Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

पूर्वोत्तरपदनिमित्तकार्यात् पूर्वमन्तरङ्गोऽप्येकादेशो न

नन्वेवं सौमेन्द्रेऽन्तरङ्गत्वाद् आदगुणे पूर्वपदात् परेन्द्रशब्दाभावेन 'नेन्द्रस्य परस्य' इति वृद्धिनिषेधो व्यर्थः, अन्तादिवद्भावस्तूभयत आश्रयणे निषिद्धः। किश्च वृद्धिरप्यत्र न प्राप्नोति, अन्तादिवत्त्वोभयाभावेऽपि पूर्वान्तवत्त्वेनैकादेशविशिष्टे पूर्वपदत्वेन 'इन्द्र'शब्दस्यैकदेशविकृतन्यायेन 'उभयत आश्रयणे नान्तादिवदि'त्यस्याभावेन तदाश्रयणेन वोत्तरपदत्वेऽपि तस्यानच्कत्वाद् एकस्यैकादेशेन परस्य नित्येन 'यस्येति' लोपेनापहारात्।

न च परादिवद्भावेन एकादेशविशिष्टस्योत्तरपदत्वमेवास्त्विति तत्सम्भव इति वाच्यम्, उत्तरपदाद्यच्स्थानिकत्वाद् वृद्धेस्तदभावेनाप्राप्तेस्ताद्रूप्यानतिदेशात्। अन्यथा 'खट्वाभिरि'त्यादावपि पूर्वान्तवत्त्वेनादन्तत्वे भिस ऐसापत्तिरिति भाष्ये स्पष्टम्। अत एव 'पूर्वेषुकामशम' इत्यादावन्तरङ्गत्वादाद् गुणे वृद्धिर्न स्यादित्याशङ्कितम्। तदेकदेशमात्रस्य विकाराभावाच्च।तदुक्तं भाष्ये- 'इन्द्रे द्वावचावेको यस्येति लोपेनापहृतोऽपर एकादेशेन ततोऽनच्क इन्द्रशब्दः सम्पन्नस्तत्र कः प्रसङ्गो वृद्धेरि'ति। मरुदाभिरिन्द्रस्य द्वन्द्वे इन्द्रस्यैव पूर्वनिपातोऽत आह

पूर्वोत्तरपदनिमित्तकार्यात् पूर्वमन्तरङ्गोऽप्येकादेशो न।५३।

अत्र च 'नेन्द्रस्य' इति निषेध एव ज्ञापक इति 'अन्तादिवच्च', 'विप्रतिषेधे परमिति सूत्रयोर्भाष्ये स्पष्टम्॥५३॥

 

कामाख्या

अन्तरङ्गपरिभाषाबाधिकामवतारयति नन्वेवमिति। अन्तरङ्गत्वादिति। न च समर्थग्रहणेन कृतसंधिकार्यात् प्रत्ययोत्पत्त्या अन्तरङ्गत्वादिति कथनमयुक्तमिति वाच्यम्। समर्थग्रहणस्यान्तरङ्गपरिभाषानुवादकत्वेनादोषात्। ननु पूर्वान्तवद्भावेन सोमे शब्दे पूर्वपदत्वस्य परादिवद्भावेन एन्द्रशब्दे इन्द्रशब्दत्वस्य च लाभसंभव इत्यत आह अन्तादीति। प्राचीनमते विरुद्धाभ्यां पूर्वपरशब्दाभ्याम् अन्तादिशब्दाभ्यां च विरोधस्य स्फुरणाद्विरुद्धातिदेशद्वयस्य च एकदाऽतिदेशालभ्यत्वमिति। उभयत आश्रयणे नान्तादिवदिति सिद्धम्। ननु उभयत आश्रयणमिह नाङ्गीक्रियते किन्तु पूर्वान्तवद्भावेनैकादेशविशिष्टे पूर्वपदत्वम् एकदेशविकृतन्यायेन न्द्रशब्दस्य उत्तरपदत्वञ्चाश्रित्य 'नेन्द्रस्ये'ति निषेधः सार्थक इति मनसिकृत्याह किञ्चेति। अन्तादिवत्वोभयाश्रयणाभावेन उभयत आश्रयणे इति निषेधाप्रवृत्तावपि वृद्धिर्न्न प्राप्नोति। अनच्कत्वादिति वक्ष्यमाणेनान्वयः। प्रकारान्तरमाह उभयतइत्यादि। स्वमते उभयत आश्रयणेऽपि 'अन्तादिवच्चे'ति प्रवर्त्यताम्, किन्तु पौर्वापर्यरूपव्यपवर्गस्यातिदेशसहस्रेणाप्यतिदेष्टुमशक्यतया अभीयादित्यत्र दोषाभाव इति तदाश्रयणे। अन्तादिवद्भावेन पूर्वपदत्वोत्तरपदत्वाश्रयणे च वृद्धिर्न्न प्राप्नोति। तदेवोपपादयति। एकस्येति। एकस्य इकारस्य परस्य अकारस्य। ननु परादिवद्भावेनैकादेशविशिष्टे एन्द्रशब्दे उत्तरपदत्वं मान्ते एकदेशविकृतन्यायेन पूर्वपदत्वमिति वृद्धिप्राप्तिः सुलभेत्यत आह न चेति

