परान्नित्यं बलवत्
परान्नित्यं बलवत्।४२।
कृताकृतप्रसङ्गित्वात्। तत्राक्लृप्ताभावकस्याभावकल्पनापेक्षया क्लृप्ताभावकस्यैव तत्कल्पनमुचितमिति नित्यस्य बलवत्वे बीजम्। तदाह कृताकृतप्रसङ्गि नित्यम्, तद्विपरीतमनित्यम्। अत एव 'तुदती'त्यादौ परादपि गुणान्नित्यत्वात् शप्रत्ययादिर्भवति॥४२॥
कामाख्या
नित्यं परत्वाद्बलवदिति प्रतिज्ञा। कृताकृतप्रसङ्गित्वादिति हेतुः। आवश्यके श्राद्धभोजनादौ दौहित्रादिवदिति दृष्टान्तः। अत्र परशब्दः अपवादान्तरङ्गेतरपरः। तेन तदादाय न व्यभिचारः। न च विप्रतिषेधशास्त्रेण परशास्त्रे प्राबल्यबोधनान्नित्यस्य परशास्त्रेण बाधो युक्त इति वाच्यम्। नित्यस्य कृताकृतप्रसङ्गित्वेन तुल्यबलविरोधाभावात्। अत्र हेतुदले त्रैपादिकभिन्नत्वे सतीति विशेषणं देयम्। तेन सापादिकानित्यस्य बलवत्वेऽपि न क्षतिः। अप्रयोजकत्वशङ्कावारणाय अनुकूलतर्कमाह तत्राभावेति। तत्र परनित्ययोर्मध्ये अक्लृप्तः असिद्धोऽविद्यमानो वाऽभावो यस्य तस्यनित्यस्य।बीजमिति। तथा च लाघवमेवात्र प्रमाणमिति भावः। तदाहेति। यन्नित्यस्य बलवत्वे बीजमुक्तं तदेवाहेत्यर्थः। तुदतीत्यादाविति। न चात्र शप्रत्ययस्य शित्वसामर्थ्यादेव गुणाभाव इति वाच्यम्। विचतीत्यादौ संप्रसारणाद्यर्थतया शित्वस्य चारितार्थ्यात्। ननु तुदशब्दमुच्चार्य विहितस्य शस्य प्रतिपदोक्तत्वेन पूर्वं प्रवृत्तौ नात्र दोष इत्यत आह आदीति। रुणद्धि, रंधयति, अस्मै इत्यादिरादिशब्दार्थः। आद्ये गुणं बाधित्वा श्नम्। द्वितीये उपधावृद्धिं बाधित्वा रधिजभोरिति नुम्। तृतीये नित्यत्वान्ङे स्मै पश्चाद्वलिलोप इति दिक्॥४२॥
नास्ति