Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानवत्


नन्वेवमपि राजदृषदित्यादौ 'समासस्ये'त्यन्तोदात्तत्वं षकारस्य न स्यादत आह -

हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानवत्।८१।

अस्याश्च 'यतोऽनावः' इति सूत्रेऽनौप्रतिषेधो ज्ञापकः। 'नाव्यमि'त्यत्रादिर्नकारो न स्वरयोग्यो यश्चाकारस्तद्योग्यो नासावादिरिति स प्रतिषेधोऽनर्थकः। न चादिरेव नकार उदात्तगुणविशिष्टान्तरतमाज्रूपोऽस्त्विति वाच्यम्। तथा सति निमित्तभूतद्वयच्कत्वस्य विनाशादुपजीव्यविरोधेनाद्युदात्तत्वाप्राप्तेरित्यन्यत्र विस्तरः। स्पष्टा चेयं 'समासस्ये'ति सूत्रे भाष्ये॥८१॥

 


कामाख्या

एवमपीति। स्वरोद्देश्यकविधावेवाविद्यमानावद्भावस्वीकारेऽपि। स्यादिति। किन्तु दकारस्य स्थाने आन्तरतम्यादुदात्तलृकारः स्यात्। हल्स्वरेति। स्वरविधायकशास्त्रीयोद्देश्यतावच्छेदकाक्रान्तस्य हलः स्वरविधाने कर्तव्ये व्यञ्जनमविद्यमानवदिति परिभाषार्थः। यतोऽनावइति। यत्प्रत्ययान्तस्य द्व्यच आदिरुदात्तो नावं वर्जयित्वेत्यर्थः। ज्ञापकत्वमुपपादयति नाव्यमित्यादिना। ज्ञापकत्वं विघटयति नचेति। अन्तरतमाज्रूपः। लृकाररूपः। अस्त्विति स्यादित्यर्थः। उपजीव्यविरोधेनेति। उत्तरासंख्या पूर्वां संख्यां बाधत इति न्यायेन व्यञ्जनस्य स्थानेऽचो विधाने त्रयच्त्वादुपजीव्यविरोधःस्पष्ट एवेति सूत्राप्रवृत्तौ व्यर्थमेव नौग्रहणमिति भावः। न च स्वनिमित्तविघातकस्य स्वातिरिक्तस्य स्वयमनिमित्तमित्यर्थस्यैव सन्निपातपरिभाषाया वक्ष्यमाणतया स्वेन स्वनिमित्तविनाशो न दोषायेति वाच्यम्। यस्य स्वनिमित्तविनाशं विना न चारितार्थ्यसंभवस्तेनैव स्वनिमित्तविनाशो न दोषायेति। आव्यमित्यत्र 'यतोऽनाव' इत्यस्य चारितार्थ्येन वैयर्थ्याभावात् स्वं प्रत्यपि निमित्तं न भवतीत्यदोषात्॥८१॥