कार्यकालं संज्ञापरिभाषम्
कार्यकालं संज्ञापरिभाषम्॥३॥
कार्यकालमित्यस्य च कार्येण काल्यते = स्वसन्निधिं प्राप्यत इत्यर्थः। कार्येण स्वसंस्काराय स्ववृत्तिलिङ्गचिह्नितपरिभाषाणामाक्षेप इति यावत्। अत एव 'पूर्वत्रासिद्धम्' इति सूत्रे भाष्ये त्रिपाद्या असिद्धत्वात्तत्र सपादसप्ताध्यायीस्थपरिभाषाणामप्रवृत्तिमाशङ्क्य यद्यपीदं तत्रासिद्धं तत्त्विह सिद्धमित्युक्त्वा तावताप्यसिद्धिरित्यभिप्रायके कथमिति प्रश्ने - कार्यकालं संज्ञापरिभाषं यत्र कार्यं तत्रोपस्थितं द्रष्टव्यमित्युक्तम्। न च कार्यकालपक्षे 'ङमो ह्रस्वात्' इत्यादौ 'तस्मादित्युत्तरस्य', 'तस्मिन्निति निर्दिष्टे पूर्वस्य' इति परिभाषाद्वयोपस्थितौ परत्वाद् 'उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्' इति 'तस्मिन्' इति सूत्रस्थभाष्यासङ्गतिः, उभयोरेकदेशस्थत्वेन परत्वादित्यस्यासङ्गत्यापत्तेः, स्पष्टं चेदम् 'इको गुणे'त्यत्र कैयट इति वाच्यम्, 'विप्रतिषेध'सूत्रेऽष्टाध्यायीपाठकृत-परत्वस्याश्रयणेनादोषात्। न हि कार्यकालपक्ष इत्येतावता तदपैति, पक्षद्वयेऽपि प्रदेशेषु स्वबुद्धिजननेनाविशेषात्। नहि तत्पक्षेऽप्यचेतनस्य शास्त्रस्य स्वदेशं विहाय तद्देशगमनं सम्भवति। नाप्यस्मदादिबुद्धिजननेन स्वदेशत्यागो भवति। अत एव भाष्य एकदेशस्थस्यैव सर्वशास्त्राभिज्वालकत्वमुक्तम्। अत एव 'तस्मिन्' इति सूत्रे कैयटः - सूत्रपाठापेक्षया परत्वस्य व्यवस्थापकत्वमिति। 'इको गुण' इति सूत्रस्थकैयटस्तु चिन्त्य एव। अन्यथा सर्वशास्त्राणां प्रयोगार्थत्वेन प्रयोगरूपैकदेशस्थत्वेन क्वापि परत्वं न स्यात्। किञ्च 'क्क्ङिति च' इति सूत्रस्थकैयटरीत्या विधिसूत्राणां यथोद्देशपक्षे परिभाषादेशे सन्निधानेन तेषां परत्वं व्याहन्येत। एवं च वृक्षेभ्य इत्यत्र 'सुपि च' इत्यतः परत्वाद् 'बहुवचने झल्येत्' इत्येत्त्वमित्याद्युच्छिद्येत, इत्यलम्॥३॥
कामाख्या
द्वितीयां व्याचष्टे कार्यकालमिति। आक्षेप इति। परिभाषोपस्थाप्य पदानामदृष्ट पिशाचाकर्षणन्यायादुपस्थापनम्। अत एवेति। परिभाषाणामाक्षेपादेव। अप्रवृत्तिमाशंक्येति। त्रिपादीस्थशास्त्रस्यासिद्धत्वेनादर्शनात् आकर्षणन्न करिष्यतीति भावः। यद्यपीदम् = त्रिपादीशास्त्रम्। तत्रेति। सापादिकपरिभाषायां। तत्तु = सापादिकन्तु। इह = त्रैपादिकशास्त्रे।
अयं भावः - परिभाषया स्वदेशे त्रिपादीशास्त्रस्याकर्षणाभावेऽपि त्रिपादीशास्त्रेण स्वदेशे अदृष्टपिशाचन्यायेनाकर्षणं स्यादेवेति। तावताप्यासिद्धिः। एतावत्कालपर्यन्तं भवता कार्यकालपक्षस्याश्रयणाभावेन विधिशास्त्रस्याकर्षणसामर्थ्याबोधनादिति भावः। अष्टाध्यायीपाठेति। न च तद्बोधोत्तरमेव विरोधेत्यादिपूर्वग्रन्थेन सह विरोध इति वाच्यम्, संज्ञाविषये तथास्वीकारेऽपि परिभाषाविषये तथाऽस्वीकारेण विरोधाभावात्। प्रगृह्यसंज्ञाविषये विधिदेशीयपरत्वं परिभाषाविषये पाठकृतपरत्वमिति पूर्वोक्तन्न विस्मर्तव्यम्। अन्यथेति। कैयटोक्तिस्वीकारे। प्रयोगार्थत्वेन = प्रयोगसिद्धिफलकत्वेन तत्साधनावसरे द्वयोरप्येकदा बुद्धेर्जातत्वादेकदेशस्थत्वव्यवहारस्तयोः स्यात्। न स्यादिति। तथा च विप्रतिषेधशास्त्रासंगतिरेव स्यात्। ननु विप्रतिषेधशास्त्रभयात्प्रयोगरूपो देशो न गृह्यते इत्यत आह किञ्चेति। एवं च। तेषां परत्वस्य व्याघातेन च। अन्यत्सर्वं सुगममिति दिक्॥३॥
