ ल्यबादेशवारणायानञ्पूर्वग्रहणं कृतम्। तच्च तदसमभिव्याहृतस्य ग्रहण एव चरितार्थमिति तत्करणमत्रार्थे मानम्। अन्यथा। अपि शब्दाभावे। परत्वादिति। अन्यत्र चारितार्थ्याभावेन परत्वादित्यस्यासंगत्याऽपवादत्वादित्यर्थ इति केचित् । वस्तुतस्तु व्यावक्रोशीत्यादौ स्त्रीप्रत्यये चानुपसर्जनेनेत्यनया प्रत्ययग्रहणपरिभाषाया निषेधात्तत्र गतिविशिष्टत्वस्य णजन्तत्वसंपादनेनास्याश्चारितार्थ्यात्। अतएवेति। तत्समभिव्याहारे केवलस्याग्रहणादेव। अपि शब्दाभावे केवलस्य कूटिन्नित्यस्य कृदन्तत्वमनया परिभाषया न स्यात्। एवं च गतिकारकोपपदानामित्यस्य प्रवृत्तिर्न्न स्यात्। यदि परिभाषैव न स्यात्तदा संकूटिन्नित्यस्येणुनन्तत्वन्न स्यादिति तादृशसमुदायादणप्रत्ययो न स्यादिति भावः। अन्यथा। गतिकारकसमभिव्याहृतकृदन्तं यत्र तत्र तद्विशिष्टस्यैव ग्रहणमिति नियमाभावे। ननु तत्समभिव्याहारे केवलाग्रहणे उद्धृतं पुरोहितमित्यत्र हृतादिशब्दस्य क्तप्रत्ययान्तत्वेनाग्रहणाद् गतिरनन्तर इति स्वरो न स्यादित्याशङ्क्यसमाधत्ते। गतिरनन्तर इतीति। अत्र सूत्रसामर्थ्यात्केवलस्य ग्रहणेऽपि अन्यत्र 'समासेऽनञ्पूर्व' इति सूत्रस्य भाष्यकैयटबलादग्रहणमेवेति भावः। कृत्सामान्येति। तेन विष्णुसुकृतमित्यत्र कर्तृकरणे कृता बहुलमिति सूत्रेण विष्णुनेति तृतीयान्तस्य सुकृतशब्देन समासः। 'गतिकारकोपपदादि'ति कृदुत्तरपदप्रकृतिस्वरेण मध्योदात्तत्वं च सिध्यति। विशेषेति। एतत्फलं सांकूटिनम्। नत्विति। तेन बहुसुरागिणीनगरीत्यत्र 'नेःस्त्रिया'मिति कप्न तत्रेनस्तद्धितस्यापि ग्रहणात्। अनुपसर्जनादिति। तत्र हि 'टिड्डे'ति सूत्रेऽण्शब्दस्य कृदकृद्बोधकत्वेनास्या अप्रवृत्तौ द्वितदन्तविध्याभावे केवलात् कारशब्दादेव ङीप् स्यादित्युक्तमिति दिक्॥२८॥

