एकयोगनिर्दिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः
ननु 'उश्च' इत्यत्र 'लिङ्सिचौ' इत्यतः 'आत्मनेपदेषु' इत्येव सम्बध्येत अनन्तरत्वादत आह -
एकयोगनिर्दिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः।१७।
वाशब्द एवार्थे। परस्परान्वितार्थकपदानां सहैवानुवृत्तिनिवृत्ती इत्यर्थः। एककार्यनियुक्तानां बहूनां लोके तथैव दर्शनादिति भावः। यत्त्वत्र ज्ञापकं 'नेड्वशी'त्यत इडित्यनुवर्तमाने 'आर्धधातुकस्येडि'त्यत्र पुनरिड्ग्रहणम्। तद्धि नेत्यस्यासम्बन्धार्थमिति। तन्न; 'दीधीवेवीटामि'ति सूत्रे भाष्ये तत्रत्येड्ग्रहणप्रत्याख्यानायेड्ग्रहणेऽनुवर्तमाने पुनरिड्ग्रहणस्येटो गुणरूपविकाराभावार्थकत्वस्योक्तत्वेन तद्विरोधात्। नञो निवृत्तिस्तु 'क्वचिदेकदेशोऽप्यनुवर्तते' इति न्यायेन सिद्धा। वस्तुतस्तु 'दीधीवेवीटामि'ति सूत्रस्य भाष्यमेकदेश्युक्तिः, 'आर्धधातुकस्ये'ति सूत्रस्थेड्ग्रहणस्य 'नेड्वशि' इति सूत्रे भाष्ये प्रत्याख्यानात्, तत्करणेन गुरुतरयत्नमाश्रित्यैतत्प्रत्याख्यानस्यायुक्तत्वात्॥१७॥
कामाख्या
वा शब्द इति। एवकार एव वक्तव्ये वा शब्दद्वयमलङ्काराय। परिभाषार्थस्तु एकस्मिन्योगः सम्बन्धस्तेन निर्दिष्टानामेकान्वितानामिति। यथा कित्वेऽन्वितानां लिङ्सिजात्मनेपदानाम् फलितार्थमाह परस्परेति। केचित्तु एककार्यनियुक्तानामिति दृष्टान्तप्रदर्शनेन योगपदं कार्यपरमित्याहुस्तन्न, एकत्रार्थे योगः सम्बन्ध इति मूलेन विरोधादन्यत्र योगशब्दस्य तथाऽदृष्टत्वाच्च। एषामेव क्वचित्सहानुवृत्तिनिवृत्ती क्वचिदेकदेशानुवृत्तिरिति परिभाषाद्वयेनोच्यते। परिभाषाया लोकसिद्धत्वमाह एककार्येति। यत्त्वित्यादिना ज्ञापकासिद्धत्ववादिमतं खंडयति। तद्विरोधादिति। यदिह नञोऽसम्बन्धार्थमेवार्धधातुकेति सूत्रस्थमिट्ग्रहणं स्यात्तर्हीट्ग्रहणेऽनुवर्तमाने इति भाष्योक्तिविरुद्धा स्यात्। ज्ञापकसिद्धत्ववादिमतं सर्वथाभाष्यविरुद्धमिति बोधयितुमाह वस्तुतस्त्विति। तत्करणेन 'आर्धधातुके'ति सूत्रे इठशब्दकरणेन। गुरुतरयत्नमिति। तत्रेट् ग्रहणस्य नियमार्थत्वस्वीकरणरूपं वस्तुतस्तु एकाराननुवृत्तितात्पर्यफलकम् 'अदसो मादि'ति सूत्रे माद्ग्रगणमेवात्र ज्ञापकम् ईदूदित्येकदेशानुवृत्यैव सिद्धेः। एवं 'लिङसिजावि'त्यतः सिज्ग्रहणानुवृत्त्यैव सिद्धे हनः सिजित्यत्र सिज्ग्रहणस्यापि ज्ञापकत्वमिति दिक्॥१७॥
नास्ति।