संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति
नन्वेवं 'तरप्तमपौ घः' इत्यादिना तरबन्तादेः संज्ञा स्यादत आह -
संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति।२७।
'सुप्तिङन्तमि'त्यन्तग्रहणमस्यां ज्ञापकम्। न च प्रत्यययोः पदसंज्ञायामपि 'प्रत्ययग्रहण'-परिभाषया तदन्तग्रहणसंभावात् ज्ञापितेऽपि फलाभाव इति वाच्यम्, पदसंज्ञायाः 'स्वादिष्वि'ति विषये प्रकृतिनिष्ठतया पदग्रहणस्य प्रत्ययमात्रग्रहणत्वाभावात्। 'सुप्तिङन्तम्' इति सूत्रे भाष्ये स्पष्टा॥२७॥
कामाख्या
नन्वेवमिति प्रत्ययग्रहणपरिभाषया तरबन्ततदादेर्घसंज्ञायां कुमारीब्राह्मणितरेत्यत्र कुमारीशब्दस्यैव ह्रस्वापत्तिरत आह संज्ञाविधाविति। संज्ञानिष्ठविधेयतानिरूपितसाक्षादुद्देश्यताप्रयोजकप्रत्ययवृत्तिविषयताप्रयोजकं पदं स्वान्तवृत्तिविषयताप्रयोजकन्न भवतीति परिभाषार्थः। तेनार्थवत्सूत्रे निषेधो न। न चैवं कृदतिङित्यत्र निषेधो न स्यादिति वाच्यम्। अतिङितिप्रसज्यप्रतिषेधमाश्रित्य प्रत्ययः कृत्संज्ञको भवति। न तिङित्यर्थकरणेनादोषात्। 'सामन्त्रित'मित्यत्र महसंज्ञाकरणेनैव निषेधाप्रवृत्तिः। कृन्मेजन्तः क्त्वातोसुन्कसुन इत्यादौ तदन्तविधेः प्रयोजनमव्ययसर्वनामसंज्ञायामिति भाष्यबलादेव तदन्तविधिः। एषु तदन्तविधिसिद्ध्यर्थं शब्दस्वरूपाध्याहारस्यावश्यकत्वेन संज्ञानिष्ठविधेयतानिरूपितसाक्षात्प्रत्यय-निष्ठोद्देश्यताया अभावात्। यः प्रत्ययस्य इत्यत्र निषेधाप्रवृत्त्या प्रत्ययान्तस्यादिःष इत् स्यादित्यर्थे षण्णामित्यत्र षस्येत्वापत्तिरिति तु न शङ्कनीयम्। संज्ञानिष्ठविधेयतानिरूपितसाक्षात्प्रत्ययप्रत्ययावयवान्यतरनिष्ठोद्देश्यताप्रयोजकपदघटितशास्त्रघटकप्रत्ययपदं स्वान्तवृत्तिविषयताप्रयोजकन्न भवतीत्यर्थेनादोषात्। वस्तुतस्तु प्रत्ययग्रहणपरिभाषोपस्थिततदादिपदस्य एतत्परिभाषाप्रवृत्तिस्थले पञ्चम्यन्तत्वकल्पनेन प्रत्ययग्रहणे चापञ्चम्या इति निषेधात्तदन्तविधेरप्राप्त्या दोषाभावेन परिभाषाया नोपयोग इति तत्वम्। ज्ञापकमिति। न चान्तग्रहणसत्वे तदादिविशेष्यकतदन्तविधौ सुबन्ततदाद्यन्तस्य पदसंज्ञा तदभावे सुबन्तस्यैवेति फलभेद इति वाच्यम्। विशेष्यान्तरासत्वे एव तदादिविशेष्यकतदन्तविधिविधानेनात्र विशेष्यान्तरस्यान्तपदस्य सत्त्वेन तदन्तविधेरसम्भवात्। ज्ञापकतापरभाष्यविरोधाच्च। अन्तशब्दस्य स्वांशे चारितार्थ्याभावेन कथं ज्ञापकत्वमित्याशयेनाशङ्कते। न चेत्यादि। फलाभावः। चारितार्थ्याभावः। अन्यत्सुगमम्॥२७॥
परिभाषार्थमञ्जरी
नन्वेवं तरप्तमपेति। नन्वेतत्परिभाषाभावे घसंज्ञायां तरबाद्यन्तग्रहणे विधौ तस्यैवोपस्थितौ[1] तरबाद्यन्ते परतः कुमारीब्राह्मणितरेत्यादौ ह᳙स्वे 'उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणन्ने'ति परिभाषा व्यर्थ्या स्यादिति चेन्न। रूपबादौ तस्याश्चारितार्थ्यात्। अत्र संज्ञाविधावित्यस्य सम्बन्धसामान्यषष्ठ्या [2]संज्ञासम्बन्धिविधाविति नार्थ: तथा सति 'निष्ठे'ति विधीयमानो निष्ठान्तस्य पूर्व्वनिपातो न स्यात्तदन्तनिषेधादपितु भावे किप्रत्ययान्तविधिशब्दयोगे कर्म्मषष्ठ्या संज्ञाकर्म्मके विधावित्यर्थः। न च घरूपादौ सप्तमीनिर्देशेन पञ्चम्यन्ताक्षेपे 'प्रत्ययग्रहणे चापञ्चम्या' इत्यनयैव गतार्थत्वात् 'उत्तरपदे'ति परिभाषा व्यर्थेति वाच्यम्। आक्षेपे आक्षिप्तस्य शाब्देऽन्वये[3] वा मानाभावात्। पूर्व्वोक्तस्य