प्रत्ययग्रहणे चापञ्चम्याः
'येन विधि'रिति सूत्रे भाष्य एतद्घटकतदन्तांशस्यापवादः पठ्यते -
प्रत्ययग्रहणे चापञ्चम्याः।२४।
यत्र पञ्चम्यन्तात्परः प्रत्ययः कार्यान्तरविधानाय परिगृह्यते, तत्र तदन्तविधिर्नेत्यर्थः। यथा 'रदाभ्यां निष्ठातो नः' इत्यत्र। तेन 'दृषत्तीर्णे'त्यादौ धातुतकारस्य न नत्वम्। तदन्तेत्यंशानुपस्थितावपि तदादीत्यंशस्योपस्थितौ रेफदान्तात्परस्य निष्ठातस्येत्यर्थ इति न दोषः, तदंशानुपस्थितौ मानाभावात्। तदन्तांशोपस्थितौ तूभयोरेकविषयत्वमेव स्यादिति 'दृषत्तीर्ण' इत्यादौ दोषः स्यादेव। 'स्यतासी लृलुटोः' इत्यादौ लृलुटोः परयोरित्यर्थे नियमेनावधिसाकाङ्क्षत्वेनोपस्थितधातोरित्यस्यावधित्वेनान्वयान्नतदन्तविधिः। 'हल्ङ्याब्भ्यः' इत्यादौ तु न दोषः, तत्र कस्मादिति नियतावध्याकाङ्क्षाया अभावेन पञ्चम्यन्तस्य प्रत्ययविशेषणत्वाभावात्। अङ्गसंज्ञासूत्रे तु तदादेः प्रत्यये पर इत्यर्थे पञ्चम्यन्तस्य विशेषणत्वं स्पष्टमेव। अत एव 'उत्तमैकाभ्यामि'त्यादिनिर्देशाः सङ्गच्छन्ते॥२४॥
कामाख्या
एतद्घटकेति। एतत्परिभाषोपस्थाप्य तदादिशब्दस्वरूपप्रयोज्येत्यर्थः। अत एव 'किमेत्तिङव्यये'त्यादौ प्रातिपदिकविशेष्यकतदन्तविधावेतस्या अप्रवृत्त्या पचतितरामिति समुदायस्यतद्धितान्ततदादिप्रयुक्तप्रातिपदिकनिबन्धनसुबुत्पत्तिः। यत्र पञ्चम्यन्तात्पर इति। अव्यवहितोत्तरत्वसम्बन्धावच्छिन्नपञ्चम्यन्तपदप्रयोज्यप्रकारतानिरूपितविशेष्यताप्रयोजकं यत्प्रत्ययमात्रवृत्तिविषयताप्रयोजकं पदं तत्तदादिशब्दस्वरूपं विशेष्यमादाय स्वनिष्ठचरमावयवतानिरूपकसमुदायवृत्तिविषयताप्रयोजकं न भवतीति परिभाषार्थः। कार्यान्तरविधानायेति। न तु स्वस्यैव विधानायेत्यर्थः। यत्तु प्रत्ययेतरकार्यविधानायेति व्याख्याय पचतितरामिति फलं दत्तं तन्न, तत्र प्रातिपदिकविशेष्यकतदन्तविधेः सत्त्वेन परिभाषायाः अप्रवृत्तेः। दृषत्तीर्ण इति। परिभाषाऽभावे रेफदान्तात्परस्य निष्ठान्ततदादेरित्याद्यर्थेऽत्र दोषो बोध्यः। परिभाषास्वीकारे तदाद्यवयवरेफदकारात् परीभूतस्य निष्ठातस्येत्यर्थेन दोषः। नचात्र अन्त्यबाधेऽन्त्यसदेशस्येति परिभाषया न दोष इति वाच्यम्। तीर्णवन्तौ इत्यादौ अन्त्यतकारेऽपि नत्वप्राप्त्याऽन्त्यस्य बाधाभावेन उक्तपरिभाषाया अप्राप्तेः। निर्दिश्यमानपरिभाषयाऽपि वारणान्न संभवति। 