Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

तदनुबन्धकग्रहणे नातदनुबन्धकस्य


ननु 'पूरणगुणे'ति निषेधस्तव्यत्यपि स्यात्। 'दिव औदि'त्यौत्त्वं दिवेः क्विप्यपि स्यात्। तथा 'यतोऽनाव' इति स्वरो ण्यत्यपि स्यात्। 'ऋदृशोऽङि गुण' इति चङ्यपि स्यात्। अत आह -

निरनुबन्धकग्रहणे न सानुबन्धकस्य।८२।

तदनुबन्धकग्रहणे नातदनुबन्धकस्य।८३।

'वामदेवाड्ड्यड्ड्यौ' इति सूत्रे ड्यड्यतोर्डित्वमनयोर्ज्ञापकम्। तद्धि 'ययतोश्चातदर्थे' इत्यत्र तयोरग्रहणार्थम्। नञः परस्य ययदन्तस्योत्तरपदस्यान्त उदात्त इति तदर्थः। एवञ्चावामदेव्येऽव्ययपूर्वपदप्रकृतिस्वर एव भवति। तन्मात्रानुबन्धकग्रहणे स चान्यश्चानुबन्धो यस्य तद्ग्रहणं नेत्यन्त्यार्थः। एते च प्रत्ययाप्रत्ययसाधारणे, दिव 'औदि'त्यादौ सञ्चारितत्वात्। वर्णग्रहणे चानयोरप्रवृत्तिरिति स्पष्टम् 'औङ आप' इत्यत्र भाष्ये। येनानुबन्धेन सानुबन्धकत्वं द्व्यनुबन्धकत्वादि वा तदनुच्चारण एवैषा धर्मिग्राहकमानात्। तेन 'जश्शसोरि'त्यत्र नैषेति निरनुबन्धकत्वात् तद्धितशस एवात्र ग्रहणं स्यादिति न शङ्क्यम्। एवमन्त्यान्यतरानुबन्धोच्चारण एव। तेन 'वनो र चे'त्यादौ ङ्वनिप्क्वनिपोर्ग्रहणसिद्धिः। एकानुबन्धग्रहणे सम्भवतीति त्वर्थो न भाष्यादिसम्मत इत्यन्यत्र विस्तरः॥८२-८३॥

 


कामाख्या

चङ्यपिस्यादिति। न च केवलेभ्य ऋवर्णान्तदृशेभ्यश्चङोऽसम्भवेन णिजन्तेभ्यस्तत्संभवेऽपि णिचाव्यवधानादेवाप्राप्तौ कथमियमुक्तिः संगतेति वाच्यम्। 'ऋदृशोऽङी'त्यतोऽङीत्यनुवर्तमाने श्वयतेर इत्यत्वं अशिश्वियदित्यत्रापि स्यादित्याशयात्। तयोरिति। वामदेवप्रकृतिकययतोः। अवामदेव्ये। वामदेव्यशब्दस्य नञ्समासे। अव्ययेति। तत्पुरुषे तुल्यार्थेति सूत्रेण विहितः। आद्यायाः स्पष्टार्थतया द्वितीयार्थमाह तन्मात्रेति। स एवानुबन्धो यस्येति नियमांशमन्तर्भाव्य समासादेतादृशार्थलाभस्तत्फलमाहस च अन्यश्चेति। एवन्नातदनुबन्धकस्येत्यत्रापि। स एवानुबन्धो यस्य स तदनुबन्धकः न तदनुबन्धकोऽतदनुबन्धकस्तस्य नेत्यर्थः।वर्णग्रहणेऽप्रवृत्तिः। तेन औपगव इत्यत्र 'ओर्गुण' इत्यस्य अधीते इत्यत्र सवर्णदीर्घस्य च प्रवृत्तिरिति केचित्। औङआपइत्यत्रभाष्ये। तत्र हि निरनुबन्धकपरिभाषया द्वितीयाद्विवचनेऽप्रवृत्तिमाशङ्क्य वर्णग्रहणेनैषेति समाहितम्। परिभाषाप्रवृत्तिविषये विशेषान्तरमाह येनेति। आद्यपरिभाषाविषये आह तेनेतितद्धितशसइति। लौकिकसाहचर्यपरिभाषापेक्षया ज्ञापकसिद्धैतत्परिभाषायाः प्राबल्यादिति भाव इत्यन्यत् सुगमम्॥८२-८३॥


परिभाषार्थमञ्जरी

चङ्यापि स्यादिति। ननु दृशेरव्यवहितचङ्परत्वस्यैवासंभवात् कथं दोषोपन्यासः। न च 'प्रकृतिग्रहणे ण्यधिकस्यापि ग्रहणात्तत्त्वम्। तस्याः­ कुत्त्वमात्रविषयकत्वस्याकरारूढत्वादिति चेन्न। 'ऋदृशोऽङि गुण' इत्यतोऽङीत्यनुवर्तमाने इकारस्याकारविधायक'श्वयतेर'इत्यनेन अश्वदित्यकारप्रवृत्तिवद् 'विभाषा धेट् श्व्यो'रिति विहितचङ्यपि स्यादित्याशयात्। अङ् तु 'जॄस्तम्भु'इत्यनेन बोध्यः। अयमाशयस्तु 'ऋदृशोऽङि गुण' इति गुणश्चङ्यपि स्यादित्यनुक्त्वा 'ऋदृशोऽङि गुण' इति चङ्यपि स्यादिति वदता मूलकृतैव बोधित इति बोध्यम्॥८३॥