सूत्रे लिङ्गवचनमतन्त्रम्
ननु 'तस्यापत्यम्' इत्येकवचननपुंसकाभ्यां निर्देशाद् 'गार्ग्यो, गार्ग्यौ' इत्याद्ययुक्तमत आह -
सूत्रे लिङ्गवचनमतन्त्रम्।७४।
'अर्द्धं नपुंसकम्' इति नपुंसकग्रहणमस्या ज्ञापकम्। नित्यनपुंसकत्वार्थं तु न तदित्यन्यत्र निरूपितम्। धान्यपलालन्यायेन नान्तरीयकतया तयोरुपादानमिति 'तस्यापत्यम्' इत्यत्र भाष्ये स्पष्टम्। अत एव 'आकडार'सूत्रे एकेति चरितार्थमित्यन्यत्र विस्तरः॥७४॥
कमाख्या
ननु 'तस्यापत्यमि'त्यनेन तत्सम्बन्ध्येकत्वनपुंसकत्वविशिष्टापत्यरूपार्थबोधकोऽणादिप्रत्ययो भवतीत्येवार्थो बोध्यते। ततश्च गार्ग्यो गार्ग्यावित्यादौ यञ् प्रत्ययस्यैकत्वनपुंसकत्वविशिष्टापत्यबोधकत्वेनैकत्वविशिष्टवाचकादेकवचनं, नपुंसकत्वविशिष्टवाचकात् परयोः स्वमोरमित्यर्थकाभ्यां 'द्व्योकयोर्द्विवचनैकवचने' 'अतोऽमि'ति सूत्राभ्यामेकवचनस्य सोरमादेशस्य चैवं साधुत्वेन पुंल्लिङ्गताद्विवचनयोरनुपपत्तिरित्यत आह सूत्रेलिङ्गेति। सूत्रघटकशब्दजन्यबोधविषयत्वेन तात्पर्यविषयत्वं लिङ्गस्य संख्यायाश्च नेत्यर्थः। ततश्चापत्यत्वावच्छिन्नबोधविषयत्वमेव यञादीनां लिङ्गसंख्याकार्यन्तु विशेष्यगतलिङ्गसंख्यानुसारेणैव। ज्ञापकमिति। अन्यथाऽर्धमिति निर्देशादेव नपुंसकत्वलाभे तद्वैयर्थ्यं स्पष्टमेव। ननु खण्डवाचकस्यार्धशब्दस्य नपुंसकत्वात् तद्व्यावृत्त्यर्थं नित्यनपुंसकस्य ग्रहणमिति वक्तव्यमिति। तल्लाभार्थं सूत्रे नपुंसकशब्दोऽस्त्वित्यत आह नित्यनपुंसकेति। अन्यत्रेति। नैव लोकेऽर्ध एकारोऽर्ध ओकारो वास्तीति भाष्येऽर्ध इति प्रयोगात् समांशवाचकस्यापि न नित्यनपुंसकतेति निरूपितम्। इयं च न ज्ञापकसाध्यैव किन्तु युक्तिसाध्यापीत्याह धान्यपलालेति। यथा धान्यमात्रार्थिनापि धान्यमात्रानयनस्याशक्यतया सतुषं सपलालमानीयते। नान्तरीयकतया। आवश्यकतया। यावदादेयं तावदादाय तुषपलालान्युत्सृज्यते। तथाऽपत्यार्थमात्रबोधेच्छोराचार्यस्यापि शब्दाल्लिङ्गसंख्याभ्यां विना प्रातिपदिकार्थमात्रबोधस्याशक्यतया तयोरुपादानमिति भावः। वचनस्यातन्त्रत्वे प्रमाणमाह अतएव। अन्यथा पदं भमित्यादौ संज्ञेत्यत्र चैकत्वस्य लाभे सिद्धे एकग्रहणं व्यर्थं स्यात्॥७४॥
नास्ति।