परिभाषार्थमञ्जरी

समासो न स्यादिति। 'क्तेनाहोरात्रावयवा' इत्यतः क्तेनेत्यनुवर्त्त्य ‘क्षेपे’ इति सूत्रेण विधीयमानो न स्यात् इत्यर्थः। कर्म्मणि क्तान्त इति। क्ते चेति सूत्रात् क्तग्रहणं 'तृतीया कर्मणी'ति सूत्रात्कर्म्मग्रहणं चानुवर्त्तत इति भाव:। प्रकृतिस्वर इति। इत्थं हि स्वरक्रमः। उच्छब्दस्य धृतशब्देन 'कुगती'ति समासे समासस्येत्यन्तोदात्तः प्राप्तः तं बाधित्वा 'तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्या' इत्यव्ययपूर्वपदप्रकृतिस्वरः, ततः कृत्स्वरो 'गतिकारकोपपदात् कृत्' इत्यनेन प्राप्तः। ततो 'थाऽथघञक्ताऽजऽबित्रकाणाम्’ इत्यन्तोदात्तः प्राप्तः तमप्ययं स्वरो बाधते। एवं च उच्छब्दस्योदात्तत्वं पर्य्यवस्यति। अभिना समास इति। आद्युदात्तोऽभि[1]शब्दस्येति शेषः। स्वरार्थमिति।अयं भाव: - अनन्तरग्रहणाभावे 'बहुव्रीहौ प्रकृत्या पूर्वपदमि'ति पूर्वपदाग्रहणानुवृत्तौ कर्म्मक्तान्ते पूर्वपदभूतो गतिः प्रकृत्येति सूत्रार्थे तत्त्वस्योदोभावेन स न स्यादिति किन्तु धृतशब्दस्य क्तान्तत्वेन सति शिष्टथाथादिस्वरेणान्तोदात्तत्वं स्यात्। उदात्तत्व सिद्धेरिति। 'गतिकारकोपपदात्कृदि'त्यनेनाद्युदात्तत्वसिद्धेरित्यर्थः। ज्ञापकमेवेति। नन्वनन्तरग्रहणस्यान्यार्थत्वं वदतो मते परिभाषाया अभावेनोद्धृतस्य क्तान्तत्वाभावादेवान्तोदात्तता प्राप्त्या अनन्तरग्रहणस्य तद्वारकताया[2] वक्तुमशक्यत्वेन ज्ञापकत्वस्य स्वस्थत्वेन[3] शङ्कासमाधानपरं भाष्यमसंगतमेव। न च पूर्वां परिभाषामादाय तत्प्रवृत्तिरिति वाच्यम्। त्वदुक्तरीत्यैवअपूर्वान्तामादाय उद्धृतशब्दस्य क्तान्तत्वेन तस्मिन्परतोऽभीत्यस्य स्वरप्राप्तौ तदभावाय अनन्तरग्रहणस्यावश्यकत्वे ज्ञापकत्वस्यैव वक्तुमशक्यत्वेन मूलोच्छेदापत्तेः। न च भाष्यकृतस्तत्परिभाषाज्ञाने[4]ऽपि सूत्रकृतो न ज्ञानम्। एवञ्च तन्मते विशिष्टस्य क्तान्तोत्तरपदत्वाभावेन तस्मिन् परतोऽभेस्तदप्राप्त्याऽनन्तरग्रहणं ज्ञापकमेवेति वाच्यम्। सूत्रकृत्कृतथाथादिस्वरस्याप्यप्रवृत्तौ भाष्यस्य निर्दलत्वापत्तेः। नहि थाथादिस्वरप्रवृत्तौ सूत्रकृतस्तत्परिभाषाज्ञानम् अस्मिंस्तु नेति युक्तिमत्। न हि भाष्यकारः स्वातन्त्र्येण प्रवृत्तः किन्तु सूत्रमादायैव। न च अनन्तरग्रहणेन पूर्वाचार्यपठिता परिभाषा इह शास्त्रे आश्रीयत इति ब्रूमः। न तु तेन सा ज्ञाप्यत इति ब्रूम इति वाच्यम्। तथा सति भाष्यस्थशङ्कासमाधानयोरुज्जीवनेप्यनन्तरग्रहणवैयर्थ्यस्यानुज्जीवनात्। नह्यत्र पक्षेऽभेः स्वराप्राप्तिर्य्येन तद्वैयर्थ्यस्योज्जीवनं स्यात्। किन्तु अपूर्वपरिभाषयोद्धृतस्य क्तन्तत्वेन तस्मिन् परतोऽभे: प्राप्तस्वरवारणाय तस्य सार्थक्यमेव स्यात्[5]। अनन्तरग्रहणं ज्ञापयतीति भाष्याक्षरस्वारस्यं चोल्लङ्घितं स्यादिति चेन्न। अनन्तरग्रहणेन परिभाषायां ज्ञापितायां स्वस्मिन् चारितार्थ्यं विना ज्ञापकत्वस्य वक्तुमशक्यत्वात्। तथाहि उद्धृतस्य क्तान्तोत्तरपदत्वेन तस्मिन् परतोऽभे: स्वरप्राप्तानन्तरग्रहणेन न भवतीति वक्तव्यम्। तदेव न। सत्यामपि परिभाषायामभेः स्वरो नैव स्यात्। एकगतिके कर्म्मक्तान्ते चरितार्थस्य 'गतिरनन्तर' इत्यस्यान्यार्थक्तान्ते चरितार्थेन थाथादिसूत्रेण गतिद्वयके परत्वाद्गतिरनन्तर इत्यस्य बाधात्। एवञ्चाभेः स्वरो नैव प्राप्त इति अनन्तरग्रहणस्य स्वस्मिंश्चारितार्थ्यं दुर्निरूपं किन्त्वन्यदेव ज्ञापकं स्यात्। तच्चेत्थं परेण थाथादिस्वरेण बाधादभेः स्वराप्राप्त्याऽनन्तरग्रहणं व्यर्थम्। तेन थाथादिस्वरो वारणीय:। विशिष्टस्य क्तान्तत्वाभावेन स तु न प्राप्नोतीति व्यर्थं सदस्याः ज्ञापकम्। ज्ञापिते तु थाथादिस्वरप्राप्त्याऽनन्तरग्रहणेनापूर्वपदत्वेऽपि तद्बाध इति स्वस्मिँश्चारितार्थ्यं योगविभागेन तथा थाथादिस्वरवारणे तु तस्य फलान्तराभावेन निष्प्रतिपक्षप्राप्ताभिस्वरवारणाय अनन्तरग्रहणं ज्ञापकं सच्चरितार्थम्। तस्माच्चारितार्थ्यविघटिकैव शंका न तु ज्ञापकत्वाभावप्रतिपादिका पूर्वोक्तयुक्तेः। नन्वनन्तरग्रहणं किमर्थमित्युपक्रम्य शङ्कासमाधानादिकं कृत्वा सूत्रशेषे एवं सिद्ध्यतीति ज्ञापकमुक्तं भाष्ये। [6]भवदुक्तरीत्या तु पूर्वं ज्ञापकमेव वक्तव्यं स्यादिति भाष्यविरोध इति चेन्न। 'पाठक्रमादर्थक्रमो बलीयानि'ति न्यायाद्भाष्यविरोधस्य सुखेन परिहृतत्वादिति संक्षेप:। पुंयोगादितीति। तत्र हि कृद्ग्रहणपरिभाषामुपक्रम्य तत्फलमुक्तम्। सांकूटिनमिति। पश्चादेवमप्येकदेशस्य इनुणन्तत्वेन एकदेशादेव 'अणिनुण' इत्यण् स्यादिति शङ्किते अनया समाहितम्॥२८

[1]उद्धृत इति खे,गे

[2]वारकतायाम् इति के

[3]सुस्थत्वे इति के,खे

[4]ज्ञापनेऽपि इति गे

[5]किन्तु अपूर्वपरिभाषयोद्धृतस्य क्तन्तत्वेन तस्मिन् परतोऽभे: प्राप्तस्वरवारणाय तस्य सार्थक्यमेव स्यात्। इति पाठः खे नास्ति।

[6]त्वदुक्तरीत्या इति पाठस्तु ग-पुस्तके अस्ति।