तासीत्यादौ तु धातोरित्यधिकारादेव न दोषः। न च भवन्मते आक्षेपाभावेन[4] 'अपञ्चम्या' इति निषेधाप्रवृत्तेः संज्ञाविधौ तदन्तग्रहणेऽपि विधिप्रदेशेषु[5] घादौ तदन्तग्रहणं दुर्व्वारम्। न चोत्तरपदेति निषेधान्नेति वाच्यम्। लाघवरूपान्मानाद्गत्याक्षिप्तधातुनिरूपित इत्यग्रिमपरिभाषायां त्वयापि तदङ्गीकाराच्च। आक्षेपं स्वीकृत्य चापञ्चम्या इति निषेधानुवादकत्वस्योत्तरपदे इति निषेधस्वीकारादिति वाच्यम्। संज्ञाविधावित्यस्य वैयर्थ्येन विधौ तदन्ताग्रहणात्। न च निष्ठासंज्ञायां चारितार्थ्यम्। तत्र तदन्तग्रहणेऽपि न दोषः। निष्ठेत्यादिपूर्व्वनिपात[6]विधायके तदन्तग्रहणस्येष्टत्वात्। न[7] च असत्यामेतस्यां संज्ञासूत्रे तदन्तस्य संज्ञायां विधिदेशे तदन्तस्योपस्थितौ तस्योत्तरपदविशेषणे तरबान्द्यन्ते गौरीपरमब्राह्मणितरेत्यत्र गौरीत्यस्य ह᳙स्वः स्यात्। सत्यामेतस्यां तुप्रत्ययमात्रस्य संज्ञायां विधिप्रदेशे तस्योपस्थितौ तरबाद्यन्ते इत्यर्थे[8] पूर्व्वोक्तोदाहरणे ह᳙स्ववारणेनैव चारितार्थ्येन[9] कथं वैयर्थ्यमिति चेन्न। तदन्तस्य संज्ञायामपि विधिप्रदेशे तदुपस्थितौ विशेषणविशेष्यकामचारादूत्तरपदरूपे तरबन्ते इत्यर्थात्पूर्वोक्तोदाहरणे प्राप्तेरेवाभावेन[10] तद्वैयर्थ्यस्य स्पष्टत्वात्। न चैतावतापि रूपबादौ दोष एवेति चेत्तर्हि 'हृदयस्य'ति सूत्रस्थज्ञापकपरभाष्येणानुवादकतया वक्तुमशक्यत्वात्। एतेन संज्ञाविधावित्यत्र कर्म्मषष्ठ्या करणतृतीयान्तेन सम्बन्धसामान्यषष्ठ्या वा समासे विधिप्रदेशे तरबाद्यन्तग्रहणं संज्ञाविधौ निषेधाप्रवृत्तिः 'निष्ठे'ति पूर्व्वनिपाते च क्रमेण दोषमुद्भाव्यात्र शेखर: संज्ञाकर्म्मके विधानेन तावदयं निषेधः। संज्ञाविधौ 'घरूपे'त्यदौ त्वेतन्निषेधसामर्थ्यात्तदन्तविधिर्न भविष्यतीति शेखरं घुसंज्ञासूत्रे उपपाद्य इदन्तु प्रदीपकृदुक्तदूषणविस्मरणमूलकम्। तथा हि यदि संज्ञाविधिप्रदेशेअत्र संज्ञया विधौ, संज्ञाया विधौ चोभयमपि[11] तदन्तविधिः स्यात् तरबन्तान्ते गौरीपरमब्राह्मणितरेत्यत्र ह्रस्वः प्रसज्येत स मा भूत् संज्ञया[12] विधौ एव तदन्तविधिना तरबन्ते परतो गौरी ब्राह्मणितरेत्यादौ ह्रस्वार्थं निषेधसार्थक्येन सामर्थ्याभावात्। तर्हि घान्ते ह्रस्वः कस्मान्न भवति 'प्रत्ययग्रहणे चापञ्चम्या' इति निषेधादिति ब्रूमः। परसप्तमीनिर्देशेन हि योग्यपञ्चम्यन्तोऽवधिराक्षिप्यते इति 'उत्तरपदे'ति निषेधो नापूर्व इति दूषयन्तः प्रकारान्तरेण समाधानं कुर्वन्तः कल्पनादुर्भिक्षाः कैयटपृष्ठचरा अज्ञानान्धपदवीं प्रापिता इति दिक्। वस्तुतस्तु संज्ञाविधाविति निषेधवैयर्थ्येन न समाधानम्। संज्ञाविधाविति निषेधसामर्थ्यान्न तदन्तविधिरिति शेखरस्तु पूर्व्वोक्तरीत्याऽत्र विषये यो विप्रतिपद्येत तं प्रति समाधानप्रदर्शकः। वस्तुतस्तदपि रुपबादौ दोषग्रस्तत्वान्नेत्युक्तम्। अत एवात्र सामर्थ्यग्रन्थस्यानुल्लेख इति दिक्॥२७॥
[1]उपस्थित्या इति के,खे
[2]संज्ञा इति पदं खे नास्ति
[3]शब्दान्वये इति गे
[4]पूर्व्वोक्तस्य तासीत्यादौ तु धातोरित्यधिकारादेव न दोषः। न च भवन्मते आक्षेपाभावेन इति पाठः गे नास्ति।
[5]विधिप्रदेशे इति खे
[6]निपातादि इति के,खे,गे
[7]ननु इति के,खे
[8]इत्यर्थेन इति के,खे
[9]चारितार्थ्ये इति के,खे,गे
[10]प्राप्तेरेवाभावे। न तद्वै... इति खे
[11]चोभयत्रापि इति के
[12]संज्ञाया विधौ इति इतरेषु पाठः।