परिभाषार्थमञ्जरी
स्पष्टञ्चेदमिति। स्पष्टमित्यारभ्य कैयट इत्यन्तः पाठ आहुरित्यस्याग्रे प्रक्षिप्तः। तेन संज्ञा विषयस्यास्पष्टत्वात्। न चेदमित्यस्य यथोद्देशवर्णनमित्यर्थः।तस्य तदुक्तमित्यनेन स्पष्टमुक्तत्वात्। न च कार्य्यकालेति। यत्तु कैयटानुयायिभिर्य्यथोद्देशपक्षकुत्सितयष्टिमवलम्ब्य इदं भाष्यं व्याख्यातम्। तथा हि यत्र तु यथोद्देशत्वेन परत्वात् त्रिपाद्यां प्रधानस्य संस्कारो यथा 'ङमो ह्रस्वादि'त्यत्र 'न मुन' इति योगविभागेन 'न पदान्त' सूत्रे द्विर्वचनादीनां केषाञ्चिद्ग्रहणेन 'इदुदुपधस्ये'ति सूत्रेऽप्रत्ययग्रहणेन वा केषाञ्चिदसिद्धत्वाभावात्प्रधानस्योपकारक[1] इति। तत्तु स्वेनैव स्वलेखनगौरवभाराक्रान्तमिति न मत्कृतयत्नमपेक्षते। योगविभागस्य भाष्येऽदृष्टत्वात्। द्विर्व्वचनादीनां भगवता[2] प्रत्याख्यानात्। अप्रत्यय इत्यस्याप्रत्ययो यो विसर्ग इत्यर्थं दूषयित्वा प्रत्ययपदस्य तत्सम्बन्धिपरत्वेन प्रत्ययसम्बन्धिभिन्न इत्यर्थस्य भाष्यशेखरशब्दरत्नादौ व्यवस्थापितत्वात्। यदपि कार्य्यकालपक्षपातिमूले 'अदसो मादि'ति सूत्रस्थम् 'अयादिभ्यः परैव प्रगृह्य संज्ञे'ति भाष्यविरोधोद्भावनं पाठकृतपूर्वत्वाश्रयणे अयादीनामेव परत्वं स्यादित्याशयः। तदपि[3] विशेषविषयकत्वरूपदूषणेन पराहतम्। इदं भाष्यं परिभाषाविषयकम्। तत्तु संज्ञाविषयकमिति महान् भेदः। मन्मते तु अन्यतराकाङ्क्षयापि सम्बन्ध इत्युक्तमेव मूलकृता। यदपि 'ङम' इति पञ्चम्या निरवकाशत्वेन परत्वं भाष्योक्तम् अनुपपन्नमित्यज्ञानमूलकृत आविश्चक्रुः। तदपि न। तत्रैव भाष्ये विवरणकारैस्तदुक्तेः। अत्रोल्लेखस्तूक्तिसम्भवप्रदर्शनायैकदेशिनः। सिद्धान्ते तु अनवकाशत्वेन 'ङम' इति पञ्चमीनिर्देशस्यैव प्राबल्यम्। इत्यलमसदालापेनेति दिक्। इत्यलमिति। ननु 'अदसो मादि'ति सूत्रस्थपरैव प्रगृह्यसंज्ञेति संज्ञापदेन तत्कार्य्यं प्रकृतिभाव उच्यते। आशयमजानत अयं[4] प्रश्नः कथमिति। एकदेशिनः उत्तरं कार्यकालमिति। एवञ्चात्रापि पक्षे स्वदेशे वाक्यार्थबोध इति। संज्ञाशास्त्रपरिभाषाशास्त्रयोरेकरूप्यमेव। अन्यथात्रापि पाठकृतपरत्वे गृह्यमाणे अयादीनामेव परत्वमापद्येतेति भाष्यासङ्गतिः। अत एव मदुक्तरीत्यैव भाष्यं व्याख्याय अत एव 'ङमो ह्रस्वादची'ति सूत्रस्थभाष्यविरोधो नेति 'तस्मिन्निति' सूत्रस्थविवरणं सङ्गच्छते इति चेन्न। एकादेशिभाष्यविरोधपरिहाराय यथाश्रुतभाष्यस्यान्यथा व्याख्यानन्तुशपथनिर्णेयमिति तथा वक्तुमशक्यत्वात्। विरोधपरिहारस्तु विशेषविषयत्वेन पूर्वं कृत एव। 