अयं भावः - केवलोत्तरपदत्वस्याशास्त्रीयत्वेनातिदेशासम्भवः किन्तूत्तरपदाद्यच्त्वं परादिवद्भावेनानेयम्। तस्य च शास्त्रीयाच्त्वघटितत्वेन शास्त्रीयत्वात्। परं तस्य वर्णमात्रवृत्तिधर्मघटितत्वेनातिदेशासंभवः ताद्रूप्यानतिदेशादिति भाष्यादिति। ताद्रूप्यं च स्ववृत्तित्व स्वस्थानिकादेशावृत्तित्वोभयसम्बन्धेन। एकादेशस्थानिविशिष्टो यो वर्णमात्रवृत्तिधर्मस्तद्घटितत्वं समन्वयः सुगमः। अत्र निरुक्तोभयसम्बन्धेन एकादेशस्थानिविशिष्टवर्णमात्रवृत्तिधर्मः उत्तरपदाद्यचत्वम्, तद्घटितमपि व्यपदेशिवद्भावेन तदेवेति। ताद्रूप्यत्वमक्षतम्। अन्यथेति। ताद्रूप्यस्याप्यतिदेशे। भाष्येस्पष्टमिति। अन्तादिवत्सूत्रभाष्ये वर्णाश्रये चान्तादिवत्वप्रतिषेधो वक्तव्यो नवा अताद्रूप्यातिदेशादित्युक्तम्। अतएवेति। ताद्रूप्यानतिदेशादेव। पूर्वेषुकामशम्यां भव इत्यर्थेऽणि, अन्तरङ्गत्वाद्गुणे 'प्राचां ग्रामनगरणामि'ति वृद्धिर्न तु उत्तरपदाद्यच्त्वाभावात् इत्याशङ्क्य अनेन न्यायेन गुणात्पूर्वमेव वृद्धिरिति समाहितम्। यदुक्तं मान्ते एकदेशविकृतन्यायेन पूर्वपदत्वमिति तत्खण्डयति तदेकदेशेति। एकाररूपविकारस्य पूर्वपरोभयैकदेशविकारत्वात्। तदेतत्सर्वमभिप्रेत्य प्रमाणयति तदुक्तमिति। ननु मरुच्छब्दस्य इन्द्रशब्देन समासे ततस्तद्धिते मारुदिन्द्रः तत्रैकादेशाभावेन वृद्धिनिषेधसूत्रसार्थकमत आहमरुदादिभिरितिइन्द्रस्यैवेति। 'अजाद्यदन्तम्' 'अभ्यर्हितम्' चेत्याभ्याम्। अन्यत् सर्वं सुगमम्॥५३॥

परिभाषार्थमञ्जरी

भिस ऐसापत्तिरिति। त‌परकरणात्तु विश्वपाभिरित्यत्र चरितार्थमिति भावः॥५३॥