'रदाभ्या'मिति सूत्रे रदाभ्यामित्युच्यमानेऽपि 'चरितं मुदित'मित्यत्र कस्मान्नेत्याशङ्क्य रदाभ्यामित्यस्य तकारविशेषणत्वेन समाधानपरभाष्यादत्र निर्दिश्यमानपरिभाषा अप्रवृत्तिबोधनात्। यदि च 'क्तक्तवतू निष्ठा'इति सूत्रे षष्ठ्यभावेन निर्दिश्यमानेति परिभाषाया अप्रवृत्त्या आगमसहितस्यापि निष्ठासंज्ञायां चरितमित्यत्र निर्दिश्यमानपरिभाषयावारणासम्भवेन तकारविशेणत्वस्यावश्यकत्वेन भाष्यविरोधासंभवेन दृषत्तीर्ण इत्यादौ निर्दिश्यमानपरिभाषया वारणसंभवः। किञ्च 'रदाभ्यामि'ति सूत्रे निष्ठेति लुप्तषष्ठ्या निष्ठान्त तदाद्यवयवाभ्यां रेफदकाराभ्यां परीभूतस्य तस्य नत्वमित्यर्थे प्रकृते न दोष इत्युच्यते। तर्हि आशब्दादाचारक्विबन्तात्कर्तरि क्विपि नपुंसकह्रस्वे तस्मादाचारक्विबन्तात् क्तप्रत्यये अतो लोप न इति तस्य दृषदित्यनेन सम्बन्धे दृषत इत्यत्र नत्ववारणाय परिभाषेति केचित् निष्ठान्ततदाद्यवयवाभ्यामित्याद्यर्थं न दोष इति तत्वम्। ननु तदन्तविध्यभावेऽपितदादिपदोपस्थितये प्रत्ययग्रहणे चापञ्चम्या इत्यस्याःप्रत्ययग्रहणे यस्मादेतस्या अनपवादत्वमेव। नवीनमते वक्तव्यं स्यात्तथा च तयैव तदन्तविधिरपि स्यादित्यत आह तदन्तांशोपस्थितौ त्विति। एकविषयत्वमेवेति, यत्र तदन्तत्वन्तत्रैव तदादित्वमपि ग्राह्यम्। रदाभ्यामित्यत्रोभयोरप्यंशयोरनुपस्थितौ दृषत्तीर्ण इत्यादौ दोषः स्यादेवेति भावः। नन्वेवं ङ्यापोरपि प्रययत्वात्ताभ्यां प्रातिपदिकादित्यस्याक्षेपे तस्य ङ्याब्विशेषणत्वेन तदन्तांशानुपस्थितौ ङ्यन्तादबन्तादित्यर्थालाभोऽत आह हल्ङ्याब्भ्य इति। अभावेनेति। स्वमते आक्षिप्तार्थस्य शाब्दे भानाभावेन नियतवाव्याकाङ्क्षाया अभावेन उपस्थितस्य तदादेरित्यस्य विशेष्यत्वं ङ्याप्शब्दस्य विशेषणत्वेन तदन्तविधिरिति भावः। नन्वेवमङ्गसंज्ञासूत्रे तदन्तविधौ प्रत्ययपूर्वस्याङ्गत्वं न स्यादत आह अङ्गसंज्ञेति। अन्यत्सर्वं सुगमम्॥२४॥
परिभाषार्थमञ्जरी
ननु सूत्रे पञ्चम्यन्ताभावेन तदन्तविधावनिष्टं स्यादत आह नियमेनेति। ननु 'ङ्याब्भ्य' इत्यनेन प्रातिपदिकादित्यस्याक्षेपे ङ्याबन्तादित्यर्थो न स्यादत आह ङ्याब्भ्य इत्यादाविति। तत्रेति। ङ्याबंशे इत्यर्थः। पञ्चम्यन्तस्येति। आक्षिप्तप्रातिपदिकादित्यस्य। प्रत्ययविशेषणाभावादिति। नियमेन ङ्याबिति [1]प्रत्ययविशेषणत्वाभावादित्यर्थः।एवञ्च यत्र नियमेन पञ्चम्यन्तता तत्रैव निषेध इति भावः। सुतिसीत्यंशे तु निषेध प्रवर्तत एव। वस्तुतस्तु ङ्याब्भ्यः परस्य [2]प्रत्ययसोर्लोप इत्यर्थेऽपि न दोषो मास्तु तदन्तता तथापि पूर्व्वापेक्षया विशेषप्रतिपादनायेदमुपात्तमिति बोध्यम्। ननु पञ्चम्यन्तस्य प्रत्ययविशेषणत्वाभावात् यस्मात्प्रत्यय इत्यङ्गसंज्ञासूत्रेऽपि तथैव स्यादित्यत आह अङ्गेति। तत्र स्थिततदादीत्यस्यान्वय इति भावः। अत्र तु न तथेति वैषम्यम्। निर्द्देशा सङ्गच्छन्ते इति। अन्यथाऽङ्गसंज्ञाया अभावेन 'सुपी'ति दीर्घो न स्यादिति भावः॥२४॥
[1]प्रत्ययविशेषणाभाव इति खे,गे
[2]प्रत्यय इति नास्ति के,खे