'तस्मिन्निति' सूत्रस्थपञ्चमीनिर्देशोऽनवकाशत्वाद्भविष्यतीति भाष्यव्याख्यापरबलवत्वात् स्वार्थ एव भविष्यतीति विवरणविरोधेन 'उभयनिर्देशे पञ्चमी'ति परिभाषा व्याख्यानपरानवकाशत्वात्पञ्चमी निर्देशः प्रबल इति। मूलविरोधेन तत्रत्य गदाविरोधेन चात्रत्यसामान्यविवरणस्य प्राचीनानुसारितत्वात्। तेन विप्रतिषेधस्य ङम[5] इत्यादौ दुष्टत्वं[6] बोधितम्। किञ्च तावताऽपि पदैकवाक्यतावाक्यैकवाक्यताकृतभेदस्य जागरूकतत्वाच्च। उभयत्रापि पदैकवाक्यतास्वीकारे तु 'उपस्थितमिदं भवति ईदूदेद्विवचनमि'ति दूषणदीक्षितादिचरण निगड[7]निर्म्मोके वृद्धिपदाभिन्नादैचां विधाने भाव्यमानतया 'अणुदित्'सूत्राप्रवृत्तौ तपरकरणं स्पष्टार्थमिति तदभीष्टसिद्धौ तपरकरणमैजर्थमिति वृद्धिसंज्ञासूत्रस्थभाष्यविरोधो भवताम्। विरोधश्च तत्रत्यवाक्यैकवाक्यतया प्राचीनमतदूषणपरविवरणस्य। किञ्च वृद्धिसंज्ञासूत्रस्थसंज्ञासूत्रोणां वाक्यैकवाक्यतामङ्गीकृत्य तपरकरणप्रत्याख्यानपरप्राचीनमतखण्डकशेखरग्रन्थविरोधश्च। न चोभयत्रापि वाक्यैकवाक्यतैवास्तु।[8] 'षष्ठी स्थाने'ति सूत्रभाष्येणात्रत्यभाष्येण च तथाऽबोधनात्। विनिगमनाविरहात्। किञ्च लक्षणया तादृशार्थवादिनां मते प्रकृतिभावस्य परत्वेऽपि प्रगृह्यसंज्ञां विना तदप्राप्तेः। प्रगृह्यसंज्ञायास्तु परत्वेनायादिबाधरूपदूषणकीटेन निरुक्तत्वाच्च। त्वदुक्तमर्थमुक्त्वा अन्त्ये दिगित्युक्तं वृद्धैस्तत्र दिगर्थस्तु मदुक्त एवेति न तद्विरोध इत्यलम् अतिलेखेनेति दिक्।
बोधः स्वदेशे लक्ष्याणामपरत्र च संस्कृतिः।
वाक्यैकवाक्यता ह्याद्ये स च मन्दोपकारकः॥१॥
द्वितीये विधिसम्बद्धपदैः सह विनिर्णयः।
तत्रैव लक्ष्यसंस्कारो जिज्ञासा विनिवर्तते[9]॥२॥
संज्ञानां परिभाषाणामेषा प्राचीनपद्धतिः।
यथोद्देशे नवीनानां स्वदेशे ह्यर्थनिर्णयः॥३॥
पदैकवाक्यतालक्ष्यसंस्कारोऽत्रैव सम्मतः।
विशेषज्ञोऽधिकारी स्यात्षष्ठी स्थानेति भाष्यतः॥४॥
विधिप्रदेशे वाक्यार्थः कार्यकाले पदैः सह।
भाष्यान्तरस्य दुष्टत्वात् विशेषज्ञोपकारता॥५॥
यथोद्देशे तु संज्ञानां [10]प्राचीनोक्तेरभिन्नता।
विशेषज्ञोपकारस्तु विशेषो भाष्यकृन्मतः॥६॥
कार्यकाले तु संज्ञानां स्वदेशेनैव निर्णयः।
ईदूत्सूत्रस्थभाष्येण पदानां नैकवाक्यता॥७॥
तत्रैव संस्कृतिः प्रौढमनोरञ्जनता तथा।
आकडाराधिकारस्थसंज्ञासु तु विपर्ययः॥८॥
जातशक्तिगृहेणैव संस्कृतिर्भाष्यमानतः।
संगृहीतो विवेकोऽत्र मतानां बालबुद्धये॥९॥
[1]उपस्करोति इति के खे
[2]भाष्यकृता इति घे
[3]तदापि इति जे
[4]अग्रे इति के खे घे
[5]ङम इत्यंशे इति के खे ङे
[6]सुष्पष्टत्वम् इति ङे
[7]विनिर्म्मोक् इति के खे ङे
[8] 'तन्मूलस्यैकदेश्युक्तित्वरूपदूषणकीटेन उक्तत्वाच्च' इति पाठः चे, घे पुस्तके अधिकः।
[9]विनिवर्तनम् इति के खे ङे
[10]यथोद्देशे तु संज्ञानां स्वदेशेनैव निर्णयः। ईदूत्सूत्रस्थभाष्येण पदानां नैकवाक्यता।। इति के, खे पुस्तके।